🪷 Mahābhārata · Droṇa-Parva · Chapter 157
The Book of Droṇa · Parva 7 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 44 Shlokas
MBh 7.157.1
धृतराष्ट्र उवाच
एकवीरवधे मोघा शक्तिः सूतात्मजे यदा
कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान्
MBh 7.157.2
तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः
एकवीरवधे कस्मान्न युद्धे जयमादधत्
MBh 7.157.3
आहूतो न निवर्तेयमिति तस्य महाव्रतम्
स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः
MBh 7.157.4
ततो द्वैरथमानीय फल्गुनं शक्रदत्तया
न जघान वृषा कस्मात्तन्ममाचक्ष्व संजय
MBh 7.157.5
नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः
शत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन्
MBh 7.157.6
या ह्यस्य परमा शक्तिर्जयस्य च परायणम्
सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे
MBh 7.157.7
कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसा
तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे
MBh 7.157.8
यथा वराहस्य शुनश्च युध्यतो;स्तयोरभावे श्वपचस्य लाभः
मन्ये विद्वन्वासुदेवस्य तद्व;द्युद्धे लाभः कर्णहैडिम्बयोर्वै
MBh 7.157.9
घटोत्कचो यदि हन्याद्धि कर्णं; परो लाभः स भवेत्पाण्डवानाम्
वैकर्तनो वा यदि तं निहन्या;त्तथापि कृत्यं शक्तिनाशात्कृतं स्यात्
MBh 7.157.10
इति प्राज्ञः प्रज्ञयैतद्विचार्य; घटोत्कचं सूतपुत्रेण युद्धे
अयोधयद्वासुदेवो नृसिंहः; प्रियं कुर्वन्पाण्डवानां हितं च
MBh 7.157.11
संजय उवाच
एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप
नियोजयामास तदा द्वैरथे राक्षसेश्वरम्
MBh 7.157.12
घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः
अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव
MBh 7.157.13
तदैव कृतकार्या हि वयं स्याम कुरूद्वह
न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात्
MBh 7.157.14
साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद्भुवि
विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम्
MBh 7.157.15
तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव
जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः
MBh 7.157.16
सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम्
हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः
MBh 7.157.17
धृतराष्ट्र उवाच
विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः
यस्यैष समतिक्रान्तो वधोपायो जयं प्रति
MBh 7.157.18
तवापि समतिक्रान्तमेतद्गावल्गणे कथम्
एतमर्थं महाबुद्धे यत्त्वया नावबोधितः
MBh 7.157.19
संजय उवाच
दुर्योधनस्य शकुनेर्मम दुःशासनस्य च
रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना
MBh 7.157.20
श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनंजयम्
प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः
MBh 7.157.21
अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः
स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम्
MBh 7.157.22
कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः
शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः
MBh 7.157.23
कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः
कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः
MBh 7.157.24
तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज
कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा
MBh 7.157.25
हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम्
कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः
MBh 7.157.26
यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनो महात्मा
ननु तव वसुधा नरेन्द्र सर्वा; सगिरिसमुद्रवना वशं व्रजेत
MBh 7.157.27
सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे
अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत
MBh 7.157.28
अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः
न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे
MBh 7.157.29
अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतः
अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो
MBh 7.157.30
ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः
पप्रच्छ रथशार्दूल कर्णं प्रति महारथम्
MBh 7.157.31
अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रम
किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा
MBh 7.157.32
वासुदेव उवाच
दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवः
सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः
MBh 7.157.33
कर्ण कर्ण महेष्वास रणेऽमितपराक्रम
नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर
MBh 7.157.34
ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनंजयात्
स हि तेषामतियशा देवानामिव वासवः
MBh 7.157.35
तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जयैः सह
भविष्यन्ति गतात्मानः सुरा इव निरग्नयः
MBh 7.157.36
तथेति च प्रतिज्ञातं कर्णेन शिनिपुंगव
हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः
MBh 7.157.37
अहमेव तु राधेयं मोहयामि युधां वर
यतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने
MBh 7.157.38
फल्गुनस्य हि तां मृत्युमवगम्य युयुत्सतः
न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर
MBh 7.157.39
घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुंगव
मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनंजयम्
MBh 7.157.40
न पिता न च मे माता न यूयं भ्रातरस्तथा
न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे
MBh 7.157.41
त्रैलोक्यराज्याद्यत्किंचिद्भवेदन्यत्सुदुर्लभम्
नेच्छेयं सात्वताहं तद्विना पार्थं धनंजयम्
MBh 7.157.42
अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत्
मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनंजयम्
MBh 7.157.43
अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः
न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम्
MBh 7.157.44
संजय उवाच
इति सात्यकये प्राह तदा देवकिनन्दनः
धनंजयहिते युक्तस्तत्प्रिये सततं रतः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 156
- Next chapter · Droṇa-Parva Ch 158 →
Sources and Connected Readings
Continue from these 44 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.157local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷