🪷 Mahābhārata · Droṇa-Parva · Chapter 86

The Book of Droṇa · Parva 7 · 50 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 50 Shlokas

MBh 7.86.1
संजय उवाच प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च कालयुक्तं च चित्रं च स्वतया चाभिभाषितम्
MBh 7.86.2
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम्
MBh 7.86.3
श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम्
MBh 7.86.4
एवंविधे तथा काले मादृशं प्रेक्ष्य संमतम् वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम्
MBh 7.86.5
न मे धनंजयस्यार्थे प्राणा रक्ष्याः कथंचन त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे
MBh 7.86.6
लोकत्रयं योधयेयं सदेवासुरमानुषम् त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम्
MBh 7.86.7
सुयोधनबलं त्वद्य योधयिष्ये समन्ततः विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते
MBh 7.86.8
कुशल्यहं कुशलिनं समासाद्य धनंजयम् हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम्
MBh 7.86.9
अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः
MBh 7.86.10
दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः
MBh 7.86.11
अद्य माधव राजानमप्रमत्तोऽनुपालय आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम्
MBh 7.86.12
त्वयि वाहं महाबाहो प्रद्युम्ने वा महारथे नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम्
MBh 7.86.13
जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम् प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव
MBh 7.86.14
ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम्
MBh 7.86.15
एवं त्वयि समाधाय धर्मराजं नरोत्तमम् अहमद्य गमिष्यामि सैन्धवस्य वधाय हि
MBh 7.86.16
जयद्रथमहं हत्वा ध्रुवमेष्यामि माधव धर्मराजं यथा द्रोणो निगृह्णीयाद्रणे बलात्
MBh 7.86.17
निगृहीते नरश्रेष्ठे भारद्वाजेन माधव सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत्
MBh 7.86.18
एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः
MBh 7.86.19
सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम्
MBh 7.86.20
स त्वमद्य महाबाहो प्रियार्थं मम माधव जयार्थं च यशोर्थं च रक्ष राजानमाहवे
MBh 7.86.21
स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना भारद्वाजाद्भयं नित्यं पश्यमानेन ते प्रभो
MBh 7.86.22
तस्यापि च महाबाहो नित्यं पश्यति संयुगे नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः
MBh 7.86.23
सोऽहं संभावनां चैतामाचार्यवचनं च तत् पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते
MBh 7.86.24
आचार्यो लघुहस्तत्वादभेद्यकवचावृतः उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः
MBh 7.86.25
यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः
MBh 7.86.26
कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम्
MBh 7.86.27
मा च ते भयमद्यास्तु राजन्नर्जुनसंभवम् न स जातु महाबाहुर्भारमुद्यम्य सीदति
MBh 7.86.28
ये च सौवीरका योधास्तथा सैन्धवपौरवाः उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः
MBh 7.86.29
ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम्
MBh 7.86.30
उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा सराक्षसगणा राजन्सकिंनरमहोरगा
MBh 7.86.31
जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे एवं ज्ञात्वा महाराज व्येतु ते भीर्धनंजये
MBh 7.86.32
यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ न तत्र कर्मणो व्यापत्कथंचिदपि विद्यते
MBh 7.86.33
दैवं कृतास्त्रतां योगममर्षमपि चाहवे कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय
MBh 7.86.34
मयि चाप्यपयाते वै गच्छमानेऽर्जुनं प्रति द्रोणे चित्रास्त्रतां संख्ये राजंस्त्वमनुचिन्तय
MBh 7.86.35
आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत
MBh 7.86.36
कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि यस्याहं प्रत्ययात्पार्थ गच्छेयं फल्गुनं प्रति
MBh 7.86.37
न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते
MBh 7.86.38
एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम्
MBh 7.86.39
युधिष्ठिर उवाच एवमेतन्महाबाहो यथा वदसि माधव न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष
MBh 7.86.40
करिष्ये परमं यत्नमात्मनो रक्षणं प्रति गच्छ त्वं समनुज्ञातो यत्र यातो धनंजयः
MBh 7.86.41
आत्मसंरक्षणं संख्ये गमनं चार्जुनं प्रति विचार्यैतद्द्वयं बुद्ध्या गमनं तत्र रोचये
MBh 7.86.42
स त्वमातिष्ठ यानाय यत्र यातो धनंजयः ममापि रक्षणं भीमः करिष्यति महाबलः
MBh 7.86.43
पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः
MBh 7.86.44
केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः विराटो द्रुपदश्चैव शिखण्डी च महारथः
MBh 7.86.45
धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मारिष नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा एते समाहितास्तात रक्षिष्यन्ति न संशयः
MBh 7.86.46
न द्रोणः सह सैन्येन कृतवर्मा च संयुगे समासादयितुं शक्तो न च मां धर्षयिष्यति
MBh 7.86.47
धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परंतपः वारयिष्यति विक्रम्य वेलेव मकरालयम्
MBh 7.86.48
यत्र स्थास्यति संग्रामे पार्षतः परवीरहा न द्रोणसैन्यं बलवत्क्रामेत्तत्र कथंचन
MBh 7.86.49
एष द्रोणविनाशाय समुत्पन्नो हुताशनात् कवची स शरी खड्गी धन्वी च वरभूषणः
MBh 7.86.50
विश्रब्धो गच्छ शैनेय मा कार्षीर्मयि संभ्रमम् धृष्टद्युम्नो रणे क्रुद्धो द्रोणमावारयिष्यति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 50 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.86local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷