🪷 Mahābhārata · Droṇa-Parva · Chapter 64

The Book of Droṇa · Parva 7 · 60 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 60 Shlokas

MBh 7.64.1
संजय उवाच ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च
MBh 7.64.2
अनीकानां च संह्रादे वादित्राणां च निस्वने प्रध्मापितेषु शङ्खेषु संनादे लोमहर्षणे
MBh 7.64.3
अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु रौद्रे मुहूर्ते संप्राप्ते सव्यसाची व्यदृश्यत
MBh 7.64.4
वडानां वायसानां च पुरस्तात्सव्यसाचिनः बहुलानि सहस्राणि प्राक्रीडंस्तत्र भारत
MBh 7.64.5
मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा
MBh 7.64.6
सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः समन्ततः चचाल च मही कृत्स्ना भये घोरे समुत्थिते
MBh 7.64.7
विष्वग्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः ववुरायाति कौन्तेये संग्रामे समुपस्थिते
MBh 7.64.8
नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा
MBh 7.64.9
ततो रथसहस्रेण द्विरदानां शतेन च त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः
MBh 7.64.10
अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत्
MBh 7.64.11
अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् अहमावारयिष्यामि वेलेव मकरालयम्
MBh 7.64.12
अद्य पश्यन्तु संग्रामे धनंजयममर्षणम् विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि
MBh 7.64.13
एवं ब्रुवन्महाराज महात्मा स महामतिः महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः
MBh 7.64.14
ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः
MBh 7.64.15
शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः
MBh 7.64.16
क्रोधामर्षबलोद्धूतो निवातकवचान्तकः जयो जेता स्थितः सत्ये पारयिष्यन्महाव्रतम्
MBh 7.64.17
आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत् शुभ्रवर्माम्बरधरः स्वङ्गदी चारुकुण्डली
MBh 7.64.18
रथप्रवरमास्थाय नरो नारायणानुगः विधुन्वन्गाण्डिवं संख्ये बभौ सूर्य इवोदितः
MBh 7.64.19
सोऽग्रानीकस्य महत इषुपाते धनंजयः व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान्
MBh 7.64.20
अथ कृष्णोऽप्यसंभ्रान्तः पार्थेन सह मारिष प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा
MBh 7.64.21
तयोः शङ्खप्रणादेन तव सैन्ये विशां पते आसन्संहृष्टरोमाणः कम्पिता गतचेतसः
MBh 7.64.22
यथा त्रसन्ति भूतानि सर्वाण्यशनिनिस्वनात् तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः
MBh 7.64.23
प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः एवं सवाहनं सर्वमाविग्नमभवद्बलम्
MBh 7.64.24
व्यषीदन्त नरा राजञ्शङ्खशब्देन मारिष विसंज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः
MBh 7.64.25
ततः कपिर्महानादं सह भूतैर्ध्वजालयैः अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान्
MBh 7.64.26
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः
MBh 7.64.27
नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः सिंहनादैः सवादित्रैः समाहूतैर्महारथैः
MBh 7.64.28
तस्मिन्सुतुमुले शब्दे भीरूणां भयवर्धने अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः
MBh 7.64.29
चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम्
MBh 7.64.30
एवमुक्तो महाबाहुः केशवः सव्यसाचिना अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः
MBh 7.64.31
स संप्रहारस्तुमुलः संप्रवृत्तः सुदारुणः एकस्य च बहूनां च रथनागनरक्षयः
MBh 7.64.32
ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् परानवाकिरत्पार्थः पर्वतानिव नीरदः
MBh 7.64.33
ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् अवाकिरन्बाणजालैस्ततः कृष्णधनंजयौ
MBh 7.64.34
ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः
MBh 7.64.35
उद्भ्रान्तनयनैर्वक्त्रैः संदष्टोष्ठपुटैः शुभैः सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत
MBh 7.64.36
पुण्डरीकवनानीव विध्वस्तानि समन्ततः विनिकीर्णानि योधानां वदनानि चकाशिरे
MBh 7.64.37
तपनीयविचित्राणि सिक्तानि रुधिरेण च अदृश्यन्त यथा राजन्मेघसंघाः सविद्युतः
MBh 7.64.38
शिरसां पततां राजञ्शब्दोऽभूत्पृथिवीतले कालेन परिपक्वानां तालानां पततामिव
MBh 7.64.39
ततः कबन्धः कश्चित्तु धनुरालम्ब्य तिष्ठति कश्चित्खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति
MBh 7.64.40
नाजानन्त शिरांस्युर्व्यां पतितानि नरर्षभाः अमृष्यमाणाः कौन्तेयं संग्रामे जयगृद्धिनः
MBh 7.64.41
हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत
MBh 7.64.42
अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो तव सैन्येषु योधानां पार्थभूतमिवाभवत्
MBh 7.64.43
अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे पार्थभूतममन्यन्त जगत्कालेन मोहिताः
MBh 7.64.44
निष्टनन्तः सरुधिरा विसंज्ञा गाढवेदनाः शयाना बहवो वीराः कीर्तयन्तः सुहृज्जनम्
MBh 7.64.45
सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः सनिर्यूहाः सनिस्त्रिंशाः सशरासनतोमराः
MBh 7.64.46
सबाणवर्माभरणाः सगदाः साङ्गदा रणे महाभुजगसंकाशा बाहवः परिघोपमाः
MBh 7.64.47
उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः
MBh 7.64.48
यो यः स्म समरे पार्थं प्रतिसंरभते नरः तस्य तस्यान्तको बाणः शरीरमुपसर्पति
MBh 7.64.49
नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा न कश्चित्तत्र पार्थस्य ददर्शान्तरमण्वपि
MBh 7.64.50
यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः
MBh 7.64.51
हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च अभिनत्फल्गुनो बाणै रथिनं च ससारथिम्
MBh 7.64.52
आवर्तमानमावृत्तं युध्यमानं च पाण्डवः प्रमुखे तिष्ठमानं च न कंचिन्न निहन्ति सः
MBh 7.64.53
यथोदयन्वै गगने सूर्यो हन्ति महत्तमः तथार्जुनो गजानीकमवधीत्कङ्कपत्रिभिः
MBh 7.64.54
हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत अन्तकाले यथा भूमिर्विनिकीर्णैर्महीधरैः
MBh 7.64.55
यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा तथा धनंजयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः
MBh 7.64.56
तत्तथा तव पुत्रस्य सैन्यं युधि परंतप प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम्
MBh 7.64.57
मारुतेनेव महता मेघानीकं विधूयता प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम्
MBh 7.64.58
प्रतोदैश्चापकोटीभिर्हुंकारैः साधुवाहितैः कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च
MBh 7.64.59
चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः
MBh 7.64.60
पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागांश्चोदयन्तस्तथापरे शरैः संमोहिताश्चान्ये तमेवाभिमुखा ययौ तव योधा हतोत्साहा विभ्रान्तमनसस्तदा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 60 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.64local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷