🪷 Mahābhārata · Droṇa-Parva · Chapter 158

The Book of Droṇa · Parva 7 · 62 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 7.158local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 62 Shlokas

MBh 7.158.1
[धृ] कर्णदुर्यॊधनादीनां शकुनेः सौबलस्य च अपनीतं महत तात तव चैव विशेषतः
MBh 7.158.2
यद आजानीत तां शक्तिम एकघ्नीं सततं रणे अनिवार्याम असह्यां च देवैर अपि स वासवैः
MBh 7.158.3
सा किमर्थं न कर्णेन परवृत्ते समरे पुरा न देवकी सुते मुक्ता फल्गुने वापि संजय
MBh 7.158.4
[स] संग्रामाद विनिवृत्तानां सर्वेषां यॊ विशां पते रात्रौ कुरु कुलश्रेष्ठ मन्त्रॊ ऽयं समजायत
MBh 7.158.5
परभातमात्रे शवॊभूते केशवायार्जुनाय वा शक्तिर एष विमॊक्तव्या कर्ण कर्णेति नित्यशः
MBh 7.158.6
ततः परभातसमये राजन कर्णस्य दैवतैः अन्येषां चैव यॊधानां सा बुद्धिर नश्यते पुनः
MBh 7.158.7
दैवम एव परं मन्ये यत कर्णॊ हस्तसंस्थया न जघान रणे पार्थं कृषणं वा देवकी सुतम
MBh 7.158.8
तस्य हस्तिस्थिता शक्तिः कालरात्रिर इवॊद्यता दैवॊपहतबुद्धित्वान न तां कर्णॊ विमुक्तवान
MBh 7.158.9
कृष्णे वा देवकीपुत्रे मॊहितॊ देव मायया पार्थे वा शक्र कल्पे वै वधार्थं वासवी परभॊ
MBh 7.158.10
[धृ] दैवेनैव हता यूयं सवबुद्ध्या केशवस्य च गता हि वासवी हत्वा तृणभूतं घटॊत्कचम
MBh 7.158.11
कर्णश च मम पुत्राश च सर्वे चान्ये च पार्थिवाः अनेन दुष्प्रणीतेन गता वैवस्वतक्षयम
MBh 7.158.12
भूय एव तु मे शंस यथा युद्धम अवर्तत कुरूणां पाण्डवानां च हैडिम्बे निहते तदा
MBh 7.158.13
ये च ते ऽभयद्रवन दरॊणं वयाढानीकाः परहारिणः सृञ्जयाः सह पाञ्चालैस ते ऽपय अकुर्वन कथं रणम
MBh 7.158.14
सौमदत्तेर वधाद दरॊणम आयस्तं सैधवस्य च अमर्षाज जीवितं तयक्त्वा गाहमानं वरूथिनीम
MBh 7.158.15
जृम्भमाणम इव वयाघ्रं वयात्ताननम इवान्तकम कथं परत्युद्ययुर दरॊणम अस्यन्तं पाण्डुसृञ्जयाः
MBh 7.158.16
आचार्यं ये च ते ऽरक्षन दुर्यॊधन पुरॊगमाः दरौणिकर्णकृपास तात ते ऽपय अकुर्वन किम आहवे
MBh 7.158.17
भारद्वाजं जिघांसन्तौ सव्यसाचि वृकॊदरौ समार्छन मामका युद्धे कथं संजय शंस मे
MBh 7.158.18
सिन्धुराजवधेनेमे घटॊत्कच वधेन ते अमर्षिताः सुसंक्रुद्धा रणं चक्रुः कथं निशि
MBh 7.158.19
[स] हते घटॊत्कचे राजन कर्णेन निशि राक्षसे परणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु
MBh 7.158.20
आपतत्सु च वेगेन वध्यमाने बले ऽपि च विगाढायां रजन्यां च राजा दैन्यं परं गतः
MBh 7.158.21
अब्रवीच च महाबाहुर भीमसेनं परंतपः आवारय महाबाहॊ धार्तराष्ट्रस्य वाहिनीम हैडिम्बस्याभिघातेन मॊहॊ माम आविशन महान
MBh 7.158.22
एवं भीमं समादिश्य सवरथे समुपाविशत अश्रुपूर्णमुखॊ राजा निःश्वसंश च पुनः पुनः कश्मलं पराविशद घॊरं दृष्ट्वा कर्णस्य विक्रमम
MBh 7.158.23
तं तथा वयथितं दृष्ट्वा कृष्णॊ वचनम अब्रवीत मा वयथां कुरु कौन्तेय नैतत तवय्य उपपद्यते वैक्लव्यं भरतश्रेष्ठ यथा पराकृतपूरुषे
MBh 7.158.24
उत्तिष्ठ राजन युध्यस्व वह गुर्वीं धुरं विभॊ तवयि वैक्लव्यम आपन्नॊ संशयॊ विजये भवेत
MBh 7.158.25
शरुत्वा कृष्णस्य वचनं धर्मराजॊ युधिष्ठिरः विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनम अब्रवीत
MBh 7.158.26
विदिता ते महाबाहॊ धर्माणां परमा गतिः बरह्महत्या फलं तस्य यः कृतं नावबुध्यते
MBh 7.158.27
अस्माकं हि वनस्थानां हैडिम्बेन महात्मना बलेनापि सता तेन कृतं साह्यं जनार्दन
MBh 7.158.28
अस्त्रहेतॊर गतं जञात्वा पाण्डवं शवेतवाहनम असौ कृष्ण महेष्वासः काम्यके माम उपस्थितः उषितश च सहास्माभिर यावन नासीद धनंजयः
MBh 7.158.29
गन्धमादन यात्रायां दुर्गेभ्यश च सम तारिताः पाञ्चाली च परिश्रान्ता पृष्ठेनॊढा महात्मना
MBh 7.158.30
आरम्भाच चैव युद्धानां यद एष कृतवान परभॊ मदर्थं दुष्करं कर्मकृतं तेन महात्मना
MBh 7.158.31
सवभावाद या च मे परीतिः सहदेवे जनार्दन सैव मे दविगुणा परीती राक्षसेन्द्रे घटॊत्कचे
MBh 7.158.32
भक्तश च मे महाबाहुः परियॊ ऽसयाहं परियश च मे येन विन्दामि वार्ष्णेय कश्मलं शॊकतापितः
MBh 7.158.33
पश्य सैन्यानि वार्ष्णेय दराव्यमाणानि कौरवैः दरॊणकर्णौ च संयत्तौ पश्य युद्धे महारथौ
MBh 7.158.34
निशीथे पाण्डवं सैन्यम आभ्यां पश्य परमर्दितम गजाभ्याम इव मत्ताभ्यां यथा नडवनं महत
MBh 7.158.35
अनादृत्य बलं बाह्वॊर भीमसेनस्य माधव चित्रास्त्रतां च पार्थस्य विक्रमन्ते सम कौरवाः
MBh 7.158.36
एष दरॊणश च कर्णश च राजा चैव सुयॊधनः निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे
MBh 7.158.37
कथम अस्मासु जीवत्सु तवयि चैव जनार्दन हैडिम्बः पराप्तवान मृत्युं सूतपुत्रेण संगतः
MBh 7.158.38
कदर्थी कृत्यनः सर्वान पश्यतः सव्यसाचिनः निहतॊ राक्षसः कृष्ण भैमसेनिर महाबलः
MBh 7.158.39
यदाभिमन्युर निहतॊ धार्तराष्ट्रैर दुरात्मभिः नासीत तत्र रणे कृष्ण सव्यसाची महारथः
MBh 7.158.40
निरुद्धाश च वयं सर्वे सैन्धवेन दुरात्मना निमित्तम अभवद दरॊणः सपुत्रस तत्र कर्मणि
MBh 7.158.41
उपदिष्टॊ वधॊपायः कर्णस्य गुरुणा सवयम वयायच्छतश च खड्गेन दविधा खड्गं चकार ह
MBh 7.158.42
वयसने वर्तमानस्य कृतवर्मा नृशंसवत अश्वाञ जघान सहसा तथॊभौ पार्ष्णिसारथी तथेतरे महेष्वासाः सौभद्रं युध्य अपातयन
MBh 7.158.43
अल्पे च कारणे कृष्णे हतॊ गाण्डीवधन्वना सैन्धवॊ यादव शरेष्ठ तच च नातिप्रियं मम
MBh 7.158.44
यदि शत्रुवधे नयाय्यॊ भवेत कर्तुं च पाण्डवैः दरॊणकर्णौ रणे पूर्वं हन्तव्याव इति मे मतिः
MBh 7.158.45
एतौ मूलं हि दुःखानाम अस्माकं पुरुषर्षभ एतौ रणे समासाद्य पराश्वस्तः सुयॊधनः
MBh 7.158.46
यत्र वध्यॊ भवेद दरॊणः सूतपुत्रश च सानुगः तत्रावधीन महाबाहुः सैन्धवं दूरवासिनम
MBh 7.158.47
अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः ततॊ यास्याम्य अहं वीर सवयं कर्ण जिघांसया भीमसेनॊ महाबाहुर दरॊणानीकेन संगतः
MBh 7.158.48
एवम उक्त्वा ययौ तूर्णं तवरमाणॊ युधिष्ठिरः स विस्फार्य महच चापं शङ्खं परध्माप्य भैरवम
MBh 7.158.49
ततॊ रथसहस्रेण गजानां च शतैस तरिभिः वाजिभिः पञ्च साहस्रैस तरिसाहस्रैः परभद्रकैः वृतः शिखण्डी तवरितॊ राजानं पृष्ठतॊ ऽनवयात
MBh 7.158.50
ततॊ भेरीः समाजघ्नुः शङ्खान दध्मुश च दंशिताः पाञ्चालाः पाण्डवाश चैव युधिष्ठिरपुरॊगमाः
MBh 7.158.51
ततॊ ऽबरवीन महाबाहुर वासुदेवॊ धनंजयम एष परयाति तवरितॊ करॊधाविष्टॊ युधिष्ठिरः जिघांसुः सूतपुत्रस्य तस्यॊपेक्षा न युज्यते
MBh 7.158.52
एवम उक्त्वा हृषीकेशः शीघ्रम अश्वान अचॊदयत दूरं च यात्म राजानम अन्वगच्छज जनार्दनः
MBh 7.158.53
तं दृष्ट्वा सहसा यान्तं सूतपुत्र जिघांसया शॊकॊपहतसंकल्पं दह्यमानम इवाग्निना अभिगम्याब्रवीद वयासॊ धर्मपुत्रं युधिष्ठिरम
MBh 7.158.54
कर्णम आसाद्य संग्रामे दिष्ट्या जीवति फल्गुनः सव्यसाचि वधाकाङ्क्षी शक्तिं रक्षितवान हि सः
MBh 7.158.55
न चागाद वैरथं जिष्णुर दिष्ट्या तं भरतर्षभ सृजेतां सपर्धिनाव एतौ दिव्यान्य अस्त्राणि सर्वशः
MBh 7.158.56
वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः वासवीं समरे शक्तिं धरुवं मुञ्चेद युधिष्ठिर
MBh 7.158.57
ततॊ भवेत ते वयसनं घॊरं भरतसत्तम दिष्ट्या रक्षॊ हतं युद्धे सूतपुत्रेण मानद
MBh 7.158.58
वासवीं कारणं कृत्वा कालेनापहतॊ हय असौ तवैव कारणाद रक्षॊ निहतं तात संयुगे
MBh 7.158.59
मा करुधॊ भरतश्रेष्ठ मा च शॊके मनः कृथाः पराणिनाम इह सर्वेषाम एषा निष्ठा युधिष्ठिर
MBh 7.158.60
भरातृभिः सहितः सर्वैः पार्थिवैश च महात्मभिः कौरवान समरे राजन्न अभियुध्यस्व भारत पञ्चमे दिवसे चैव पृथिवी ते भविष्यति
MBh 7.158.61
नित्यं च पुरुषव्याघ्र धर्मम एव विचिन्तय आनृशंस्यं तपॊ दानं कषमां सत्यं च पाण्डव
MBh 7.158.62
सेवेथाः परमप्रीतॊ यतॊ धर्मस ततॊ जयः इत्य उक्त्वा पाण्डवं वयासत तत्रैवान्तरधीयत

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷