🪷 Mahābhārata · Droṇa-Parva · Chapter 68

The Book of Droṇa · Parva 7 · 66 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 66 Shlokas

MBh 7.68.1
संजय उवाच हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव
MBh 7.68.2
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनंजयम्
MBh 7.68.3
तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः ते स्म भीताः पलायन्त व्याघ्रात्क्षुद्रमृगा इव
MBh 7.68.4
ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन् रणे सपत्नान्निघ्नन्तं जिगीषन्तṃ परान्युधि
MBh 7.68.5
तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः शिरांसि पातयामास बाहूंश्चैव धनंजयः
MBh 7.68.6
शिरोभिः पतितैस्तत्र भूमिरासीन्निरन्तरा अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रवडैर्युधि
MBh 7.68.7
तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ श्रुतायुश्चाच्युतायुश्च धनंजयमयुध्यताम्
MBh 7.68.8
बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम्
MBh 7.68.9
त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ
MBh 7.68.10
तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् पूरयामासतुः क्रुद्धौ तडागं जलदौ यथा
MBh 7.68.11
श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनंजयम् आजघान रथश्रेष्ठः पीतेन निशितेन च
MBh 7.68.12
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः आजगाम परं मोहं मोहयन्केशवं रणे
MBh 7.68.13
एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम्
MBh 7.68.14
क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः
MBh 7.68.15
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते सिंहनादो महानासीद्धतं मत्वा धनंजयम्
MBh 7.68.16
कृष्णश्च भृशसंतप्तो दृष्ट्वा पार्थं विचेतसम् आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनंजयम्
MBh 7.68.17
ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनंजयम् वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः
MBh 7.68.18
सचक्रकूबररथं साश्वध्वजपताकिनम् अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत्
MBh 7.68.19
प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा
MBh 7.68.20
संछन्नं शरजालेन रथं दृष्ट्वा सकेशवम् शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ
MBh 7.68.21
प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः तस्मादासन्सहस्राणि शराणां नतपर्वणाम्
MBh 7.68.22
ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान् विचेरुराकाशगताः पार्थबाणविदारिताः
MBh 7.68.23
प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः प्रतस्थे तत्र तत्रैव योधयन्वै महारथान्
MBh 7.68.24
तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ
MBh 7.68.25
श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः लोकविस्मापनमभूत्समुद्रस्येव शोषणम्
MBh 7.68.26
तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान् अभ्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान्
MBh 7.68.27
श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम् अयुतायुश्च संक्रुद्धो दीर्घायुश्चैव भारत
MBh 7.68.28
पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ
MBh 7.68.29
तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः प्रेषयत्परमक्रुद्धो यमस्य सदनं प्रति
MBh 7.68.30
लोडयन्तमनीकानि द्विपं पद्मसरो यथा नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुंगवाः
MBh 7.68.31
अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन् क्रुद्धाः सहस्रशो राजञ्शिक्षिता हस्तिसादिनः
MBh 7.68.32
दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः
MBh 7.68.33
तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः निचकर्त शिरांस्युग्रौ बाहूनपि सुभूषणान्
MBh 7.68.34
तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः बभौ कनकपाषाणा भुजगैरिव संवृता
MBh 7.68.35
बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः
MBh 7.68.36
शरैः सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः व्यदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव
MBh 7.68.37
निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः
MBh 7.68.38
नानावेषधरा राजन्नानाशस्त्रौघसंवृताः रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः
MBh 7.68.39
शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः
MBh 7.68.40
चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः भृशं त्रस्ताश्च बहुधा स्वानेन ममृदुर्गजाः सान्तरायुधिका मत्ता द्विपास्तीक्ष्णविषोपमाः
MBh 7.68.41
विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः यवनाः पारदाश्चैव शकाश्च सुनिकैः सह
MBh 7.68.42
गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः दार्वाभिसारा दरदाः पुण्ड्राश्च सह बाह्लिकैः
MBh 7.68.43
न ते स्म शक्याः संख्यातुं व्राताः शतसहस्रशः वृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः
MBh 7.68.44
अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनंजयः मुण्डार्धमुण्डजटिलानशुचीञ्जटिलाननान् म्लेच्छानशातयत्सर्वान्समेतानस्त्रमायया
MBh 7.68.45
शरैश्च शतशो विद्धास्ते संघाः संघचारिणः प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः
MBh 7.68.46
गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः वडाः कङ्का वृका भूमावपिबन्रुधिरं मुदा
MBh 7.68.47
पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसंक्रमाम् शरवर्षप्लवां घोरां केशशैवलशाड्वलाम् प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम्
MBh 7.68.48
शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसंभृताम् अकरोद्गजसंबाधां नदीमुत्तरशोणिताम् देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम्
MBh 7.68.49
यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे तथासीत्पृथिवी सर्वा शोणितेन परिप्लुता
MBh 7.68.50
षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान् प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः
MBh 7.68.51
शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः शेरते भूमिमासाद्य शैला वज्रहता इव
MBh 7.68.52
स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः प्रभिन्न इव मातङ्गो मृद्नन्नडवनं यथा
MBh 7.68.53
भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् निर्दहेदनलोऽरण्यं यथा वायुसमीरितः
MBh 7.68.54
सैन्यारण्यं तव तथा कृष्णानिलसमीरितः शरार्चिरदहत्क्रुद्धः पाण्डवाग्निर्धनंजयः
MBh 7.68.55
शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम् प्रानृत्यदिव संबाधे चापहस्तो धनंजयः
MBh 7.68.56
वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् प्राविशद्भारतीं सेनां संक्रुद्धो वै धनंजयः तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत्
MBh 7.68.57
तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे
MBh 7.68.58
अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः आससाद रणे पार्थं केशवं च महारथम्
MBh 7.68.59
ततः स प्रहसन्वीरो गदामुद्यम्य भारत रथमावार्य गदया केशवं समताडयत्
MBh 7.68.60
गदया ताडितं दृष्ट्वा केशवं परवीरहा अर्जुनो भृशसंक्रुद्धः सोऽम्बष्ठं प्रति भारत
MBh 7.68.61
ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् छादयामास समरे मेघः सूर्यमिवोदितम्
MBh 7.68.62
ततोऽपरैः शरैश्चापि गदां तस्य महात्मनः अचूर्णयत्तदा पार्थस्तदद्भुतमिवाभवत्
MBh 7.68.63
अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम् अर्जुनं वासुदेवं च पुनः पुनरताडयत्
MBh 7.68.64
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा
MBh 7.68.65
स पपात हतो राजन्वसुधामनुनादयन् इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः
MBh 7.68.66
रथानीकावगाढश्च वारणाश्वशतैर्वृतः सोऽदृश्यत तदा पार्थो घनैः सूर्य इवावृतः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 66 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.68local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷