🪷 Mahābhārata · Droṇa-Parva · Chapter 69

The Book of Droṇa · Parva 7 · 75 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 75 Shlokas

MBh 7.69.1
संजय उवाच ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम्
MBh 7.69.2
काम्बोजस्य च दायादे हते राजन्सुदक्षिणे श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना
MBh 7.69.3
विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात्
MBh 7.69.4
त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत् गतः स पुरुषव्याघ्रः प्रमथ्येमां महाचमूम्
MBh 7.69.5
अत्र बुद्ध्या समीक्षस्व किं नु कार्यमनन्तरम् अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये
MBh 7.69.6
यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः
MBh 7.69.7
असौ धनंजयाग्निर्हि कोपमारुतचोदितः सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः
MBh 7.69.8
अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परंतप जयद्रथस्य गोप्तारः संशयं परमं गताः
MBh 7.69.9
स्थिरा बुद्धिर्नरेन्द्राणामासीद्ब्रह्मविदां वर नातिक्रमिष्यति द्रोणं जातु जीवन्धनंजयः
MBh 7.69.10
सोऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते सर्वं ह्यद्यातुरं मन्ये नैतदस्ति बलं मम
MBh 7.69.11
जानामि त्वां महाभाग पाण्डवानां हिते रतम् तथा मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन्
MBh 7.69.12
यथाशक्ति च ते ब्रह्मन्वर्तये वृत्तिमुत्तमाम् प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे
MBh 7.69.13
अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम पाण्डवान्सततं प्रीणास्यस्माकं विप्रिये रतान्
MBh 7.69.14
अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम्
MBh 7.69.15
नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान्
MBh 7.69.16
मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे
MBh 7.69.17
यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः
MBh 7.69.18
स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम्
MBh 7.69.19
द्रोण उवाच नाभ्यसूयामि ते वाचमश्वत्थाम्नासि मे समः सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशां पते
MBh 7.69.20
सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः अल्पं च विवरं कृत्वा तूर्णं याति धनंजयः
MBh 7.69.21
किं नु पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः
MBh 7.69.22
न चाहं शीघ्रयानेऽद्य समर्थो वयसान्वितः सेनामुखे च पार्थानामेतद्बलमुपस्थितम्
MBh 7.69.23
युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम् एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज
MBh 7.69.24
धनंजयेन चोत्सृष्टो वर्तते प्रमुखे मम तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम्
MBh 7.69.25
तुल्याभिजनकर्माणं शत्रुमेकं सहायवान् गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः
MBh 7.69.26
राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः वीर स्वयं प्रयाह्याशु यत्र यातो धनंजयः
MBh 7.69.27
दुर्योधन उवाच कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरः धनंजयो मया शक्य आचार्य प्रतिबाधितुम्
MBh 7.69.28
अपि शक्यो रणे जेतुं वज्रहस्तः पुरंदरः नार्जुनः समरे शक्यो जेतुं परपुरंजयः
MBh 7.69.29
येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः
MBh 7.69.30
सुदक्षिणश्च निहतः स च राजा श्रुतायुधः श्रुतायुश्चाच्युतायुश्च म्लेच्छाश्च शतशो हताः
MBh 7.69.31
तं कथं पाण्डवं युद्धे दहन्तमहितान्बहून् प्रतियोत्स्यामि दुर्धर्षं तन्मे शंसास्त्रकोविद
MBh 7.69.32
क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम् परवानस्मि भवति प्रेष्यकृद्रक्ष मे यशः
MBh 7.69.33
द्रोण उवाच सत्यं वदसि कौरव्य दुराधर्षो धनंजयः अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि
MBh 7.69.34
अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः
MBh 7.69.35
एष ते कवचं राजंस्तथा बध्नामि काञ्चनम् यथा न बाणा नास्त्राणि विषहिष्यन्ति ते रणे
MBh 7.69.36
यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम्
MBh 7.69.37
न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति
MBh 7.69.38
स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम् त्वरमाणः स्वयं याहि न चासौ त्वां सहिष्यते
MBh 7.69.39
संजय उवाच एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि
MBh 7.69.40
रणे तस्मिन्सुमहति विजयाय सुतस्य ते विसिस्मापयिषुर्लोकं विद्यया ब्रह्मवित्तमः
MBh 7.69.41
द्रोण उवाच करोतु स्वस्ति ते ब्रह्मा स्वस्ति चापि द्विजातयः सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत
MBh 7.69.42
ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु सर्वशः
MBh 7.69.43
स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे
MBh 7.69.44
स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ
MBh 7.69.45
असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप
MBh 7.69.46
धाता विधाता लोकेशो दिशश्च सदिगीश्वराः स्वस्ति तेऽद्य प्रयच्छन्तु कार्त्तिकेयश्च षण्मुखः
MBh 7.69.47
विवस्वान्भगवान्स्वस्ति करोतु तव सर्वशः दिग्गजाश्चैव चत्वारः क्षितिः खं गगनं ग्रहाः
MBh 7.69.48
अधस्ताद्धरणीं योऽसौ सदा धारयते नृप स शेषः पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु
MBh 7.69.49
गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः
MBh 7.69.50
हृततेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः ब्रह्माणं शरणं जग्मुर्वृत्राद्भीता महासुरात्
MBh 7.69.51
देवा ऊचुः प्रमर्दितानां वृत्रेण देवानां देवसत्तम गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात्
MBh 7.69.52
द्रोण उवाच अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान् प्राह तथ्यमिदं वाक्यं विषण्णान्सुरसत्तमान्
MBh 7.69.53
रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः
MBh 7.69.54
त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात्
MBh 7.69.55
स तस्यैव प्रसादाद्वै हन्यादेव रिपुर्बली नागत्वा शंकरस्थानं भगवान्दृश्यते हरः
MBh 7.69.56
दृष्ट्वा हनिष्यथ रिपुं क्षिप्रं गच्छत मन्दरम् यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः पिनाकी सर्वभूतेशो भगनेत्रनिपातनः
MBh 7.69.57
ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम्
MBh 7.69.58
सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम् अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः
MBh 7.69.59
एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः तेजो हृतं नो वृत्रेण गतिर्भव दिवौकसाम्
MBh 7.69.60
मूर्तीरीक्षष्व नो देव प्रहारैर्जर्जरीकृताः शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर
MBh 7.69.61
महेश्वर उवाच विदितं मे यथा देवाः कृत्येयं सुमहाबला त्वष्टुस्तेजोभवा घोरा दुर्निवार्याकृतात्मभिः
MBh 7.69.62
अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम् ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् बधानानेन मन्त्रेण मानसेन सुरेश्वर
MBh 7.69.63
द्रोण उवाच इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति
MBh 7.69.64
नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे न संधिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु
MBh 7.69.65
ततो जघान समरे वृत्रं देवपतिः स्वयम् तं च मन्त्रमयं बन्धं वर्म चाङ्गिरसे ददौ
MBh 7.69.66
अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः बृहस्पतिरथोवाच अग्निवेश्याय धीमते
MBh 7.69.67
अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम
MBh 7.69.68
संजय उवाच एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिः पुनरेव वचः प्राह शनैराचार्यपुंगवः
MBh 7.69.69
ब्रह्मसूत्रेण बध्नामि कवचं तव पार्थिव हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे
MBh 7.69.70
यथा च ब्रह्मणा बद्धं संग्रामे तारकामये शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव
MBh 7.69.71
बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम् प्रेषयामास राजानं युद्धाय महते द्विजः
MBh 7.69.72
स संनद्धो महाबाहुराचार्येण महात्मना रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम्
MBh 7.69.73
तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम् अश्वानामयुतेनैव तथान्यैश्च महारथैः
MBh 7.69.74
वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति नानावादित्रघोषेण यथा वैरोचनिस्तथा
MBh 7.69.75
ततः शब्दो महानासीत्सैन्यानां तव भारत अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 75 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.69local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷