🪷 Mahābhārata · Droṇa-Parva · Chapter 66
The Book of Droṇa · Parva 7 · 43 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 43 Shlokas
MBh 7.66.1
संजय उवाच
दुःशासनबलं हत्वा सव्यसाची धनंजयः
सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत्
MBh 7.66.2
स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम्
कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत्
MBh 7.66.3
शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे
भवत्प्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम्
MBh 7.66.4
भवान्पितृसमो मह्यं धर्मराजसमोऽपि च
तथा कृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते
MBh 7.66.5
अश्वत्थामा यथा तात रक्षणीयस्तवानघ
तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम
MBh 7.66.6
तव प्रसादादिच्छामि सिन्धुराजानमाहवे
निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे विभो
MBh 7.66.7
एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव
मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः
MBh 7.66.8
एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत्
सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम्
MBh 7.66.9
ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः
द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्महत्तरैः
MBh 7.66.10
विव्याध च रणे द्रोणमनुमान्य विशां पते
क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः
MBh 7.66.11
तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ
विषाग्निज्वलनप्रख्यैरिषुभिः कृष्णपाण्डवौ
MBh 7.66.12
इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम्
तस्य चिन्तयतस्त्वेवं फल्गुनस्य महात्मनः
द्रोणः शरैरसंभ्रान्तो ज्यां चिच्छेदाशु वीर्यवान्
MBh 7.66.13
विव्याध च हयानस्य ध्वजं सारथिमेव च
अर्जुनं च शरैर्वीरं स्मयमानोऽभ्यवाकिरत्
MBh 7.66.14
एतस्मिन्नन्तरे पार्थः सज्जं कृत्वा महद्धनुः
विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरम्
मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम्
MBh 7.66.15
पुनः सप्त शतानन्यान्सहस्रं चानिवर्तिनाम्
चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम्
MBh 7.66.16
तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना
मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः
MBh 7.66.17
विद्रुताश्च रणे पेतुः संछिन्नायुधजीविताः
रथिनो रथमुख्येभ्यः सहयाः शरपीडिताः
MBh 7.66.18
चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः
तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम्
MBh 7.66.19
पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः
हंसा हिमवतः पृष्ठे वारिविप्रहता इव
MBh 7.66.20
रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः
युगान्तादित्यरश्म्याभैः पाण्डवास्तशरैर्हताः
MBh 7.66.21
तं पाण्डवादित्यशरांशुजालं; कुरुप्रवीरान्युधि निष्टपन्तम्
स द्रोणमेघः शरवर्षवेगैः; प्राच्छादयन्मेघ इवार्करश्मीन्
MBh 7.66.22
अथात्यर्थविसृष्टेन द्विषतामसुभोजिना
आजघ्ने वक्षसि द्रोणो नाराचेन धनंजयम्
MBh 7.66.23
स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः
धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः
MBh 7.66.24
द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत्
अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः
MBh 7.66.25
विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी
अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः
MBh 7.66.26
प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान्
मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम्
MBh 7.66.27
तेऽभ्ययुः समरे राजन्वासुदेवधनंजयौ
द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः
MBh 7.66.28
तद्दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा
वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत्
MBh 7.66.29
ततोऽब्रवीद्वासुदेवो धनंजयमिदं वचः
पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत्
MBh 7.66.30
द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम्
पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशव
MBh 7.66.31
ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजः
परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान्
MBh 7.66.32
ततोऽब्रवीत्स्मयन्द्रोणः क्वेदं पाण्डव गम्यते
ननु नाम रणे शत्रुमजित्वा न निवर्तसे
MBh 7.66.33
अर्जुन उवाच
गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते
न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत्
MBh 7.66.34
संजय उवाच
एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः
त्वरायुक्तो महाबाहुस्तत्सैन्यं समुपाद्रवत्
MBh 7.66.35
तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ
अन्वयातां महात्मानौ विशन्तं तावकं बलम्
MBh 7.66.36
ततो जयो महाराज कृतवर्मा च सात्त्वतः
काम्बोजश्च श्रुतायुश्च धनंजयमवारयन्
MBh 7.66.37
तेषां दशसहस्राणि रथानामनुयायिनाम्
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः
MBh 7.66.38
माचेल्लका ललित्थाश्च केकया मद्रकास्तथा
नारायणाश्च गोपालाः काम्बोजानां च ये गणाः
MBh 7.66.39
कर्णेन विजिताः पूर्वं संग्रामे शूरसंमताः
भारद्वाजं पुरस्कृत्य त्यक्तात्मानोऽर्जुनं प्रति
MBh 7.66.40
पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम्
त्यजन्तं तुमुले प्राणान्संनद्धं चित्रयोधिनम्
MBh 7.66.41
गाहमानमनीकानि मातङ्गमिव यूथपम्
महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन्
MBh 7.66.42
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्
अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च
MBh 7.66.43
जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम्
न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 65
- Next chapter · Droṇa-Parva Ch 67 →
Sources and Connected Readings
Continue from these 43 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.66local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷