🪷 Mahābhārata · Droṇa-Parva · Chapter 65

The Book of Droṇa · Parva 7 · 32 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 32 Shlokas

MBh 7.65.1
धृतराष्ट्र उवाच तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना के नु तत्र रणे वीराः प्रत्युदीयुर्धनंजयम्
MBh 7.65.2
आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभयाः
MBh 7.65.3
संजय उवाच तथार्जुनेन संभग्ने तस्मिंस्तव बले तदा हतवीरे हतोत्साहे पलायनकृतक्षणे
MBh 7.65.4
पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः न तत्र कश्चित्संग्रामे शशाकार्जुनमीक्षितुम्
MBh 7.65.5
ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम् दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात्
MBh 7.65.6
स काञ्चनविचित्रेण कवचेन समावृतः जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः
MBh 7.65.7
नागानीकेन महता ग्रसन्निव महीमिमाम् दुःशासनो महाराज सव्यसाचिनमावृणोत्
MBh 7.65.8
ह्रादेन गजघण्टानां शङ्खानां निनदेन च ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम्
MBh 7.65.9
भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम् स मुहूर्तं प्रतिभयो दारुणः समपद्यत
MBh 7.65.10
तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान्
MBh 7.65.11
सिंहनादेन महता नरसिंहो धनंजयः गजानीकममित्राणामभितो व्यधमच्छरैः
MBh 7.65.12
महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम् किरीटी तद्गजानीकं प्राविशन्मकरो यथा
MBh 7.65.13
काष्ठातीत इवादित्यः प्रतपन्युगसंक्षये ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः
MBh 7.65.14
खुरशब्देन चाश्वानां नेमिघोषेण तेन च तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च देवदत्तस्य घोषेण गाण्डीवनिनदेन च
MBh 7.65.15
मन्दवेगतरा नागा बभूवुस्ते विचेतसः शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना
MBh 7.65.16
ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः
MBh 7.65.17
आरावं परमं कृत्वा वध्यमानाः किरीटिना निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः
MBh 7.65.18
अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः
MBh 7.65.19
गजस्कन्धगतानां च पुरुषाणां किरीटिना आच्छिद्यन्तोत्तमाङ्गानि भल्लैः संनतपर्वभिः
MBh 7.65.20
सकुण्डलानां पततां शिरसां धरणीतले पद्मानामिव संघातैः पार्थश्चक्रे निवेदनम्
MBh 7.65.21
यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे
MBh 7.65.22
केचिदेकेन बाणेन सुमुक्तेन पतत्रिणा द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले
MBh 7.65.23
मौर्वीं धनुर्ध्वजं चैव युगानीषास्तथैव च रथिनां कुट्टयामास भल्लैः संनतपर्वभिः
MBh 7.65.24
न संदधन्न चाप्यस्यन्न विमुञ्चन्न चोद्धरन् मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते
MBh 7.65.25
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः मुहूर्तान्निपतन्त्यन्ये वारणा वसुधातले
MBh 7.65.26
उत्थितान्यगणेयानि कबन्धानि समन्ततः अदृश्यन्त महाराज तस्मिन्परमसंकुले
MBh 7.65.27
सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः
MBh 7.65.28
सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः चक्रैर्विमथितैरक्षै भग्नैश्च बहुधा युगैः
MBh 7.65.29
वर्मचापशरैश्चैव व्यवकीर्णैस्ततस्ततः स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः
MBh 7.65.30
निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः अदृश्यत मही तत्र दारुणप्रतिदर्शना
MBh 7.65.31
एवं दुःशासनबलं वध्यमानं किरीटिना संप्राद्रवन्महाराज व्यथितं वै सनायकम्
MBh 7.65.32
ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 32 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.65local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷