🪷 Mahābhārata · Droṇa-Parva · Chapter 171
The Book of Droṇa · Parva 7 · 69 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 69 Shlokas
MBh 7.171.1
संजय उवाच
भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनंजयः
तेजसः प्रतिघातार्थं वारुणेन समावृणोत्
MBh 7.171.2
नालक्षयत तं कश्चिद्वारुणास्त्रेण संवृतम्
अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः
MBh 7.171.3
साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः
अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः
MBh 7.171.4
यथा रात्रिक्षये राजञ्ज्योतींष्यस्तगिरिं प्रति
समापेतुस्तथा बाणा भीमसेनरथं प्रति
MBh 7.171.5
स हि भीमो रथश्चास्य हयाः सूतश्च मारिष
संवृता द्रोणपुत्रेण पावकान्तर्गताभवन्
MBh 7.171.6
यथा दग्ध्वा जगत्कृत्स्नं समये सचराचरम्
गच्छेदग्निर्विभोरास्यं तथास्त्रं भीममावृणोत्
MBh 7.171.7
सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः
तथा प्रविष्टं तत्तेजो न प्राज्ञायत किंचन
MBh 7.171.8
विकीर्णमस्त्रं तद्दृष्ट्वा तथा भीमरथं प्रति
उदीर्यमाणं द्रौणिं च निष्प्रतिद्वंद्वमाहवे
MBh 7.171.9
सर्वसैन्यानि पाण्डूनां न्यस्तशस्त्राण्यचेतसः
युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथान्
MBh 7.171.10
अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती
अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः
MBh 7.171.11
ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसंभवम्
विगाह्य तौ सुबलिनौ माययाविशतां तदा
MBh 7.171.12
न्यस्तशस्त्रौ ततस्तौ तु नादहदस्त्रजोऽनलः
वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः
MBh 7.171.13
ततश्चकृषतुर्भीमं तस्य सर्वायुधानि च
नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात्
MBh 7.171.14
अपकृष्यमाणः कौन्तेयो नदत्येव महारथः
वर्धते चैव तद्घोरं द्रौणेरस्त्रं सुदुर्जयम्
MBh 7.171.15
तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन
वार्यमाणोऽपि कौन्तेय यद्युद्धान्न निवर्तसे
MBh 7.171.16
यदि युद्धेन जेयाः स्युरिमे कौरवनन्दनाः
वयमप्यत्र युध्येम तथा चेमे नरर्षभाः
MBh 7.171.17
रथेभ्यस्त्ववतीर्णास्तु सर्व एव स्म तावकाः
तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम
MBh 7.171.18
एवमुक्त्वा ततः कृष्णो रथाद्भूमिमपातयत्
निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम्
MBh 7.171.19
यदापकृष्टः स रथान्न्यासितश्चायुधं भुवि
ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम्
MBh 7.171.20
तस्मिन्प्रशान्ते विधिना तदा तेजसि दुःसहे
बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च
MBh 7.171.21
प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः
वाहनानि च हृष्टानि योधाश्च मनुजेश्वर
MBh 7.171.22
व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत
बभौ भीमो निशापाये धीमान्सूर्य इवोदितः
MBh 7.171.23
हतशेषं बलं तत्र पाण्डवानामतिष्ठत
अस्त्रव्युपरमाद्धृष्टं तव पुत्रजिघांसया
MBh 7.171.24
व्यवस्थिते बले तस्मिन्नस्त्रे प्रतिहते तथा
दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत्
MBh 7.171.25
अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय
व्यवस्थिता हि पाञ्चालाः पुनरेव जयैषिणः
MBh 7.171.26
अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष
सुदीनमभिनिःश्वस्य राजानमिदमब्रवीत्
MBh 7.171.27
नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते
आवर्तयन्निहन्त्येतत्प्रयोक्तारं न संशयः
MBh 7.171.28
एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान्
अन्यथा विहितः संख्ये वधः शत्रोर्जनाधिप
MBh 7.171.29
पराजयो वा मृत्युर्वा श्रेयो मृत्युर्न निर्जयः
निर्जिताश्चारयो ह्येते शस्त्रोत्सर्गान्मृतोपमाः
MBh 7.171.30
दुर्योधन उवाच
आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते
अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर
MBh 7.171.31
त्वयि ह्यस्त्राणि दिव्यानि यथा स्युस्त्र्यम्बके तथा
इच्छतो न हि ते मुच्येत्क्रुद्धस्यापि पुरंदरः
MBh 7.171.32
धृतराष्ट्र उवाच
तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते
तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः
MBh 7.171.33
दृष्ट्वा पार्थांश्च संग्रामे युद्धाय समवस्थितान्
नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे
MBh 7.171.34
संजय उवाच
जानन्पितुः स निधनं सिंहलाङ्गूलकेतनः
सक्रोधो भयमुत्सृज्य अभिदुद्राव पार्षतम्
MBh 7.171.35
अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभः
पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभम्
MBh 7.171.36
धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम्
द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम्
MBh 7.171.37
सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः
हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः
MBh 7.171.38
विद्ध्वा विद्ध्वानदद्द्रौणिः कम्पयन्निव मेदिनीम्
आददत्सर्वलोकस्य प्राणानिव महारणे
MBh 7.171.39
पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्रमः
द्रौणिमेवाभिदुद्राव कृत्वा मृत्युं निवर्तनम्
MBh 7.171.40
ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि
अवासृजदमेयात्मा पाञ्चाल्यो रथिनां वरः
MBh 7.171.41
तं द्रौणिः समरे क्रुद्धश्छादयामास पत्रिभिः
विव्याध चैनं दशभिः पितुर्वधमनुस्मरन्
MBh 7.171.42
द्वाभ्यां च सुविकृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके
छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत्
MBh 7.171.43
व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहवे
तस्य चानुचरान्सर्वान्क्रुद्धः प्राच्छादयच्छरैः
MBh 7.171.44
प्रद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते
संभ्रान्तरूपमार्तं च शरवर्षपरिक्षतम्
MBh 7.171.45
दृष्ट्वा च विमुखान्योधान्धृष्टद्युम्नं च पीडितम्
शैनेयोऽचोदयत्तूर्णं रणं द्रौणिरथं प्रति
MBh 7.171.46
अष्टभिर्निशितैश्चैव सोऽश्वत्थामानमार्दयत्
विंशत्या पुनराहत्य नानारूपैरमर्षणम्
विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान्
MBh 7.171.47
सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः
युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत्
MBh 7.171.48
शैनेयाभ्यवपत्तिं ते जानाम्याचार्यघातिनः
न त्वेनं त्रास्यसि मया ग्रस्तमात्मानमेव च
MBh 7.171.49
एवमुक्त्वार्करश्म्याभं सुपर्वाणं शरोत्तमम्
व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः
MBh 7.171.50
स तं निर्भिद्य तेनास्तः सायकः सशरावरम्
विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः
MBh 7.171.51
स भिन्नकवचः शूरस्तोत्त्रार्दित इव द्विपः
विमुच्य सशरं चापं भूरिव्रणपरिस्रवः
MBh 7.171.52
सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत्
सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम्
MBh 7.171.53
अथान्येन सुपुङ्खेन शरेण नतपर्वणा
आजघान भ्रुवोर्मध्ये धृष्टद्युम्नं परंतपः
MBh 7.171.54
स पूर्वमतिविद्धश्च भृशं पश्चाच्च पीडितः
ससाद युधि पाञ्चाल्यो व्यपाश्रयत च ध्वजम्
MBh 7.171.55
तं मत्तमिव सिंहेन राजन्कुञ्जरमर्दितम्
जवेनाभ्यद्रवञ्शूराः पञ्च पाण्डवतो रथाः
MBh 7.171.56
किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः
युवराजश्च चेदीनां मालवश्च सुदर्शनः
पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम्
MBh 7.171.57
आशीविषाभैर्विंशद्भिः पञ्चभिश्चापि ताञ्शरैः
चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान्
MBh 7.171.58
सप्तभिश्च शितैर्बाणैः पौरवं द्रौणिरार्दयत्
मालवं त्रिभिरेकेन पार्थं षड्भिर्वृकोदरम्
MBh 7.171.59
ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः
युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः
MBh 7.171.60
युवराजस्तु विंशत्या द्रौणिं विव्याध पत्रिणाम्
पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः
MBh 7.171.61
ततोऽर्जुनं षड्भिरथाजघान; द्रौणायनिर्दशभिर्वासुदेवम्
भीमं दशार्धैर्युवराजं चतुर्भि;र्द्वाभ्यां छित्त्वा कार्मुकं च ध्वजं च
पुनः पार्थं शरवर्षेण विद्ध्वा; द्रौणिर्घोरं सिंहनादं ननाद
MBh 7.171.62
तस्यास्यतः सुनिशितान्पीतधारा;न्द्रौणेः शरान्पृष्ठतश्चाग्रतश्च
धरा वियद्द्यौः प्रदिशो दिशश्च; छन्ना बाणैरभवन्घोररूपैः
MBh 7.171.63
आसीनस्य स्वरथं तूग्रतेजाः; सुदर्शनस्येन्द्रकेतुप्रकाशौ
भुजौ शिरश्चेन्द्रसमानवीर्य;स्त्रिभिः शरैर्युगपत्संचकर्त
MBh 7.171.64
स पौरवं रथशक्त्या निहत्य; छित्त्वा रथं तिलशश्चापि बाणैः
छित्त्वास्य बाहू वरचन्दनाक्तौ; भल्लेन कायाच्छिर उच्चकर्त
MBh 7.171.65
युवानमिन्दीवरदामवर्णं; चेदिप्रियं युवराजं प्रहस्य
बाणैस्त्वरावाञ्ज्वलिताग्निकल्पै;र्विद्ध्वा प्रादान्मृत्यवे साश्वसूतम्
MBh 7.171.66
तान्निहत्य रणे वीरो द्रोणपुत्रो युधां पतिः
दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः
MBh 7.171.67
ततः सर्वे च पाञ्चाला भीमसेनश्च पाण्डवः
धृष्टद्युम्नरथं भीतास्त्यक्त्वा संप्राद्रवन्दिशः
MBh 7.171.68
तान्प्रभग्नांस्तथा द्रौणिः पृष्ठतो विकिरञ्शरैः
अभ्यवर्तत वेगेन कालवत्पाण्डुवाहिनीम्
MBh 7.171.69
ते वध्यमानाः समरे द्रोणपुत्रेण क्षत्रियाः
द्रोणपुत्रं भयाद्राजन्दिक्षु सर्वासु मेनिरे
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 170
- Next chapter · Droṇa-Parva Ch 172 →
Sources and Connected Readings
Continue from these 69 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.171local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷