🪷 Mahābhārata · Karṇa-Parva · Chapter 1
The Book of Karṇa · Parva 8 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 49 Shlokas
MBh 8.1.1
वैशंपायन उवाच
ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः
भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन्
MBh 8.1.2
ते द्रोणमुपशोचन्तः कश्मलाभिहतौजसः
पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम्
MBh 8.1.3
मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः
रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे
MBh 8.1.4
विशेषतः सूतपुत्रो राजा चैव सुयोधनः
दुःशासनोऽथ शकुनिर्न निद्रामुपलेभिरे
MBh 8.1.5
ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम्
चिन्तयन्तः क्षयं तीव्रं निद्रां नैवोपलेभिरे
MBh 8.1.6
सहितास्ते निशायां तु दुर्योधननिवेशने
अतिप्रचण्डाद्विद्वेषात्पाण्डवानां महात्मनाम्
MBh 8.1.7
यत्तद्द्यूतपरिक्लिष्टां कृष्णामानिन्यिरे सभाम्
तत्स्मरन्तोऽन्वतप्यन्त भृशमुद्विग्नचेतसः
MBh 8.1.8
चिन्तयन्तश्च पार्थानां तान्क्लेशान्द्यूतकारितान्
कृच्छ्रेण क्षणदां राजन्निन्युरब्दशतोपमाम्
MBh 8.1.9
ततः प्रभाते विमले स्थिता दिष्टस्य शासने
चक्रुरावश्यकं सर्वे विधिदृष्टेन कर्मणा
MBh 8.1.10
ते कृत्वावश्यकार्याणि समाश्वस्य च भारत
योगमाज्ञापयामासुर्युद्धाय च विनिर्ययुः
MBh 8.1.11
कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः
वाचयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः
MBh 8.1.12
निष्कैर्गोभिर्हिरण्येन वासोभिश्च महाधनैः
वर्ध्यमाना जयाशीर्भिः सूतमागधबन्दिभिः
MBh 8.1.13
तथैव पाण्डवा राजन्कृतसर्वाह्णिकक्रियाः
शिबिरान्निर्ययू राजन्युद्धाय कृतनिश्चयाः
MBh 8.1.14
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्
कुरूणां पाण्डवानां च परस्परवधैषिणाम्
MBh 8.1.15
तयोर्द्वे दिवसे युद्धं कुरुपाण्डवसेनयोः
कर्णे सेनापतौ राजन्नभूदद्भुतदर्शनम्
MBh 8.1.16
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः
पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः
MBh 8.1.17
ततस्तत्संजयः सर्वं गत्वा नागाह्वयं पुरम्
आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले
MBh 8.1.18
जनमेजय उवाच
आपगेयं हतं श्रुत्वा द्रोणं च समरे परैः
यो जगाम परामार्तिं वृद्धो राजाम्बिकासुतः
MBh 8.1.19
स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम्
कथं द्विजवर प्राणानधारयत दुःखितः
MBh 8.1.20
यस्मिञ्जयाशां पुत्राणाममन्यत स पार्थिवः
तस्मिन्हते स कौरव्यः कथं प्राणानधारयत्
MBh 8.1.21
दुर्मरं बत मन्येऽहं नृणां कृच्छ्रेऽपि वर्तताम्
यत्र कर्णं हतं श्रुत्वा नात्यजज्जीवितं नृपः
MBh 8.1.22
तथा शांतनवं वृद्धं ब्रह्मन्बाह्लिकमेव च
द्रोणं च सोमदत्तं च भूरिश्रवसमेव च
MBh 8.1.23
तथैव चान्यान्सुहृदः पुत्रपौत्रांश्च पातितान्
श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज
MBh 8.1.24
एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्
MBh 8.1.25
वैशंपायन उवाच
हते कर्णे महाराज निशि गावल्गणिस्तदा
दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे
MBh 8.1.26
स हास्तिनपुरं गत्वा भृशमुद्विग्नमानसः
जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम्
MBh 8.1.27
स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम्
ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह
MBh 8.1.28
संपूज्य च यथान्यायं धृतराष्ट्रं महीपतिम्
हा कष्टमिति चोक्त्वा स ततो वचनमाददे
MBh 8.1.29
संजयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान्
स्वदोषेणापदं प्राप्य कच्चिन्नाद्य विमुह्यसि
MBh 8.1.30
हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः
अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम्
MBh 8.1.31
रामनारदकण्वैश्च हितमुक्तं सभातले
नगृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम्
MBh 8.1.32
सुहृदस्त्वद्धिते युक्तान्भीष्मद्रोणमुखान्परैः
निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम्
MBh 8.1.33
तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम्
सुदीर्घमभिनिःश्वस्य दुःखार्त इदमब्रवीत्
MBh 8.1.34
गाङ्गेये निहते शूरे दिव्यास्त्रवति संजय
द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः
MBh 8.1.35
यो रथानां सहस्राणि दंशितानां दशैव हि
अहन्यहनि तेजस्वी निजघ्ने वसुसंभवः
MBh 8.1.36
स हतो यज्ञसेनस्य पुत्रेणेह शिखण्डिना
पाण्डवेयाभिगुप्तेन भृशं मे व्यथितं मनः
MBh 8.1.37
भार्गवः प्रददौ यस्मै परमास्त्रं महात्मने
साक्षाद्रामेण यो बाल्ये धनुर्वेद उपाकृतः
MBh 8.1.38
यस्य प्रसादात्कौन्तेया राजपुत्रा महाबलाः
महारथत्वं संप्राप्तास्तथान्ये वसुधाधिपाः
MBh 8.1.39
तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे
सत्यसंधं महेष्वासं भृशं मे व्यथितं मनः
MBh 8.1.40
त्रैलोक्ये यस्य शास्त्रेषु न पुमान्विद्यते समः
तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः
MBh 8.1.41
संशप्तकानां च बले पाण्डवेन महात्मना
धनंजयेन विक्रम्य गमिते यमसादनम्
MBh 8.1.42
नारायणास्त्रे निहते द्रोणपुत्रस्य धीमतः
हतशेषेष्वनीकेषु किमकुर्वत मामकाः
MBh 8.1.43
विप्रद्रुतानहं मन्ये निमग्नः शोकसागरे
प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे
MBh 8.1.44
दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः
मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च
MBh 8.1.45
मत्पुत्रशेषस्य तथा तथान्येषां च संजय
विप्रकीर्णेष्वनीकेषु मुखवर्णोऽभवत्कथम्
MBh 8.1.46
एतत्सर्वं यथा वृत्तं तत्त्वं गावल्गणे रणे
आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः
MBh 8.1.47
संजय उवाच
पाण्डवेयैर्हि यद्वृत्तं कौरवेयेषु मारिष
तच्छ्रुत्वा मा व्यथां कार्षीर्दिष्टे न व्यथते मनः
MBh 8.1.48
यस्मादभावी भावी वा भवेदर्थो नरं प्रति
अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्व्यथते बुधः
MBh 8.1.49
धृतराष्ट्र उवाच
न व्यथा शृण्वतः काचिद्विद्यते मम संजय
दिष्टमेतत्पुरा मन्ये कथयस्व यथेच्छकम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 173
- Next chapter · Karṇa-Parva Ch 2 →
Sources and Connected Readings
Continue from these 49 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.1local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷