🪷 Mahābhārata · Droṇa-Parva · Chapter 81

The Book of Droṇa · Parva 7 · 46 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 46 Shlokas

MBh 7.81.1
धृतराष्ट्र उवाच अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः पाञ्चालाः कुरुभिः सार्धं किमकुर्वत संजय
MBh 7.81.2
संजय उवाच अपराह्णे महाराज संग्रामे लोमहर्षणे पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत
MBh 7.81.3
पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष
MBh 7.81.4
ततः सुतुमुलस्तेषां संग्रामोऽवर्तताद्भुतः पाञ्चालानां कुरूणां च घोरो देवासुरोपमः
MBh 7.81.5
सर्वे द्रोणरथं प्राप्य पाञ्चालाः पाण्डवैः सह तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन्
MBh 7.81.6
द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम्
MBh 7.81.7
तमभ्यगाद्बृहत्क्षत्रः केकयानां महारथः प्रवपन्निशितान्बाणान्महेन्द्राशनिसंनिभान्
MBh 7.81.8
तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महायशाः विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः
MBh 7.81.9
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्र इव शम्बरम्
MBh 7.81.10
तमापतन्तं सहसा व्यादितास्यमिवान्तकम् वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात्
MBh 7.81.11
युधिष्ठिरं महाराज जिगीषुं समवस्थितम् सहानीकं ततो द्रोणो न्यवारयत वीर्यवान्
MBh 7.81.12
नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो
MBh 7.81.13
सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः शरैरनेकसाहस्रैः समवाकिरदाशुगैः
MBh 7.81.14
सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत् शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः
MBh 7.81.15
द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान् संरब्धान्रथिनां श्रेष्ठान्सौमदत्तिरवारयत्
MBh 7.81.16
भीमसेनं तथा क्रुद्धं भीमरूपो भयानकम् प्रत्यवारयदायान्तमार्ष्यशृङ्गिर्महारथः
MBh 7.81.17
तयोः समभवद्युद्धं नरराक्षसयोर्मृधे यादृगेव पुरा वृत्तं रामरावणयोर्नृप
MBh 7.81.18
ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत
MBh 7.81.19
तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना
MBh 7.81.20
भूय एव तु विंशत्या सायकानां समाचिनोत् साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम्
MBh 7.81.21
ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः अवारयत धर्मात्मा दर्शयन्पाणिलाघवम्
MBh 7.81.22
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः
MBh 7.81.23
अथैनं छिन्नधन्वानं त्वरमाणो महारथः शरैरनेकसाहस्रैः पुरयामास सर्वतः
MBh 7.81.24
अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम्
MBh 7.81.25
केचिच्चैनममन्यन्त तथा वै विमुखीकृतम् हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना
MBh 7.81.26
स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम्
MBh 7.81.27
ततस्तान्सायकान्सर्वान्द्रोणमुक्तान्सहस्रशः चिच्छेद समरे वीरस्तदद्भुतमिवाभवत्
MBh 7.81.28
छित्त्वा च ताञ्शरान्राजा क्रोधसंरक्तलोचनः शक्तिं जग्राह समरे गिरीणामपि दारणीम् स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम्
MBh 7.81.29
समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली नादेन सर्वभूतानि त्रासयन्निव भारत
MBh 7.81.30
शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन्
MBh 7.81.31
सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा प्रज्वालयन्ती गगनं दिशश्च विदिशस्तथा द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा
MBh 7.81.32
तामापतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः
MBh 7.81.33
तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः
MBh 7.81.34
ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव भारत
MBh 7.81.35
विव्याध च रणे द्रोणं पञ्चभिर्नतपर्वभिः क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद्धनुः
MBh 7.81.36
तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः गदां चिक्षेप सहसा धर्मपुत्राय मारिष
MBh 7.81.37
तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परंतपः
MBh 7.81.38
ते गदे सहसा मुक्ते समासाद्य परस्परम् संघर्षात्पावकं मुक्त्वा समेयातां महीतले
MBh 7.81.39
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः
MBh 7.81.40
धनुश्चैकेन बाणेन चिच्छेदेन्द्रध्वजोपमम् केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः
MBh 7.81.41
हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ
MBh 7.81.42
विरथं तं समालोक्य व्यायुधं च विशेषतः द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो
MBh 7.81.43
मुञ्चन्निषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः
MBh 7.81.44
तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना हा हेति सहसा शब्दः पाण्डूनां समजायत
MBh 7.81.45
हृतो राजा हृतो राजा भारद्वाजेन मारिष इत्यासीत्सुमहाञ्शब्दः पाण्डुसैन्यस्य सर्वतः
MBh 7.81.46
ततस्त्वरितमारुह्य सहदेवरथं नृपः अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 46 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.81local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷