🪷 Mahābhārata · Droṇa-Parva · Chapter 172

The Book of Droṇa · Parva 7 · 94 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 94 Shlokas

MBh 7.172.1
संजय उवाच तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनंजयः न्यवारयदमेयात्मा द्रोणपुत्रवधेप्सया
MBh 7.172.2
ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च
MBh 7.172.3
एक एव तु बीभत्सुः सोमकावयवैः सह मत्स्यैरन्यैश्च संधाय कौरवैः संन्यवर्तत
MBh 7.172.4
ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् सव्यसाची महेष्वासमश्वत्थामानमब्रवीत्
MBh 7.172.5
या शक्तिर्यच्च ते वीर्यं यज्ज्ञानं यच्च पौरुषम् धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषोऽस्मासु यश्च ते यच्च भूयोऽस्ति तेजस्तत्परमं मम दर्शय
MBh 7.172.6
स एव द्रोणहन्ता ते दर्पं भेत्स्यति पार्षतः कालानलसमप्रख्यो द्विषतामन्तको युधि समासादय पाञ्चाल्यं मां चापि सहकेशवम्
MBh 7.172.7
धृतराष्ट्र उवाच आचार्यपुत्रो मानार्हो बलवांश्चापि संजय प्रीतिर्धनंजये चास्य प्रियश्चापि स वासवेः
MBh 7.172.8
न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् अथ कस्मात्स कौन्तेयः सखायं रूक्षमब्रवीत्
MBh 7.172.9
संजय उवाच युवराजे हते चैव वृद्धक्षत्रे च पौरवे इष्वस्त्रविधिसंपन्ने मालवे च सुदर्शने
MBh 7.172.10
धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते
MBh 7.172.11
अन्तर्भेदे च संजाते दुःखं संस्मृत्य च प्रभो अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत
MBh 7.172.12
तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान् मान्यमाचार्यतनयं रूक्षं कापुरुषो यथा
MBh 7.172.13
एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप पार्थेन परुषं वाक्यं सर्वमर्मघ्नया गिरा द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः
MBh 7.172.14
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे
MBh 7.172.15
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा
MBh 7.172.16
ततस्तुमुलमाकाशे शरवर्षमजायत ववुश्च शिशिरा वाताः सूर्यो नैव तताप च
MBh 7.172.17
चुक्रुशुर्दानवाश्चापि दिक्षु सर्वासु भैरवम् रुधिरं चापि वर्षन्तो विनेदुस्तोयदाम्बरे
MBh 7.172.18
पक्षिणः पशवो गावो मुनयश्चापि सुव्रताः परमं प्रयतात्मानो न शान्तिमुपलेभिरे
MBh 7.172.19
भ्रान्तसर्वमहाभूतमावर्जितदिवाकरम् त्रैलोक्यमभिसंतप्तं ज्वराविष्टमिवातुरम्
MBh 7.172.20
शरतेजोऽभिसंतप्ता नागा भूमिशयास्तथा निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः
MBh 7.172.21
जलजानि च सत्त्वानि दह्यमानानि भारत न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः
MBh 7.172.22
दिशः खं प्रदिशश्चैव भुवं च शरवृष्टयः उच्चावचा निपेतुर्वै गरुडानिलरंहसः
MBh 7.172.23
तैः शरैर्द्रोणपुत्रस्य वज्रवेगसमाहितैः प्रदग्धाः शत्रवः पेतुरग्निदग्धा इव द्रुमाः
MBh 7.172.24
दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान्
MBh 7.172.25
अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः त्रेसुस्तथापरे घोरे वने दावाग्निसंवृताः
MBh 7.172.26
द्रुमाणां शिखराणीव दावदग्धानि मारिष अश्ववृन्दान्यदृश्यन्त रथवृन्दानि चाभिभो अपतन्त रथौघाश्च तत्र तत्र सहस्रशः
MBh 7.172.27
तत्सैन्यं भगवानग्निर्ददाह युधि भारत युगान्ते सर्वभूतानि संवर्तक इवानलः
MBh 7.172.28
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे
MBh 7.172.29
ततस्तूर्यसहस्राणि नानालिङ्गानि भारत तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः
MBh 7.172.30
कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः तमसा संवृते लोके नादृश्यत महाहवे
MBh 7.172.31
नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा
MBh 7.172.32
अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत् सर्वास्त्रप्रतिघाताय विहितं पद्मयोनिना
MBh 7.172.33
ततो मुहूर्तादिव तत्तमो व्युपशशाम ह प्रववौ चानिलः शीतो दिशश्च विमलाभवन्
MBh 7.172.34
तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् अनभिज्ञेयरूपां च प्रदग्धामस्त्रमायया
MBh 7.172.35
ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ सहितौ संप्रदृश्येतां नभसीव तमोनुदौ
MBh 7.172.36
सपताकध्वजहयः सानुकर्षवरायुधः प्रबभौ स रथो मुक्तस्तावकानां भयंकरः
MBh 7.172.37
ततः किलकिलाशब्दः शङ्खभेरीरवैः सह पाण्डवानां प्रहृष्टानां क्षणेन समजायत
MBh 7.172.38
हताविति तयोरासीत्सेनयोरुभयोर्मतिः तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ
MBh 7.172.39
तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताभवन्
MBh 7.172.40
विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष
MBh 7.172.41
चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा
MBh 7.172.42
ततो द्रौणिर्धनुर्न्यस्य रथात्प्रस्कन्द्य वेगितः धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा संप्राद्रवद्रणात्
MBh 7.172.43
ततः स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् आवासं च सरस्वत्याः स वै व्यासं ददर्श ह
MBh 7.172.44
तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत्
MBh 7.172.45
भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत् अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः
MBh 7.172.46
अधरोत्तरमेतद्वा लोकानां वा पराभवः यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः
MBh 7.172.47
नासुरामरगन्धर्वा न पिशाचा न राक्षसाः न सर्पयक्षपतगा न मनुष्याः कथंचन
MBh 7.172.48
उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् तदिदं केवलं हत्वा युक्तामक्षौहिणीं ज्वलत्
MBh 7.172.49
केनेमौ मर्त्यधर्माणौ नावधीत्केशवार्जुनौ एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम्
MBh 7.172.50
व्यास उवाच महान्तमेतमर्थं मां यं त्वं पृच्छसि विस्मयात् तत्प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु
MBh 7.172.51
योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत्
MBh 7.172.52
स तपस्तीव्रमातस्थे मैनाकं गिरिमास्थितः ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसंनिभः
MBh 7.172.53
षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च अशोषयत्तदात्मानं वायुभक्षोऽम्बुजेक्षणः
MBh 7.172.54
अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् द्यावापृथिव्योर्विवरं तेजसा समपूरयत्
MBh 7.172.55
स तेन तपसा तात ब्रह्मभूतो यदाभवत् ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम्
MBh 7.172.56
ददर्श भृशदुर्दर्शं सर्वदेवैरपीश्वरम् अणीयसामणीयांसं बृहद्भ्यश्च बृहत्तरम्
MBh 7.172.57
रुद्रमीशानमृषभं चेकितानमजं परम् गच्छतस्तिष्ठतो वापि सर्वभूतहृदि स्थितम्
MBh 7.172.58
दुर्वारणं दुर्दृशं तिग्ममन्युं; महात्मानं सर्वहरं प्रचेतसम् दिव्यं चापमिषुधी चाददानं; हिरण्यवर्माणमनन्तवीर्यम्
MBh 7.172.59
पिनाकिनं वज्रिणं दीप्तशूलं; परश्वधिं गदिनं स्वायतासिम् सुभ्रुं जटामण्डलचन्द्रमौलिं; व्याघ्राजिनं परिघं दण्डपाणिम्
MBh 7.172.60
शुभाङ्गदं नागयज्ञोपवीतिं; विश्वैर्गणैः शोभितं भूतसंघैः एकीभूतं तपसां संनिधानं; वयोतिगैः सुष्टुतमिष्टवाग्भिः
MBh 7.172.61
जलं दिवं खं क्षितिं चन्द्रसूर्यौ; तथा वाय्वग्नी प्रतिमानं जगच्च नालं द्रष्टुं यमजं भिन्नवृत्ता; ब्रह्मद्विषघ्नममृतस्य योनिम्
MBh 7.172.62
यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः; क्षीणे पापे मनसा ये विशोकाः स तन्निष्ठस्तपसा धर्ममीड्यं; तद्भक्त्या वै विश्वरूपं ददर्श दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः; संहृष्टात्मा मुमुदे देवदेवम्
MBh 7.172.63
अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् ततो नारायणो दृष्ट्वा ववन्दे विश्वसंभवम्
MBh 7.172.64
वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् अजमीशानमव्यग्रं कारणात्मानमच्युतम्
MBh 7.172.65
अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान्
MBh 7.172.66
त्वत्संभूता भूतकृतो वरेण्य; गोप्तारोऽद्य भुवनं पूर्वदेवाः आविश्येमां धरणीं येऽभ्यरक्ष;न्पुरा पुराणां तव देव सृष्टिम्
MBh 7.172.67
सुरासुरान्नागरक्षःपिशाचा;न्नरान्सुपर्णानथ गन्धर्वयक्षान् पृथग्विधान्भूतसंघांश्च विश्वां;स्त्वत्संभूतान्विद्म सर्वांस्तथैव ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं; मैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम्
MBh 7.172.68
रूपं ज्योतिः शब्द आकाशवायुः; स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी कामो ब्रह्मा ब्रह्म च ब्राह्मणाश्च; त्वत्संभूतं स्थास्नु चरिष्णु चेदम्
MBh 7.172.69
अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं; ताभिश्चैक्यं संक्षये यान्ति भूयः एवं विद्वान्प्रभवं चाप्ययं च; हित्वा भूतानां तत्र सायुज्यमेति
MBh 7.172.70
दिव्यावृतौ मानसौ द्वौ सुपर्णा;ववाक्शाखः पिप्पलः सप्त गोपाः दशाप्यन्ये ये पुरं धारयन्ति; त्वया सृष्टास्ते हि तेभ्यः परस्त्वम् भूतं भव्यं भविता चाप्यधृष्यं; त्वत्संभूता भुवनानीह विश्वा
MBh 7.172.71
भक्तं च मां भजमानं भजस्व; मा रीरिषो मामहिताहितेन आत्मानं त्वामात्मनोऽनन्यभावो; विद्वानेवं गच्छति ब्रह्म शुक्रम्
MBh 7.172.72
अस्तौषं त्वां तव संमानमिच्छ;न्विचिन्वन्वै सवृषं देववर्य सुदुर्लभान्देहि वरान्ममेष्टा;नभिष्टुतः प्रतिकार्षीश्च मा माम्
MBh 7.172.73
तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृक् अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः
MBh 7.172.74
नीलकण्ठ उवाच मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु अप्रमेयबलात्मा त्वं नारायण भविष्यसि
MBh 7.172.75
न च त्वा प्रसहिष्यन्ति देवासुरमहोरगाः न पिशाचा न गन्धर्वा न नरा न च राक्षसाः
MBh 7.172.76
न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति
MBh 7.172.77
न शस्त्रेण न वज्रेण नाग्निना न च वायुना नार्द्रेण न च शुष्केण त्रसेन स्थावरेण वा
MBh 7.172.78
कश्चित्तव रुजं कर्ता मत्प्रसादात्कथंचन अपि चेत्समरं गत्वा भविष्यसि ममाधिकः
MBh 7.172.79
व्यास उवाच एवमेते वरा लब्धाः पुरस्ताद्विद्धि शौरिणा स एष देवश्चरति मायया मोहयञ्जगत्
MBh 7.172.80
तस्यैव तपसा जातं नरं नाम महामुनिम् तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा
MBh 7.172.81
तावेतौ पूर्वदेवानां परमोपचितावृषी लोकयात्राविधानार्थं संजायेते युगे युगे
MBh 7.172.82
तथैव कर्मणः कृत्स्नं महतस्तपसोऽपि च तेजोमन्युश्च विद्वंस्त्वं जातो रौद्रो महामते
MBh 7.172.83
स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया
MBh 7.172.84
शुभमौर्वं नवं कृत्वा महापुरुषविग्रहम् ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद
MBh 7.172.85
स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत् पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान्
MBh 7.172.86
जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे
MBh 7.172.87
सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः
MBh 7.172.88
एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः प्रार्थयन्ति परं लोके स्थानमेव च शाश्वतम्
MBh 7.172.89
स एष रुद्रभक्तश्च केशवो रुद्रसंभवः कृष्ण एव हि यष्टव्यो यज्ञैश्चैष सनातनः
MBh 7.172.90
सर्वभूतभवं ज्ञात्वा लिङ्गेऽर्चयति यः प्रभुम् तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः
MBh 7.172.91
संजय उवाच तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः नमश्चकार रुद्राय बहु मेने च केशवम्
MBh 7.172.92
हृष्टलोमा च वश्यात्मा नमस्कृत्य महर्षये वरूथिनीमभिप्रेत्य अवहारमकारयत्
MBh 7.172.93
ततः प्रत्यवहारोऽभूत्पाण्डवानां विशां पते कौरवाणां च दीनानां द्रोणे युधि निपातिते
MBh 7.172.94
युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 94 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.172local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷