🪷 Mahābhārata · Droṇa-Parva · Chapter 173

The Book of Droṇa · Parva 7 · 107 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 107 Shlokas

MBh 7.173.1
धृतराष्ट्र उवाच तस्मिन्नतिरथे द्रोणे निहते तत्र संजय मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम्
MBh 7.173.2
संजय उवाच तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै कौरवेषु च भग्नेषु कुन्तीपुत्रो धनंजयः
MBh 7.173.3
दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम् यदृच्छयागतं व्यासं पप्रच्छ भरतर्षभ
MBh 7.173.4
संग्रामे निघ्नतः शत्रूञ्शरौघैर्विमलैरहम् अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम्
MBh 7.173.5
ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने
MBh 7.173.6
न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा
MBh 7.173.7
तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः तेन दग्धानि सैन्यानि पृष्ठतोऽनुदहाम्यहम्
MBh 7.173.8
भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः शूलपाणिर्महान्कृष्ण तेजसा सूर्यसंनिभः
MBh 7.173.9
व्यास उवाच प्रजापतीनां प्रथमं तैजसं पुरुषं विभुम् भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्
MBh 7.173.10
ईशानं वरदं पार्थ दृष्टवानसि शंकरम् तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम्
MBh 7.173.11
महादेवं महात्मानमीशानं जटिलं शिवम् त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् दातारं चैव भक्तानां प्रसादविहितान्वरान्
MBh 7.173.12
तस्य ते पार्षदा दिव्या रूपैर्नानाविधैः विभोः वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः
MBh 7.173.13
महाकाया महोत्साहा महाकर्णास्तथापरे आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः
MBh 7.173.14
ईदृशैः स महादेवः पूज्यमानो महेश्वरः स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः तस्मिन्घोरे तदा पार्थ संग्रामे लोमहर्षणे
MBh 7.173.15
द्रोणकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात्
MBh 7.173.16
स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते न हि भूतं समं तेन त्रिषु लोकेषु विद्यते
MBh 7.173.17
गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च
MBh 7.173.18
तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि ये चान्ये मानवा लोके ये च स्वर्गजितो नराः
MBh 7.173.19
ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् इह लोके सुखं प्राप्य ते यान्ति परमां गतिम्
MBh 7.173.20
नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे
MBh 7.173.21
कपर्दिने करालाय हर्यक्ष्णे वरदाय च याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च
MBh 7.173.22
काम्याय हरिनेत्राय स्थाणवे पुरुषाय च हरिकेशाय मुण्डाय कृशायोत्तरणाय च
MBh 7.173.23
भास्कराय सुतीर्थाय देवदेवाय रंहसे बहुरूपाय शर्वाय प्रियाय प्रियवाससे
MBh 7.173.24
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे गिरिशाय प्रशान्ताय पतये चीरवाससे
MBh 7.173.25
हिरण्यबाहवे चैव उग्राय पतये दिशाम् पर्जन्यपतये चैव भूतानां पतये नमः
MBh 7.173.26
वृक्षाणां पतये चैव अपां च पतये तथा वृक्षैरावृतकायाय सेनान्ये मध्यमाय च
MBh 7.173.27
स्रुवहस्ताय देवाय धन्विने भार्गवाय च बहुरूपाय विश्वस्य पतये चीरवाससे
MBh 7.173.28
सहस्रशिरसे चैव सहस्रनयनाय च सहस्रबाहवे चैव सहस्रचरणाय च
MBh 7.173.29
शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम् उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम्
MBh 7.173.30
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम्
MBh 7.173.31
वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् वृषायुधं वृषशरं वृषभूतं महेश्वरम्
MBh 7.173.32
महोदरं महाकायं द्वीपिचर्मनिवासिनम् लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम्
MBh 7.173.33
त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम् पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम् प्रपद्ये शरणं देवं शरण्यं चीरवाससम्
MBh 7.173.34
नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा सुवाससे नमो नित्यं सुव्रताय सुधन्विने
MBh 7.173.35
स्रुवहस्ताय देवाय सुखधन्वाय धन्विने धन्वन्तराय धनुषे धन्वाचार्याय धन्विने
MBh 7.173.36
उग्रायुधाय देवाय नमः सुरवराय च नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने
MBh 7.173.37
नमोऽस्तु स्थाणवे नित्यं सुव्रताय सुधन्विने नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः
MBh 7.173.38
वनस्पतीनां पतये नराणां पतये नमः अपां च पतये नित्यं यज्ञानां पतये नमः
MBh 7.173.39
पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः
MBh 7.173.40
कर्माणि चैव दिव्यानि महादेवस्य धीमतः तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम्
MBh 7.173.41
न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः
MBh 7.173.42
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा धनुषा बाणमुत्सृज्य सघोषं विननाद च
MBh 7.173.43
ते न शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा विद्रुते सहसा यज्ञे कुपिते च महेश्वरे
MBh 7.173.44
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः
MBh 7.173.45
आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुंधरा पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः
MBh 7.173.46
अन्धाश्च तमसा लोका न प्रकाशन्त संवृताः जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः
MBh 7.173.47
चुक्रुशुर्भयभीताश्च शान्तिं चक्रुस्तथैव च ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः
MBh 7.173.48
पूषाणमभ्यद्रवत शंकरः प्रहसन्निव पुरोडाशं भक्षयतो दशनान्वै व्यशातयत्
MBh 7.173.49
ततो निश्चक्रमुर्देवा वेपमाना नताः स्म तम् पुनश्च संदधे दीप्तं देवानां निशितं शरम्
MBh 7.173.50
रुद्रस्य यज्ञभागं च विशिष्टं ते न्वकल्पयन् भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे
MBh 7.173.51
तेन चैवातिकोपेन स यज्ञः संधितस्तदा यत्ताश्चापि सुरा आसन्यत्ताश्चाद्यापि तं प्रति
MBh 7.173.52
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि आयसं राजतं चैव सौवर्णमपरं महत्
MBh 7.173.53
आयसं तारकाक्षस्य कमलाक्षस्य राजतम् सौवर्णं परमं ह्यासीद्विद्युन्मालिन एव च
MBh 7.173.54
न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः
MBh 7.173.55
ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु निपातयिष्यसे चैनानसुरान्भुवनेश्वर
MBh 7.173.56
स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान्
MBh 7.173.57
यदा त्रीणि समेतानि अन्तरिक्षे पुराणि वै त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः
MBh 7.173.58
पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम्
MBh 7.173.59
बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान्
MBh 7.173.60
बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः
MBh 7.173.61
न संबुबुधिरे चैनं देवास्तं भुवनेश्वरम् सप्रजापतयः सर्वे बालार्कसदृशप्रभम्
MBh 7.173.62
अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा च स महेश्वरम् अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः
MBh 7.173.63
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः
MBh 7.173.64
तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः
MBh 7.173.65
स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित् स चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः
MBh 7.173.66
स भवः स च पर्जन्यो महादेवः स चानघः स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः
MBh 7.173.67
स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि च मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः
MBh 7.173.68
स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् सर्वासां देवतानां च धारयत्यवपुर्वपुः
MBh 7.173.69
सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः शतधा सहस्रधा चैव तथा शतसहस्रधा
MBh 7.173.70
ईदृशः स महादेवो भूयश्च भगवानजः न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः
MBh 7.173.71
सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान् स मोचयति सुप्रीतः शरण्यः शरणागतान्
MBh 7.173.72
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः
MBh 7.173.73
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते स चैव व्याहृते लोके मनुष्याणां शुभाशुभे
MBh 7.173.74
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते महेश्वरश्च भूतानां महतामीश्वरश्च सः
MBh 7.173.75
बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत
MBh 7.173.76
एष चैव श्मशानेषु देवो वसति नित्यशः यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम्
MBh 7.173.77
अस्य दीप्तानि रूपाणि घोराणि च बहूनि च लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च
MBh 7.173.78
नामधेयानि लोकेषु बहून्यत्र यथार्थवत् निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा
MBh 7.173.79
वेदे चास्य समाम्नातं शतरुद्रीयमुत्तमम् नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः
MBh 7.173.80
स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः स विभुः स प्रभुर्देवो विश्वं व्याप्नुवते महत्
MBh 7.173.81
ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत्
MBh 7.173.82
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः
MBh 7.173.83
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् महयन्ति च लोकाश्च महेश्वर इति स्मृतः
MBh 7.173.84
ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम्
MBh 7.173.85
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः सुखी प्रीतश्च भवति प्रहृष्टश्चैव शंकरः
MBh 7.173.86
यदस्य बहुधा रूपं भूतभव्यभवत्स्थितम् स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः
MBh 7.173.87
एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा क्रोधाद्यश्चाविशल्लोकांस्तस्माच्छर्व इति स्मृतः
MBh 7.173.88
धूम्रं रूपं च यत्तस्य धूर्जटिस्तेन उच्यते विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः
MBh 7.173.89
तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः
MBh 7.173.90
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु शिवमिच्छन्मनुष्याणां तस्मादेश शिवः स्मृतः
MBh 7.173.91
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः
MBh 7.173.92
दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः
MBh 7.173.93
विषमस्थः शरीरेषु समश्च प्राणिनामिह स वायुर्विषमस्थेषु प्राणापानशरीरिषु
MBh 7.173.94
पूजयेद्विग्रहं यस्तु लिङ्गं वापि समर्चयेत् लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते
MBh 7.173.95
ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः आत्मनोऽर्धं च तस्याग्निः सोमोऽर्धं पुनरुच्यते
MBh 7.173.96
तैजसी महती दीप्ता देवेभ्यश्च शिवा तनुः भास्वती मानुषेष्वस्य तनुर्घोराग्निरुच्यते
MBh 7.173.97
ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः
MBh 7.173.98
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् मांसशोणितमज्जादो यत्ततो रुद्र उच्यते
MBh 7.173.99
एष देवो महादेवो योऽसौ पार्थ तवाग्रतः संग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक्
MBh 7.173.100
एष वै भगवान्देवः संग्रामे याति तेऽग्रतः येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः
MBh 7.173.101
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संज्ञितम् देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम्
MBh 7.173.102
सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम् सर्वपापप्रशमनं सर्वदुःखभयापहम्
MBh 7.173.103
चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते
MBh 7.173.104
चरितं महात्मनो दिव्यं सांग्रामिकमिदं शुभम् पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः
MBh 7.173.105
भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा वरान्स कामाँल्लभते प्रसन्ने त्र्यम्बके नरः
MBh 7.173.106
गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः
MBh 7.173.107
संजय उवाच एवमुक्त्वार्जुनं संख्ये पराशरसुतस्तदा जगाम भरतश्रेष्ठ यथागतमरिंदम

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 107 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.173local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷