🪷 Mahābhārata · Droṇa-Parva · Chapter 82

The Book of Droṇa · Parva 7 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 39 Shlokas

MBh 7.82.1
संजय उवाच बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम् क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः
MBh 7.82.2
बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम् आजघ्ने त्वरितो युद्धे द्रोणानीकबिभित्सया
MBh 7.82.3
क्षेमधूर्तिस्तु संक्रुद्धः केकयस्य महात्मनः धनुश्चिच्छेद भल्लेन पीतेन निशितेन च
MBh 7.82.4
अथैनं छिन्नधन्वानं शरेण नतपर्वणा विव्याध हृदये तूर्णं प्रवरं सर्वधन्विनाम्
MBh 7.82.5
अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम्
MBh 7.82.6
ततोऽपरेण भल्लेन पीतेन निशितेन च जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम्
MBh 7.82.7
तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम् सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात्
MBh 7.82.8
तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः सहसाभ्यपतत्सैन्यं तावकं पार्थकारणात्
MBh 7.82.9
धृष्टकेतुमथायान्तं द्रोणहेतोः पराक्रमी वीरधन्वा महेष्वासो वारयामास भारत
MBh 7.82.10
तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः
MBh 7.82.11
तावुभौ नरशार्दूलौ युयुधाते परस्परम् महावने तीव्रमदौ वारणाविव यूथपौ
MBh 7.82.12
गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ युयुधाते महावीर्यौ परस्परजिघांसया
MBh 7.82.13
तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशां पते सिद्धचारणसंघानां विस्मयाद्भुतदर्शनम्
MBh 7.82.14
वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम् द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत
MBh 7.82.15
तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः शक्तिं जग्राह विपुलां रुक्मदण्डामयस्मयीम्
MBh 7.82.16
तां तु शक्तिं महावीर्यां दोर्भ्यामायम्य भारत चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति
MBh 7.82.17
स तया वीरघातिन्या शक्त्या त्वभिहतो भृशम् निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम्
MBh 7.82.18
तस्मिन्विनिहते शूरे त्रिगर्तानां महारथे बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः
MBh 7.82.19
सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत् ननाद च महानादं तर्जयन्पाण्डवं रणे
MBh 7.82.20
मद्रेयस्तु ततः क्रुद्धो दुर्मुखं दशभिः शरैः भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव
MBh 7.82.21
तं रणे रभसं दृष्ट्वा सहदेवं महाबलम् दुर्मुखो नवभिर्बाणैस्ताडयामास भारत
MBh 7.82.22
दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः
MBh 7.82.23
अथापरेण भल्लेन पीतेन निशितेन च चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम्
MBh 7.82.24
क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः
MBh 7.82.25
हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा आरुरोह रथं राजन्निरमित्रस्य भारत
MBh 7.82.26
सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे जघान पृतनामध्ये भल्लेन परवीरहा
MBh 7.82.27
स पपात रथोपस्थान्निरमित्रो जनेश्वरः त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम्
MBh 7.82.28
तं तु हत्वा महाबाहुः सहदेवो व्यरोचत यथा दाशरथी रामः खरं हत्वा महाबलम्
MBh 7.82.29
हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम्
MBh 7.82.30
नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम् मुहूर्ताज्जितवान्संख्ये तदद्भुतमिवाभवत्
MBh 7.82.31
सात्यकिं व्याघ्रदत्तस्तु शरैः संनतपर्वभिः चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे
MBh 7.82.32
तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत् साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत्
MBh 7.82.33
कुमारे निहते तस्मिन्मगधस्य सुते प्रभो मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन्
MBh 7.82.34
विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः भिण्डिपालांस्तथा प्रासान्मुद्गरान्मुसलानपि
MBh 7.82.35
अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम् तांस्तु सर्वान्स बलवान्सात्यक्तिर्युद्धदुर्मदः नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभ
MBh 7.82.36
मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः बलं तेऽभज्यत विभो युयुधानशरार्दितम्
MBh 7.82.37
नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः
MBh 7.82.38
भज्यमानं बलं राजन्सात्वतेन महात्मना नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना
MBh 7.82.39
ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 39 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.82local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷