🪷 Mahābhārata · Droṇa-Parva · Chapter 170
The Book of Droṇa · Parva 7 · 61 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 61 Shlokas
MBh 7.170.1
संजय उवाच
ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः
युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः
MBh 7.170.2
ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम्
अश्वकिंपुरुषाकीर्णं शरासनलतावृतम्
MBh 7.170.3
शूलक्रव्यादसंघुष्टं भूतयक्षगणाकुलम्
निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम्
MBh 7.170.4
ततो वेगेन महता विनद्य स नरर्षभः
प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम्
MBh 7.170.5
यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः
मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः
MBh 7.170.6
तस्मात्संपश्यतस्तस्य द्रावयिष्यामि वाहिनीम्
विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यमेव तु
MBh 7.170.7
सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे
सत्यं ते प्रतिजानामि परावर्तय वाहिनीम्
MBh 7.170.8
तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत्
सिंहनादेन महता व्यपोह्य सुमहद्भयम्
MBh 7.170.9
ततः समागमो राजन्कुरुपाण्डवसेनयोः
पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव
MBh 7.170.10
संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः
उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च
MBh 7.170.11
तेषां परमहृष्टानां जयमात्मनि पश्यताम्
संरब्धानां महावेगः प्रादुरासीद्रणाजिरे
MBh 7.170.12
यथा शिलोच्चये शैलः सागरे सागरो यथा
प्रतिहन्येत राजेन्द्र तथासन्कुरुपाण्डवाः
MBh 7.170.13
ततः शङ्खसहस्राणि भेरीणामयुतानि च
अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः
MBh 7.170.14
ततो निर्मथ्यमानस्य सागरस्येव निस्वनः
अभवत्तस्य सैन्यस्य सुमहानद्भुतोपमः
MBh 7.170.15
प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा
अभिसंधाय पाण्डूनां पाञ्चालानां च वाहिनीम्
MBh 7.170.16
प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः
पाण्डवान्भक्षयिष्यन्तो दीप्तास्या इव पन्नगाः
MBh 7.170.17
ते दिशः खं च सैन्यं च समावृण्वन्महाहवे
मुहूर्ताद्भास्करस्येव राजँल्लोकं गभस्तयः
MBh 7.170.18
तथापरे द्योतमाना ज्योतींषीवाम्बरेऽमले
प्रादुरासन्महीपाल कार्ष्णायसमया गुडाः
MBh 7.170.19
चतुर्दिशं विचित्राश्च शतघ्न्योऽथ हुताशदाः
चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः
MBh 7.170.20
शस्त्राकृतिभिराकीर्णमतीव भरतर्षभ
दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः
MBh 7.170.21
यथा यथा ह्ययुध्यन्त पाण्डवानां महारथाः
तथा तथा तदस्त्रं वै व्यवर्धत जनाधिप
MBh 7.170.22
वध्यमानास्तथास्त्रेण तेन नारायणेन वै
दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे
MBh 7.170.23
यथा हि शिशिरापाये दहेत्कक्षं हुताशनः
तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो
MBh 7.170.24
आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति चाभिभो
जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः
MBh 7.170.25
द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम्
मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम्
MBh 7.170.26
धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया
सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान्
MBh 7.170.27
वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम्
उपदेष्टुं समर्थोऽयं लोकस्य किमुतात्मनः
MBh 7.170.28
संग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः
अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम्
MBh 7.170.29
भीष्मद्रोणार्णवं तीर्त्वा संग्रामं भीरुदुस्तरम्
अवसत्स्याम्यसलिले सगणो द्रौणिगोष्पदे
MBh 7.170.30
कामः संपद्यतामस्य बीभत्सोराशु मां प्रति
कल्याणवृत्त आचार्यो मया युधि निपातितः
MBh 7.170.31
येन बालः स सौभद्रो युद्धानामविशारदः
समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः
MBh 7.170.32
येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता
उपेक्षिता सपुत्रेण दासभावं नियच्छती
MBh 7.170.33
जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फल्गुनम्
कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च
MBh 7.170.34
येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः
कुर्वाणा मज्जये यत्नं समूला विनिपातिताः
MBh 7.170.35
येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः
निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः
MBh 7.170.36
योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम्
हतस्तदर्थे मरणं गमिष्यामि सबान्धवः
MBh 7.170.37
एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः
निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत्
MBh 7.170.38
शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत
एष योगोऽत्र विहितः प्रतिघातो महात्मना
MBh 7.170.39
द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत
एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान्
MBh 7.170.40
यथा यथा हि युध्यन्ते योधा ह्यस्त्रबलं प्रति
तथा तथा भवन्त्येते कौरवा बलवत्तराः
MBh 7.170.41
निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये
तान्नैतदस्त्रं संग्रामे निहनिष्यति मानवान्
MBh 7.170.42
ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन
निहनिष्यति तान्सर्वान्रसातलगतानपि
MBh 7.170.43
ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत
ईषुः सर्वेऽस्त्रमुत्स्रष्टुं मनोभिः करणेन च
MBh 7.170.44
तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः
भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः
MBh 7.170.45
न कथंचन शस्त्राणि मोक्तव्यानीह केनचित्
अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः
MBh 7.170.46
अथ वाप्यनया गुर्व्या हेमविग्रहया रणे
कालवद्विचरिष्यामि द्रौणेरस्त्रं विशातयन्
MBh 7.170.47
न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह
यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते
MBh 7.170.48
पश्यध्वं मे दृढौ बाहू नागराजकरोपमा
समर्थौ पर्वतस्यापि शैशिरस्य निपातने
MBh 7.170.49
नागायुतसमप्राणो ह्यहमेको नरेष्विह
शक्रो यथा प्रतिद्वंद्वो दिवि देवेषु विश्रुतः
MBh 7.170.50
अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि
ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे
MBh 7.170.51
यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते
अद्यैनं प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु
MBh 7.170.52
एवमुक्त्वा ततो भीमो द्रोणपुत्रमरिंदमः
अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा
MBh 7.170.53
स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः
निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत्
MBh 7.170.54
ततो द्रौणिः प्रहस्यैनमुदासमभिभाष्य च
अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः
MBh 7.170.55
पन्नगैरिव दीप्तास्यैर्वमद्भिरनलं रणे
अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः
MBh 7.170.56
तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे
खद्योतैरावृतस्येव पर्वतस्य दिनक्षये
MBh 7.170.57
तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति
अवर्धत महाराज यथाग्निरनिलोद्धतः
MBh 7.170.58
विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम्
पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत्
MBh 7.170.59
ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले
अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः
MBh 7.170.60
तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च
तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत्
MBh 7.170.61
हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः
भीमसेनमपश्यन्त तेजसा संवृतं तदा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 169
- Next chapter · Droṇa-Parva Ch 171 →
Sources and Connected Readings
Continue from these 61 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.170local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷