🪷 Mahābhārata · Droṇa-Parva · Chapter 159

The Book of Droṇa · Parva 7 · 50 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 50 Shlokas

MBh 7.159.1
संजय उवाच घटोत्कचे तु निहते सूतपुत्रेण तां निशाम् दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः
MBh 7.159.2
दृष्ट्व भीमेन महतीं वार्यमाणां चमूं तव धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय
MBh 7.159.3
त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात् सशरः कवची खड्गी धन्वी च परतापनः अभिद्रव रणे हृष्टो न च ते भीः कथंचन
MBh 7.159.4
जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधनः अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः
MBh 7.159.5
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ
MBh 7.159.6
सात्यकिः केकयाश्चैव पाण्डवश्च धनंजयः अभिद्रवन्तु वेगेन भारद्वाजवधेप्सया
MBh 7.159.7
तथैव रथिनः सर्वे हस्त्यश्वं यच्च किंचन पादाताश्च रणे द्रोणं प्रापयन्तु महारथम्
MBh 7.159.8
तथाज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना अभ्यद्रवन्त वेगेन कुम्भयोनिं युयुत्सया
MBh 7.159.9
आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान् प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः
MBh 7.159.10
ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान् अभ्यद्रवत्सुसंक्रुद्ध इच्छन्द्रोणस्य जीवितम्
MBh 7.159.11
ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम् पाण्डवानां कुरूणां च गर्जतामितरेतरम्
MBh 7.159.12
निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे नाभ्यपद्यन्त समरे कांचिच्चेष्टां महारथाः
MBh 7.159.13
त्रियामा रजनी चैषा घोररूपा भयानका सहस्रयामप्रतिमा बभूव प्राणहारिणी वध्यतां च तथा तेषां क्षतानां च विशेषतः
MBh 7.159.14
अहो रात्रिः समाजज्ञे निद्रान्धानां विशेषतः सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः तव चैव परेषां च गतास्त्रा विगतेषवः
MBh 7.159.15
ते तथा पारयन्तश्च ह्रीमन्तश्च विशेषतः स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम्
MBh 7.159.16
शस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः गजेष्वन्ये रथेष्वन्ये हयेष्वन्ये च भारत
MBh 7.159.17
निद्रान्धा नो बुबुधिरे कांचिच्चेष्टां नराधिपाः तेऽन्योन्यं समरे योधाः प्रेषयन्त यमक्षयम्
MBh 7.159.18
स्वप्नायमानास्त्वपरे परानिति विचेतसः आत्मानं समरे जघ्नुः स्वानेव च परानपि
MBh 7.159.19
नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे योद्धव्यमिति तिष्ठन्तो निद्रासंसक्तलोचनाः
MBh 7.159.20
संमर्द्यान्ये रणे केचिन्निद्रान्धाश्च परस्परम् जघ्नुः शूरा रणे राजंस्तस्मिंस्तमसि दारुणे
MBh 7.159.21
हन्यमानं तथात्मानं परेभ्यो बहवो जनाः नाभ्यजानन्त समरे निद्रया मोहिता भृशम्
MBh 7.159.22
तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः उवाच वाक्यं बीभत्सुरुच्चैः संनादयन्दिशः
MBh 7.159.23
श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः तमसा चावृते सैन्ये रजसा बहुलेन च
MBh 7.159.24
ते यूयं यदि मन्यध्वमुपारमत सैनिकाः निमीलयत चात्रैव रणभूमौ मुहूर्तकम्
MBh 7.159.25
ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः
MBh 7.159.26
तद्वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन्
MBh 7.159.27
चुक्रुशुः कर्ण कर्णेति राजन्दुर्योधनेति च उपारमत पाण्डूनां विरता हि वरूथिनी
MBh 7.159.28
तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः उपारमत पाण्डूनां सेना तव च भारत
MBh 7.159.29
तामस्य वाचं देवाश्च ऋषयश्च महात्मनः सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजयन्
MBh 7.159.30
तत्संपूज्य वचोऽक्रूरं सर्वसैन्यानि भारत मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ
MBh 7.159.31
सा तु संप्राप्य विश्रामं ध्वजिनी तव भारत सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत्
MBh 7.159.32
त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ धर्मस्त्वयि महाबाहो दया भूतेषु चानघ
MBh 7.159.33
यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि
MBh 7.159.34
इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः निद्रया समवाक्षिप्तास्तूष्णीमासन्विशां पते
MBh 7.159.35
अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ
MBh 7.159.36
सायुधाः सगदाश्चैव सखड्गाः सपरश्वधाः सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक्
MBh 7.159.37
गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुरूषितैः निद्रान्धा वसुधां चक्रुर्घ्राणनिःश्वासशीतलाम्
MBh 7.159.38
गजाः शुशुभिरे तत्र निःश्वसन्तो महीतले विशीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः
MBh 7.159.39
समां च विषमां चक्रुः खुराग्रैर्विक्षतां महीम् हयाः काञ्चनयोक्त्राश्च केसरालम्बिभिर्युगैः सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः
MBh 7.159.40
तत्तथा निद्रया भग्नमवाचमस्वपद्बलम् कुशलैरिव विन्यस्तं पटे चित्रमिवाद्भुतम्
MBh 7.159.41
ते क्षत्रियाः कुण्डलिनो युवानः; परस्परं सायकविक्षताङ्गाः कुम्भेषु लीनाः सुषुपुर्गजानां; कुचेषु लग्ना इव कामिनीनाम्
MBh 7.159.42
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता
MBh 7.159.43
ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः अरुणं दर्शयामास ग्रसञ्ज्योतिःप्रभं प्रभुः
MBh 7.159.44
अरुणस्य तु तस्यानु जातरूपसमप्रभम् रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत्
MBh 7.159.45
उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः पर्यगच्छञ्शनैः सर्वा दिशः खं च क्षितिं तथा
MBh 7.159.46
ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत् अप्रख्यमप्रकाशं च जगामाशु तमस्तथा
MBh 7.159.47
प्रतिप्रकाशिते लोके दिवाभूते निशाकरे विचेरुर्न विचेरुश्च राजन्नक्तंचरास्ततः
MBh 7.159.48
बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः बुबुधे शतपत्राणां वनं महदिवाम्भसि
MBh 7.159.49
यथा चन्द्रोदयोद्धूतः क्षुभितः सागरो भवेत् तथा चन्द्रोदयोद्धूतः स बभूव बलार्णवः
MBh 7.159.50
ततः प्रववृते युद्धं पुनरेव विशां पते लोके लोकविनाशाय परं लोकमभीप्सताम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 50 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.159local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷