🪷 Mahābhārata · Svargārohaṇa-Parva · Chapter 3
The Book of the Ascent to Heaven · Parva 18 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 41 Shlokas
MBh 18.3.1
वैशंपायन उवाच
स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे
आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः
MBh 18.3.2
स्वयं विग्रहवान्धर्मो राजानं प्रसमीक्षितुम्
तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः
MBh 18.3.3
तेषु भास्वरदेहेषु पुण्याभिजनकर्मसु
समागतेषु देवेषु व्यगमत्तत्तमो नृप
MBh 18.3.4
नादृश्यन्त च तास्तत्र यातनाः पापकर्मिणाम्
नदी वैतरणी चैव कूटशाल्मलिना सह
MBh 18.3.5
लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः
विकृतानि शरीराणि यानि तत्र समन्ततः
ददर्श राजा कौन्तेयस्तान्यदृश्यानि चाभवन्
MBh 18.3.6
ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शिवः
ववौ देवसमीपस्थः शीतलोऽतीव भारत
MBh 18.3.7
मरुतः सह शक्रेण वसवश्चाश्विनौ सह
साध्या रुद्रास्तथादित्या ये चान्येऽपि दिवौकसः
MBh 18.3.8
सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः
यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत्
MBh 18.3.9
ततः शक्रः सुरपतिः श्रिया परमया युतः
युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः
MBh 18.3.10
युधिष्ठिर महाबाहो प्रीता देवगणास्तव
एह्येहि पुरुषव्याघ्र कृतमेतावता विभो
सिद्धिः प्राप्ता त्वया राजँल्लोकाश्चाप्यक्षयास्तव
MBh 18.3.11
न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः
MBh 18.3.12
शुभानामशुभानां च द्वौ राशी पुरुषर्षभ
यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः
पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः
MBh 18.3.13
भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते
तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप
MBh 18.3.14
व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति
व्याजेनैव ततो राजन्दर्शितो नरकस्तव
MBh 18.3.15
यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा
द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः
MBh 18.3.16
आगच्छ नरशार्दूल मुक्तास्ते चैव किल्बिषात्
स्वपक्षाश्चैव ये तुभ्यं पार्थिवा निहता रणे
सर्वे स्वर्गमनुप्राप्तास्तान्पश्य पुरुषर्षभ
MBh 18.3.17
कर्णश्चैव महेष्वासः सर्वशस्त्रभृतां वरः
स गतः परमां सिद्धिं यदर्थं परितप्यसे
MBh 18.3.18
तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो
स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ
MBh 18.3.19
भ्रातॄंश्चान्यांस्तथा पश्य स्वपक्षांश्चैव पार्थिवान्
स्वं स्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः
MBh 18.3.20
अनुभूय पूर्वं त्वं कृच्छ्रमितः प्रभृति कौरव
विहरस्व मया सार्धं गतशोको निरामयः
MBh 18.3.21
कर्मणां तात पुण्यानां जितानां तपसा स्वयम्
दानानां च महाबाहो फलं प्राप्नुहि पाण्डव
MBh 18.3.22
अद्य त्वां देवगन्धर्वा दिव्याश्चाप्सरसो दिवि
उपसेवन्तु कल्याणं विरजोम्बरवाससः
MBh 18.3.23
राजसूयजिताँल्लोकानश्वमेधाभिवर्धितान्
प्राप्नुहि त्वं महाबाहो तपसश्च फलं महत्
MBh 18.3.24
उपर्युपरि राज्ञां हि तव लोका युधिष्ठिर
हरिश्चन्द्रसमाः पार्थ येषु त्वं विहरिष्यसि
MBh 18.3.25
मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः
दौःषन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि
MBh 18.3.26
एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी
आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि
MBh 18.3.27
अत्र स्नातस्य ते भावो मानुषो विगमिष्यति
गतशोको निरायासो मुक्तवैरो भविष्यसि
MBh 18.3.28
एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम्
धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः
MBh 18.3.29
भो भो राजन्महाप्राज्ञ प्रीतोऽस्मि तव पुत्रक
मद्भक्त्या सत्यवाक्येन क्षमया च दमेन च
MBh 18.3.30
एषा तृतीया जिज्ञासा तव राजन्कृता मया
न शक्यसे चालयितुं स्वभावात्पार्थ हेतुभिः
MBh 18.3.31
पूर्वं परीक्षितो हि त्वमासीर्द्वैतवनं प्रति
अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि
MBh 18.3.32
सोदर्येषु विनष्टेषु द्रौपद्यां तत्र भारत
श्वरूपधारिणा पुत्र पुनस्त्वं मे परीक्षितः
MBh 18.3.33
इदं तृतीयं भ्रातॄणामर्थे यत्स्थातुमिच्छसि
विशुद्धोऽसि महाभाग सुखी विगतकल्मषः
MBh 18.3.34
न च ते भ्रातरः पार्थ नरकस्था विशां पते
मायैषा देवराजेन महेन्द्रेण प्रयोजिता
MBh 18.3.35
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः
ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम्
MBh 18.3.36
न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ
कर्णो वा सत्यवाक्शूरो नरकार्हाश्चिरं नृप
MBh 18.3.37
न कृष्णा राजपुत्री च नरकार्हा युधिष्ठिर
एह्येहि भरतश्रेष्ठ पश्य गङ्गां त्रिलोकगाम्
MBh 18.3.38
एवमुक्तः स राजर्षिस्तव पूर्वपितामहः
जगाम सह धर्मेण सर्वैश्च त्रिदशालयैः
MBh 18.3.39
गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम्
अवगाह्य तु तां राजा तनुं तत्याज मानुषीम्
MBh 18.3.40
ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः
निर्वैरो गतसंतापो जले तस्मिन्समाप्लुतः
MBh 18.3.41
ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः
धर्मेण सहितो धीमान्स्तूयमानो महर्षिभिः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Svargārohaṇa-Parva chapter-index (5 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Svargārohaṇa-Parva Ch 2
- Next chapter · Svargārohaṇa-Parva Ch 4 →
Sources and Connected Readings
Continue from these 41 source-pinned Devanāgarī addresses to Svargārohaṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 18.3local chapter route · Svargārohaṇa-ParvaSvargārohaṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷