🪷 Mahābhārata · Droṇa-Parva · Chapter 67

The Book of Droṇa · Parva 7 · 71 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 71 Shlokas

MBh 7.67.1
संजय उवाच संनिरुद्धस्तु तैः पार्थो महाबलपराक्रमः द्रुतं समनुयातश्च द्रोणेन रथिनां वरः
MBh 7.67.2
किरन्निषुगणांस्तीक्ष्णान्स्वरश्मीनिव भास्करः तापयामास तत्सैन्यं देहं व्याधिगणो यथा
MBh 7.67.3
अश्वो विद्धो ध्वजश्छिन्नः सारोहः पतितो गजः छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः
MBh 7.67.4
विद्रुतानि च सैन्यानि शरार्तानि समन्ततः इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किंचन
MBh 7.67.5
तेषामायच्छतां संख्ये परस्परमजिह्मगैः अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत्
MBh 7.67.6
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसंगरः अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः
MBh 7.67.7
तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः अन्तेवासिनमाचार्यो महेष्वासं समर्दयत्
MBh 7.67.8
तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः अभ्यधावदिषूनस्यन्निषुवेगविघातकान्
MBh 7.67.9
तस्याशु क्षिपतो भल्लान्भल्लैः संनतपर्वभिः प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन्
MBh 7.67.10
तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः
MBh 7.67.11
क्षरन्निव महामेघो वारिधाराः सहस्रशः द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः
MBh 7.67.12
अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष प्रतिजग्राह तेजस्वी बाणैर्बाणान्विशातयन्
MBh 7.67.13
द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः
MBh 7.67.14
पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम् विसृजन्तं शितान्बाणानवारयत तं युधि
MBh 7.67.15
अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम्
MBh 7.67.16
वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान् किरीटमाली कौन्तेयो भोजानीकं न्यपातयत्
MBh 7.67.17
सोऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम् अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम्
MBh 7.67.18
ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः
MBh 7.67.19
तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम्
MBh 7.67.20
भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् एकैकं पञ्चविंशत्या सायकानां समार्पयत्
MBh 7.67.21
तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः शरैरग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः
MBh 7.67.22
अथान्यद्धनुरादाय कृतवर्मा महारथः पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत
MBh 7.67.23
पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे
MBh 7.67.24
विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत्
MBh 7.67.25
ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम् कुरुसांबन्धिकं कृत्वा प्रमथ्यैनं विशातय
MBh 7.67.26
ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः अभ्यगाज्जवनैरश्वैः काम्बोजानामनीकिनीम्
MBh 7.67.27
अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः
MBh 7.67.28
चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः
MBh 7.67.29
तावविध्यत्ततो भोजः सर्वपारशवैः शरैः त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम्
MBh 7.67.30
तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः संचिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च
MBh 7.67.31
अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत्
MBh 7.67.32
तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम्
MBh 7.67.33
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ
MBh 7.67.34
अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः
MBh 7.67.35
तं दृष्ट्वा तु तथायान्तं शूरो राजा श्रुतायुधः अभ्यद्रवत्सुसंक्रुद्धो विधुन्वानो महद्धनुः
MBh 7.67.36
स पार्थं त्रिभिरानर्छत्सप्तत्या च जनार्दनम् क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत्
MBh 7.67.37
तमर्जुनो नवत्या तु शराणां नतपर्वणाम् आजघान भृशं क्रुद्धस्तोत्त्रैरिव महाद्विपम्
MBh 7.67.38
स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम् अथैनं सप्तसप्तत्या नाराचानां समार्पयत्
MBh 7.67.39
तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः
MBh 7.67.40
अथान्यद्धनुरादाय स राजा क्रोधमूर्छितः वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत्
MBh 7.67.41
ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिंदमः शरैरनेकसाहस्रैः पीडयामास भारत
MBh 7.67.42
अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः विव्याध चैनं सप्तत्या नाराचानां महाबलः
MBh 7.67.43
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान्
MBh 7.67.44
वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः पर्णाशा जननी यस्य शीततोया महानदी
MBh 7.67.45
तस्य माताब्रवीद्वाक्यं वरुणं पुत्रकारणात् अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम
MBh 7.67.46
वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम् दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति
MBh 7.67.47
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथंचन सर्वेणावश्यमर्तव्यं जातेन सरितां वरे
MBh 7.67.48
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः
MBh 7.67.49
इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः
MBh 7.67.50
उवाच चैनं भगवान्पुनरेव जलेश्वरः अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति
MBh 7.67.51
स तया वीरघातिन्या जनार्दनमताडयत् प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान्
MBh 7.67.52
नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः प्रत्यभ्ययात्तं विप्रोढा कृत्येव दुरधिष्ठिता
MBh 7.67.53
जघान चास्थितं वीरं श्रुतायुधममर्षणम् हत्वा श्रुतायुधं वीरं जगतीमन्वपद्यत
MBh 7.67.54
हाहाकारो महांस्तत्र सैन्यानां समजायत स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिंदमम्
MBh 7.67.55
अयुध्यमानाय हि सा केशवाय नराधिप क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा
MBh 7.67.56
यथोक्तं वरुणेनाजौ तथा स निधनं गतः व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम्
MBh 7.67.57
पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः संभग्न इव वातेन बहुशाखो वनस्पतिः
MBh 7.67.58
ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिंदमम्
MBh 7.67.59
तथ काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम्
MBh 7.67.60
तस्य पार्थः शरान्सप्त प्रेषयामास भारत ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम्
MBh 7.67.61
सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः
MBh 7.67.62
वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष
MBh 7.67.63
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत्
MBh 7.67.64
सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः सघण्टां प्राहिणोद्घोरां क्रुद्धो गाण्डीवधन्वने
MBh 7.67.65
सा ज्वलन्ती महोल्केव तमासाद्य महारथम् सविस्फुलिङ्गा निर्भिद्य निपपात महीतले
MBh 7.67.66
तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः
MBh 7.67.67
सुदक्षिणं तु काम्बोजं मोघसंकल्पविक्रमम् बिभेद हृदि बाणेन पृथुधारेण पाण्डवः
MBh 7.67.68
स भिन्नमर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः
MBh 7.67.69
गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः निर्भग्न इव वातेन कर्णिकारो हिमात्यये
MBh 7.67.70
शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः
MBh 7.67.71
ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 71 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.67local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷