🪷 Mahābhārata · Droṇa-Parva · Chapter 83

The Book of Droṇa · Parva 7 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 39 Shlokas

MBh 7.83.1
संजय उवाच द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः
MBh 7.83.2
ते पीडिता भृशं तेन रौद्रेण सहसा विभो प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन
MBh 7.83.3
नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम् द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः
MBh 7.83.4
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम्
MBh 7.83.5
स तान्प्रति महाराज चिक्षिपे पञ्च सायकान् एकैकं हृदि चाजघ्ने एकैकेन महायशाः
MBh 7.83.6
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम्
MBh 7.83.7
आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति
MBh 7.83.8
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः ननाद बलवन्नादं विव्याध च शितैः शरैः
MBh 7.83.9
यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत् नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत्
MBh 7.83.10
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् क्षुरप्रेण शिरो राजन्निचकर्त महामनाः
MBh 7.83.11
तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम् भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम्
MBh 7.83.12
सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा
MBh 7.83.13
अलम्बुसस्तु समरे भीमसेनं महाबलम् योधयामास संक्रुद्धो लक्ष्मणं रावणिर्यथा
MBh 7.83.14
संप्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा
MBh 7.83.15
आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम्
MBh 7.83.16
तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः
MBh 7.83.17
स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा
MBh 7.83.18
सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः
MBh 7.83.19
प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्छितः विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः
MBh 7.83.20
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः
MBh 7.83.21
स वध्यमानः समरे भीमचापच्युतैः शरैः स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना
MBh 7.83.22
घोरं रूपमथो कृत्वा भीमसेनमभाषत तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम्
MBh 7.83.23
बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया
MBh 7.83.24
एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा महाता शरवर्षेण भृशं तं समवाकिरत्
MBh 7.83.25
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा आकाशं पूरयामास शरैः संनतपर्वभिः
MBh 7.83.26
स वध्यमानो भीमेन निमेषाद्रथमास्थितः जगाम धरणीं क्षुद्रः खं चैव सहसागमत्
MBh 7.83.27
उच्चावचानि रूपाणि चकार सुबहूनि च उच्चावचास्तथा वाचो व्याजहार समन्ततः
MBh 7.83.28
तेन पाण्डवसैन्यानां मृदिता युधि वारणाः हयाश्च बहवो राजन्पत्तयश्च तथा पुनः रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः
MBh 7.83.29
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् छत्रहंसां कर्दमिनीं बाहुपन्नगसंकुलाम्
MBh 7.83.30
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान्
MBh 7.83.31
तं तथा समरे राजन्विचरन्तमभीतवत् पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम्
MBh 7.83.32
तावकानां तु सैन्यानां प्रहर्षः समजायत वादित्रनिनदश्चोग्रः सुमहाँल्लोमहर्षणः
MBh 7.83.33
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः नामृष्यत यथा नागस्तलशब्दं समीरितम्
MBh 7.83.34
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष
MBh 7.83.35
ततः शरसहस्राणि प्रादुरासन्समन्ततः तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत्
MBh 7.83.36
तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे राक्षसस्य महामायां हत्वा राक्षसमार्दयत्
MBh 7.83.37
स वध्यमानो बहुधा भीमसेनेन राक्षसः संत्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत्
MBh 7.83.38
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम्
MBh 7.83.39
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 39 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.83local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷