🪷 Mahābhārata · Droṇa-Parva · Chapter 88

The Book of Droṇa · Parva 7 · 59 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 59 Shlokas

MBh 7.88.1
संजय उवाच प्रयाते तव सैन्यं तु युयुधाने युयुत्सया धर्मराजो महाराज स्वेनानीकेन संवृतः प्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः
MBh 7.88.2
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः
MBh 7.88.3
आगच्छत प्रहरत द्रुतं विपरिधावत यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः
MBh 7.88.4
महारथा हि बहवो यतिष्यन्त्यस्य निर्जये इति ब्रुवन्तो वेगेन समापेतुर्बलं तव
MBh 7.88.5
वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः ततः शब्दो महानासीद्युयुधानरथं प्रति
MBh 7.88.6
प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी सात्वतेन महाराज शतधाभिव्यदीर्यत
MBh 7.88.7
तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत्
MBh 7.88.8
ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम्
MBh 7.88.9
रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः
MBh 7.88.10
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते
MBh 7.88.11
हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम
MBh 7.88.12
शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैः पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी
MBh 7.88.13
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः
MBh 7.88.14
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरंगमाः गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना
MBh 7.88.15
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम्
MBh 7.88.16
ततस्तेनैव मार्गेण येन यातो धनंजयः इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः
MBh 7.88.17
भरद्वाजं समासाद्य युयुधानस्तु मारिष नाभ्यवर्तत संक्रुद्धो वेलामिव जलाशयः
MBh 7.88.18
निवार्य तु रणे द्रोणो युयुधानं महारथम् विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः
MBh 7.88.19
सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः
MBh 7.88.20
तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत् स तं न ममृषे द्रोणं युयुधानो महारथः
MBh 7.88.21
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च
MBh 7.88.22
युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान् ध्वजमेकेन बाणेन विव्याध युधि मारिष
MBh 7.88.23
तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः
MBh 7.88.24
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः प्राच्छादयदसंभ्रान्तस्ततो द्रोण उवाच ह
MBh 7.88.25
तवाचार्यो रणं हित्वा गतः कापुरुषो यथा युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत
MBh 7.88.26
त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम्
MBh 7.88.27
सात्यकिरुवाच धनंजयस्य पदवीं धर्मराजस्य शासनात् गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत्
MBh 7.88.28
संजय उवाच एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् प्रयातः सहसा राजन्सारथिं चेदमब्रवीत्
MBh 7.88.29
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे यत्तो याहि रणे सूत शृणु चेदं वचः परम्
MBh 7.88.30
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम् अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम्
MBh 7.88.31
तदनन्तरमेतच्च बाह्लिकानां बलं महत् बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्बलम्
MBh 7.88.32
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम्
MBh 7.88.33
एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत् मध्यमं जवमास्थाय वह मामत्र सारथे
MBh 7.88.34
बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः
MBh 7.88.35
हस्त्यश्वरथसंबाधं यच्चानीकं विलोक्यते नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम्
MBh 7.88.36
एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन् स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम्
MBh 7.88.37
तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून् युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम्
MBh 7.88.38
कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः
MBh 7.88.39
प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत्
MBh 7.88.40
तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान्
MBh 7.88.41
ततः पुनः षोडशभिर्नतपर्वभिराशुगैः सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे
MBh 7.88.42
स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः सात्वतेन महाराज कृतवर्मा न चक्षमे
MBh 7.88.43
स वत्सदन्तं संधाय जिह्मगानलसंनिभम् आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम्
MBh 7.88.44
स तस्य देहावरणं भित्त्वा देहं च सायकः सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः
MBh 7.88.45
अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित् समार्गणगुणं राजन्कृतवर्मा शरासनम्
MBh 7.88.46
विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम् दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे
MBh 7.88.47
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः अभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः
MBh 7.88.48
ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिः व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः
MBh 7.88.49
सरथं कृतवर्माणं समन्तात्पर्यवाकिरत् छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु स सात्यकिः
MBh 7.88.50
अथास्य भल्लेन शिरः सारथेः समकृन्तत स पपात हतः सूतो हार्दिक्यस्य महारथात् ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम्
MBh 7.88.51
अथ भोजस्त्वसंभ्रान्तो निगृह्य तुरगान्स्वयम् तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन्
MBh 7.88.52
स मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत् व्यपेतभीरमित्राणामावहत्सुमहद्भयम् सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत्
MBh 7.88.53
युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतः प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम्
MBh 7.88.54
स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः न चचाल तदा राजन्सात्यकिः सत्यविक्रमः
MBh 7.88.55
संधाय च चमूं द्रोणो भोजे भारं निवेश्य च अन्वधावद्रणे यत्तो युयुधानं युयुत्सया
MBh 7.88.56
तथा तमनुधावन्तं युयुधानस्य पृष्ठतः न्यवारयन्त संक्रुद्धाः पाण्डुसैन्ये बृहत्तमाः
MBh 7.88.57
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः विक्रम्य वारिता राजन्वीरेण कृतवर्मणा
MBh 7.88.58
यतमानांस्तु तान्सर्वानीषद्विगतचेतसः अभितस्ताञ्शरौघेण क्लान्तवाहानवारयत्
MBh 7.88.59
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 59 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.88local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷