🪷 Mahābhārata · Droṇa-Parva · Chapter 160

The Book of Droṇa · Parva 7 · 37 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 37 Shlokas

MBh 7.160.1
संजय उवाच ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत् अमर्षवशमापन्नो जनयन्हर्षतेजसी
MBh 7.160.2
न मर्षणीयाः संग्रामे विश्रमन्तः श्रमान्विताः सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः
MBh 7.160.3
तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया त एते परिविश्रान्ताः पाण्डवा बलवत्तराः
MBh 7.160.4
सर्वथा परिहीनाः स्म तेजसा च बलेन च भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः
MBh 7.160.5
दिव्यान्यस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्यपि तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः
MBh 7.160.6
न पाण्डवेया न वयं नान्ये लोके धनुर्धराः युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते
MBh 7.160.7
ससुरासुरगन्धर्वानिमाँल्लोकान्द्विजोत्तम सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः
MBh 7.160.8
स भवान्मर्षयत्येनांस्त्वत्तो भीतान्विशेषतः शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम्
MBh 7.160.9
एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः
MBh 7.160.10
स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः
MBh 7.160.11
यद्भवान्मन्यते चापि शुभं वा यदि वाशुभम् तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा
MBh 7.160.12
निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम् विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे
MBh 7.160.13
मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे तस्य वीर्यं महाबाहो शृणु सत्येन कौरव
MBh 7.160.14
तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम्
MBh 7.160.15
खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः सायकैर्वारितश्चापि वर्षमाणो महात्मना
MBh 7.160.16
यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः निहताः पुरुषेन्द्रेण तच्चापि विदितं तव
MBh 7.160.17
गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना
MBh 7.160.18
निवातकवचाश्चापि देवानां शत्रवस्तथा सुरैरवध्याः संग्रामे तेन वीरेण निर्जिताः
MBh 7.160.19
दानवानां सहस्राणि हिरण्यपुरवासिनाम् विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम्
MBh 7.160.20
प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते
MBh 7.160.21
तं तथाभिप्रशंसन्तमर्जुनं कुपितस्तदा द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत्
MBh 7.160.22
अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे हनिष्यामोऽर्जुनं संख्ये द्वैधीकृत्याद्य भारतीम्
MBh 7.160.23
तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत्
MBh 7.160.24
को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम्
MBh 7.160.25
तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः नासुरोरगरक्षांसि क्षपयेयुः सहायुधम्
MBh 7.160.26
मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान्
MBh 7.160.27
त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चयः श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि
MBh 7.160.28
गच्छ त्वमपि कौन्तेयमात्मार्थेभ्यो हि माचिरम् त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि
MBh 7.160.29
इमान्किं पार्थिवान्सर्वान्घातयिष्यस्यनागसः त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम्
MBh 7.160.30
एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः दूर्द्यूतदेवी गान्धारिः प्रयात्वर्जुनमाहवे
MBh 7.160.31
एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान्
MBh 7.160.32
त्वया कथितमत्यन्तं कर्णेन सह हृष्टवत् असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः
MBh 7.160.33
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः
MBh 7.160.34
इति ते कत्थमानस्य श्रुतं संसदि संसदि अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह
MBh 7.160.35
एष ते पाण्डवः शत्रुरविषह्योऽग्रतः स्थितः क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात्
MBh 7.160.36
दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम् कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम्
MBh 7.160.37
इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 37 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.160local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷