🪷 Mahābhārata · Droṇa-Parva · Chapter 161

The Book of Droṇa · Parva 7 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 51 Shlokas

MBh 7.161.1
संजय उवाच त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत कुरूणां पाण्डवानां च संहृष्टानां विशां पते
MBh 7.161.2
अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः अरुणोऽभ्युदयां चक्रे ताम्रीकुर्वन्निवाम्बरम्
MBh 7.161.3
ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः
MBh 7.161.4
द्वैधीभूतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत् सपत्नान्सव्यतः कुर्मि सव्यसाचिन्निमान्कुरून्
MBh 7.161.5
स माधवमनुज्ञाय कुरुष्वेति धनंजयः द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत
MBh 7.161.6
अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरंजयः आजिशीर्षगतं दृष्ट्वा भीमसेनं समासदत्
MBh 7.161.7
भीम उवाच अर्जुनार्जुन बीभत्सो शृणु मे तत्त्वतो वचः यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः
MBh 7.161.8
अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे असंभावितरूपः सन्नानृशंस्यं करिष्यसि
MBh 7.161.9
सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि भिन्ध्यनीकं युधां श्रेष्ठ सव्यसाचिन्निमान्कुरु
MBh 7.161.10
संजय उवाच स सव्यसाची भीमेन चोदितः केशवेन च कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत्
MBh 7.161.11
तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान् पराक्रान्तं पराक्रम्य यतन्तः क्षत्रियर्षभाः नाशक्नुवन्वारयितुं वर्धमानमिवानलम्
MBh 7.161.12
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः अभ्यवर्षञ्शरव्रातैः कुन्तीपुत्रं धनंजयम्
MBh 7.161.13
तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत्
MBh 7.161.14
अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनंजयः सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः
MBh 7.161.15
उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च तमश्च घोरं शब्दश्च तदा समभवन्महान्
MBh 7.161.16
न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथा गते सैन्येन रजसा मूढं सर्वमन्धमिवाभवत्
MBh 7.161.17
नैव ते न वयं राजन्प्रज्ञासिष्म परस्परम् उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः
MBh 7.161.18
विरथा रथिनो राजन्समासाद्य परस्परम् केशेषु समसज्जन्त कवचेषु भुजेषु च
MBh 7.161.19
हताश्वा हतसूताश्च निश्चेष्टा रथिनस्तदा जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः
MBh 7.161.20
हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः
MBh 7.161.21
ततस्त्वभ्यवसृत्यैव संग्रामादुत्तरां दिशम् अतिष्ठदाहवे द्रोणो विधूम इव पावकः
MBh 7.161.22
तमाजिशीर्षादेकान्तमपक्रान्तं निशाम्य तु समकम्पन्त सैन्यानि पाण्डवानां विशां पते
MBh 7.161.23
भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा द्रोणं दृष्ट्वारयस्त्रेसुश्चेलुर्मम्लुश्च मारिष
MBh 7.161.24
आह्वयन्तं परानीकं प्रभिन्नमिव वारणम् नैनं शशंसिरे जेतुं दानवा वासवं यथा
MBh 7.161.25
केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः विस्मिताश्चाभवन्केचित्केचिदासन्नमर्षिताः
MBh 7.161.26
हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः
MBh 7.161.27
व्याक्षिपन्नायुधानन्ये ममृदुश्चापरे भुजान् अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः
MBh 7.161.28
पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः समसज्जन्त राजेन्द्र समरे भृशवेदनाः
MBh 7.161.29
ततो विराटद्रुपदौ द्रोणं प्रतिययू रणे तथा चरन्तं संग्रामे भृशं समरदुर्जयम्
MBh 7.161.30
द्रुपदस्य ततः पौत्रास्त्रय एव विशां पते चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि
MBh 7.161.31
तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि
MBh 7.161.32
ततो द्रोणोऽजयद्युद्धे चेदिकेकयसृञ्जयान् मत्स्यांश्चैवाजयत्सर्वान्भारद्वाजो महारथः
MBh 7.161.33
ततस्तु द्रुपदः क्रोधाच्छरवर्षमवाकिरत् द्रोणं प्रति महाराज विराटश्चैव संयुगे
MBh 7.161.34
ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः द्रुपदं च विराटं च प्रैषीद्वैवस्वतक्षयम्
MBh 7.161.35
हते विराटे द्रुपदे केकयेषु तथैव च तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु
MBh 7.161.36
द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः
MBh 7.161.37
इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु द्रोणो यस्याद्य मुच्येत यो वा द्रोणात्पराङ्मुखः
MBh 7.161.38
इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् आयाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्पाण्डवान्यतः
MBh 7.161.39
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे
MBh 7.161.40
रक्ष्यमाणं तथा द्रोणं समरे तैर्महात्मभिः यतमानापि पाञ्चाला न शेकुः प्रतिवीक्षितुम्
MBh 7.161.41
तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभ
MBh 7.161.42
द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम्
MBh 7.161.43
पितृपुत्रवधं प्राप्य पुमान्कः परिहापयेत् विशेषतस्तु शपथं शपित्वा राजसंसदि
MBh 7.161.44
एष वैश्वानर इव समिद्धः स्वेन तेजसा शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा
MBh 7.161.45
पुरा करोति निःशेषां पाण्डवानामनीकिनीम् स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम्
MBh 7.161.46
इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः दृढैः पूर्णायतोत्सृष्टैर्द्रावयंस्तव वाहिनीम्
MBh 7.161.47
धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम् आससाद रणे द्रोणं तदासीत्तुमुलं महत्
MBh 7.161.48
नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान्
MBh 7.161.49
संसक्तानि व्यदृश्यन्त रथवृन्दानि मारिष हतानि च विकीर्णानि शरीराणि शरीरिणाम्
MBh 7.161.50
केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतोऽपरे
MBh 7.161.51
तथा संसक्तयुद्धं तदभवद्भृशदारुणम् अथ संध्यागतः सूर्यः क्षणेन समपद्यत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 51 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.161local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷