🪷 Mahābhārata · Droṇa-Parva · Chapter 87

The Book of Droṇa · Parva 7 · 75 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 75 Shlokas

MBh 7.87.1
संजय उवाच धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः पार्थाच्च भयमाशङ्कन्परित्यागान्महीपतेः
MBh 7.87.2
अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति
MBh 7.87.3
निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः धर्मराजमिदं वाक्यमब्रवीत्पुरुषर्षभ
MBh 7.87.4
कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते अनुयास्यामि बीभत्सुं करिष्ये वचनं तव
MBh 7.87.5
न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते यो वै प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते
MBh 7.87.6
तस्याहं पदवीं यास्ये संदेशात्तव मानद त्वत्कृते न च मे किंचिदकर्तव्यं कथंचन
MBh 7.87.7
यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर तथा तवापि वचनं विशिष्टतरमेव मे
MBh 7.87.8
प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ तयोः प्रिये स्थितं चैव विद्धि मां राजपुंगव
MBh 7.87.9
तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम
MBh 7.87.10
द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः
MBh 7.87.11
यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात् गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः
MBh 7.87.12
इतस्त्रियोजनं मन्ये तमध्वानं विशां पते यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः
MBh 7.87.13
त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम् आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना
MBh 7.87.14
अनादिष्टस्तु गुरुणा को नु युध्येत मानवः आदिष्टस्तु त्वया राजन्को न युध्येत मादृशः अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो
MBh 7.87.15
हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम् इष्वस्त्रवरसंबाधं क्षोभयिष्ये बलार्णवम्
MBh 7.87.16
यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः
MBh 7.87.17
आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः नागा मेघनिभा राजन्क्षरन्त इव तोयदाः
MBh 7.87.18
नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः अन्यत्र हि वधादेषां नास्ति राजन्पराजयः
MBh 7.87.19
अथ यान्रथिनो राजन्समन्तादनुपश्यसि एते रुक्मरथा नाम राजपुत्रा महारथाः
MBh 7.87.20
रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः
MBh 7.87.21
गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा खड्गप्रहरणे युक्ताः संपाते चासिचर्मणोः
MBh 7.87.22
शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् नित्यं च समरे राजन्विजिगीषन्ति मानवान्
MBh 7.87.23
कर्णेन विजिता राजन्दुःशासनमनुव्रताः एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति
MBh 7.87.24
सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात्
MBh 7.87.25
ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात्
MBh 7.87.26
एतान्प्रमथ्य संग्रामे प्रियार्थं तव कौरव प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः
MBh 7.87.27
यांस्त्वेतानपरान्राजन्नागान्सप्तशतानि च प्रेक्षसे वर्मसंछन्नान्किरातैः समधिष्ठितान्
MBh 7.87.28
किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना स्वलंकृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः
MBh 7.87.29
आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम्
MBh 7.87.30
तेषामेते महामात्राः किराता युद्धदुर्मदाः हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः
MBh 7.87.31
एते विनिर्जिताः सर्वे संग्रामे सव्यसाचिना मदर्थमद्य संयत्ता दुर्योधनवशानुगाः
MBh 7.87.32
एतान्भित्त्वा शरै राजन्किरातान्युद्धदुर्मदान् सैन्धवस्य वधे युक्तमनुयास्यामि पाण्डवम्
MBh 7.87.33
ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः
MBh 7.87.34
जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः लब्धलक्ष्या रणे राजन्नैरावणसमा युधि
MBh 7.87.35
उत्तरात्पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः
MBh 7.87.36
सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः अनेकयोनयश्चान्ये तथा मानुषयोनयः
MBh 7.87.37
अनीकमसतामेतद्धूमवर्णमुदीर्यते म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम्
MBh 7.87.38
एतद्दुर्योधनो लब्ध्वा समग्रं नागमण्डलम् कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम्
MBh 7.87.39
सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् कृतार्थमथ चात्मानं मन्यते कालचोदितः
MBh 7.87.40
ते च सर्वेऽनुसंप्राप्ता मम नाराचगोचरम् न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः
MBh 7.87.41
तेन संभाविता नित्यं परवीर्योपजीविना विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः
MBh 7.87.42
ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः
MBh 7.87.43
शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः
MBh 7.87.44
अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः
MBh 7.87.45
अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः
MBh 7.87.46
तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः
MBh 7.87.47
अस्मिंस्तु खलु संग्रामे ग्राह्यं विविधमायुधम् यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः
MBh 7.87.48
काम्बोजैर्हि समेष्यामि क्रुद्धैराशीविषोपमैः नानाशस्त्रसमावापैर्विविधायुधयोधिभिः
MBh 7.87.49
किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः लालितैः सततं राज्ञा दुर्योधनहितैषिभिः
MBh 7.87.50
शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः
MBh 7.87.51
तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः
MBh 7.87.52
तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे
MBh 7.87.53
तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च रथे प्रास्थापयद्राजा शस्त्राणि विविधानि च
MBh 7.87.54
ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः रसवत्पाययामासुः पानं मदसमीरिणम्
MBh 7.87.55
पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलंकृतान् विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः
MBh 7.87.56
तान्यत्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः संहृष्टमनसोऽव्यग्रान्विधिवत्कल्पिते रथे
MBh 7.87.57
महाध्वजेन सिंहेन हेमकेसरमालिना संवृते केतनैर्हेमैर्मणिविद्रुमचित्रितैः पाण्डुराभ्रप्रकाशाभिः पताकाभिरलंकृते
MBh 7.87.58
हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे योजयामास विधिवद्धेमभाण्डविभूषितान्
MBh 7.87.59
दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा न्यवेदयद्रथं युक्तं वासवस्येव मातलिः
MBh 7.87.60
ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः स्नातकानां सहस्रस्य स्वर्णनिष्कानदापयत् आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः
MBh 7.87.61
ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु लोहिताक्षो बभौ तत्र मदविह्वललोचनः
MBh 7.87.62
आलभ्य वीरकांस्यं च हर्षेण महतान्वितः द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः उत्सङ्गे धनुरादाय सशरं रथिनां वरः
MBh 7.87.63
कृतस्वस्त्ययनो विप्रैः कवची समलंकृतः लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः
MBh 7.87.64
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः तेन मूर्धन्युपाघ्रात आरुरोह महारथम्
MBh 7.87.65
ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः अजय्या जैत्रमूहुस्तं विकुर्वन्तः स्म सैन्धवाः
MBh 7.87.66
अथ हर्षपरीताङ्गः सात्यकिर्भीममब्रवीत् त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते
MBh 7.87.67
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम् आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम्
MBh 7.87.68
जानीषे मम वीर्यं त्वं तव चाहमरिंदम तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम्
MBh 7.87.69
तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम
MBh 7.87.70
एवमुक्तः प्रत्युवाच भीमसेनं स माधवः गच्छ गच्छ द्रुतं पार्थ ध्रुवोऽद्य विजयो मम
MBh 7.87.71
यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशगः स्थितः निमित्तानि च धन्यानि यथा भीम वदन्ति मे
MBh 7.87.72
निहते सैन्धवे पापे पाण्डवेन महात्मना परिष्वजिष्ये राजानं धर्मात्मानं न संशयः
MBh 7.87.73
एतावदुक्त्वा भीमं तु विसृज्य च महामनाः संप्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव
MBh 7.87.74
तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत
MBh 7.87.75
ततः प्रयातः सहसा सैन्यं तव स सात्यकिः दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 75 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.87local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷