🪷 Mahābhārata · Svargārohaṇa-Parva · Chapter 2

The Book of the Ascent to Heaven · Parva 18 · 54 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 54 Shlokas

MBh 18.2.1
युधिष्ठिर उवाच नेह पश्यामि विबुधा राधेयममितौजसम् भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ
MBh 18.2.2
जुहुवुर्ये शरीराणि रणवह्नौ महारथाः राजानो राजपुत्राश्च ये मदर्थे हता रणे
MBh 18.2.3
क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः
MBh 18.2.4
यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः
MBh 18.2.5
कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः न तैरहं विना वत्स्ये ज्ञातिभिर्भ्रातृभिस्तथा
MBh 18.2.6
मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै
MBh 18.2.7
इदं च परितप्यामि पुनः पुनरहं सुराः यन्मातुः सदृशौ पादौ तस्याहममितौजसः
MBh 18.2.8
दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम् न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे
MBh 18.2.9
तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम् अविज्ञातो मया योऽसौ घातितः सव्यसाचिना
MBh 18.2.10
भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम अर्जुनं चेन्द्रसंकाशं यमौ तौ च यमोपमौ
MBh 18.2.11
द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् न चेह स्थातुमिच्छामि सत्यमेतद्ब्रवीमि वः
MBh 18.2.12
किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः यत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम
MBh 18.2.13
देवा ऊचुः यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम् प्रिये हि तव वर्तामो देवराजस्य शासनात्
MBh 18.2.14
वैशंपायन उवाच इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन् युधिष्ठिरस्य सुहृदो दर्शयेति परंतप
MBh 18.2.15
ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः
MBh 18.2.16
अग्रतो देवदूतस्तु ययौ राजा च पृष्ठतः पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः
MBh 18.2.17
तमसा संवृतं घोरं केशशैवलशाद्वलम् युक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम्
MBh 18.2.18
दंशोत्थानं सझिल्लीकं मक्षिकामशकावृतम् इतश्चेतश्च कुणपैः समन्तात्परिवारितम्
MBh 18.2.19
अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम् ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम्
MBh 18.2.20
अयोमुखैश्च काकोलैर्गृध्रैश्च समभिद्रुतम् सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम्
MBh 18.2.21
मेदोरुधिरयुक्तैश्च छिन्नबाहूरुपाणिभिः निकृत्तोदरपादैश्च तत्र तत्र प्रवेरितैः
MBh 18.2.22
स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम् जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन्
MBh 18.2.23
ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् असिपत्रवनं चैव निशितक्षुरसंवृतम्
MBh 18.2.24
करम्भवालुकास्तप्ता आयसीश्च शिलाः पृथक् लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः
MBh 18.2.25
कूटशाल्मलिकं चापि दुस्पर्शं तीक्ष्णकण्टकम् ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम्
MBh 18.2.26
स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह कियदध्वानमस्माभिर्गन्तव्यमिदमीदृशम्
MBh 18.2.27
क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम्
MBh 18.2.28
स संनिववृते श्रुत्वा धर्मराजस्य भाषितम् देवदूतोऽब्रवीच्चैनमेतावद्गमनं तव
MBh 18.2.29
निवर्तितव्यं हि मया तथास्म्युक्तो दिवौकसैः यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि
MBh 18.2.30
युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितः निवर्तने धृतमनाः पर्यावर्तत भारत
MBh 18.2.31
स संनिवृत्तो धर्मात्मा दुःखशोकसमन्वितः शुश्राव तत्र वदतां दीना वाचः समन्ततः
MBh 18.2.32
भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम्
MBh 18.2.33
आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः तव गन्धानुगस्तात येनास्मान्सुखमागमत्
MBh 18.2.34
ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम
MBh 18.2.35
संतिष्ठस्व महाबाहो मुहूर्तमपि भारत त्वयि तिष्ठति कौरव्य यातनास्मान्न बाधते
MBh 18.2.36
एवं बहुविधा वाचः कृपणा वेदनावताम् तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप
MBh 18.2.37
तेषां तद्वचनं श्रुत्वा दयावान्दीनभाषिणाम् अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः
MBh 18.2.38
स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनः पुनः ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः
MBh 18.2.39
अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः उवाच के भवन्तो वै किमर्थमिह तिष्ठथ
MBh 18.2.40
इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो
MBh 18.2.41
नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत द्रौपदी द्रौपदेयाश्च इत्येवं ते विचुक्रुशुः
MBh 18.2.42
ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृप ततो विममृशे राजा किं न्विदं दैवकारितम्
MBh 18.2.43
किं नु तत्कलुषं कर्म कृतमेभिर्महात्मभिः कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया
MBh 18.2.44
य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम्
MBh 18.2.45
किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः तथा श्रिया युतः पापः सह सर्वैः पदानुगैः
MBh 18.2.46
महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः कस्येदानीं विकारोऽयं यदिमे नरकं गताः
MBh 18.2.47
सर्वधर्मविदः शूराः सत्यागमपरायणाः क्षात्रधर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः
MBh 18.2.48
किं नु सुप्तोऽस्मि जागर्मि चेतयानो न चेतये अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः
MBh 18.2.49
एवं बहुविधं राजा विममर्श युधिष्ठिरः दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः
MBh 18.2.50
क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः
MBh 18.2.51
स तीव्रगन्धसंतप्तो देवदूतमुवाच ह गम्यतां भद्र येषां त्वं दूतस्तेषामुपान्तिकम्
MBh 18.2.52
न ह्यहं तत्र यास्यामि स्थितोऽस्मीति निवेद्यताम् मत्संश्रयादिमे दूत सुखिनो भ्रातरो हि मे
MBh 18.2.53
इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता जगाम तत्र यत्रास्ते देवराजः शतक्रतुः
MBh 18.2.54
निवेदयामास च तद्धर्मराजचिकीर्षितम् यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 54 source-pinned Devanāgarī addresses to Svargārohaṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 18.2local chapter route · Svargārohaṇa-ParvaSvargārohaṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷