🪷 Mahābhārata · Droṇa-Parva · Chapter 162

The Book of Droṇa · Parva 7 · 52 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 52 Shlokas

MBh 7.162.1
संजय उवाच ते तथैव महाराज दंशिता रणमूर्धनि संध्यागतं सहस्रांशुमादित्यमुपतस्थिरे
MBh 7.162.2
उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत
MBh 7.162.3
द्वंद्वानि यानि तत्रासन्संसक्तानि पुरोदयात् तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत
MBh 7.162.4
रथैर्हया हयैर्नागाः पादाताश्चापि कुञ्जरैः हया हयैः समाजग्मुः पादाताश्च पदातिभिः संसक्ताश्च वियुक्ताश्च योधाः संन्यपतन्रणे
MBh 7.162.5
ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन्
MBh 7.162.6
शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम् विस्फारितविकृष्टानां कार्मुकाणां च कूजताम्
MBh 7.162.7
शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम्
MBh 7.162.8
हयानां हेषतां चैव रथानां च निवर्तताम् क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत्
MBh 7.162.9
विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महास्वनः नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः
MBh 7.162.10
भूमावश्रूयत महांस्तदासीत्कृपणं महत् पततां पतितानां च पत्त्यश्वरथहस्तिनाम्
MBh 7.162.11
तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वे परांश्च परान्परे
MBh 7.162.12
वीरबाहुविसृष्टाश्च योधेषु च गजेषु च असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव
MBh 7.162.13
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः स एव शब्दस्तद्रूपो वाससां निज्यतामिव
MBh 7.162.14
अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम्
MBh 7.162.15
गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् शस्त्रमत्स्यसुसंपूर्णां मांसशोणितकर्दमाम्
MBh 7.162.16
आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम् नदीं प्रावर्तयन्वीराः परलोकप्रवाहिनीम्
MBh 7.162.17
शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः
MBh 7.162.18
युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः क्रव्यादसंघैराकीर्णं मृतैरर्धमृतैरपि नासीद्रथपथस्तत्र सर्वमायोधनं प्रति
MBh 7.162.19
मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः कथंचिदवहञ्श्रान्ता वेपमानाः शरार्दिताः कुलसत्त्वबलोपेता वाजिनो वारणोपमाः
MBh 7.162.20
विह्वलं तत्समुद्भ्रान्तं सभयं भारतातुरम् बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ
MBh 7.162.21
तावेवास्तां निलयनं तावार्तायनमेव च तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम्
MBh 7.162.22
आविग्नमभवत्सर्वं कौरवाणां महद्बलम् पाञ्चालानां च संसक्तं न प्राज्ञायत किंचन
MBh 7.162.23
अन्तकाक्रीडसदृशे भीरूणां भयवर्धने पृथिव्यां राजवंशानामुत्थिते महति क्षये
MBh 7.162.24
न तत्र कर्णं न द्रोणं नार्जुनं न युधिष्ठिरम् न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम्
MBh 7.162.25
न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ न कृपं मद्रराजं वा कृतवर्माणमेव च
MBh 7.162.26
न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा पश्याम राजन्संसक्तान्सैन्येन रजसावृतान्
MBh 7.162.27
संभ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते द्वितीयामिव संप्राप्ताममन्यन्त निशां तदा
MBh 7.162.28
न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः न दिशो न दिवं नोर्वीं न समं विषमं तथा
MBh 7.162.29
हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान् न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः
MBh 7.162.30
उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च
MBh 7.162.31
तत्र नागा हया योधा रथिनोऽथ पदातयः पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः
MBh 7.162.32
ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः
MBh 7.162.33
दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत वृकोदरेण राधेयो भारद्वाजेन चार्जुनः
MBh 7.162.34
तद्घोरं महदाश्चर्यं सर्वे प्रैक्षन्समन्ततः रथर्षभाणामुग्राणां संनिपातममानुषम्
MBh 7.162.35
रथमार्गैर्विचित्रैश्च विचित्ररथसंकुलम् अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम्
MBh 7.162.36
यतमानाः पराक्रान्ताः परस्परजिगीषवः जीमूता इव घर्मान्ते शरवर्षैरवाकिरन्
MBh 7.162.37
ते रथान्सूर्यसंकाशानास्थिताः पुरुषर्षभाः अशोभन्त यथा मेघाः शारदाः समुपस्थिताः
MBh 7.162.38
स्पर्धिनस्ते महेष्वासाः कृतयत्ना धनुर्धराः अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव
MBh 7.162.39
न नूनं देहभेदोऽस्ति काले तस्मिन्समागते यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः
MBh 7.162.40
बाहुभिश्चरणैश्छिन्नैः शिरोभिश्चारुकुण्डलैः कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टिशैः
MBh 7.162.41
नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः
MBh 7.162.42
चित्रैश्च विविधाकारैः शरीरावरणैरपि विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः
MBh 7.162.43
शून्यैश्च नगराकारैर्हतयोधध्वजै रथैः अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः
MBh 7.162.44
वातायमानैरसकृद्धतवीरैरलंकृतैः व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः
MBh 7.162.45
छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः
MBh 7.162.46
उरस्यैर्मणिभिर्निष्कैश्चूडामणिभिरेव च आसीदायोधनं तत्र नभस्तारागणैरिव
MBh 7.162.47
ततो दुर्योधनस्यासीन्नकुलेन समागमः अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च
MBh 7.162.48
अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् किरञ्शरशतैर्हृष्टस्तत्र नादो महानभूत्
MBh 7.162.49
अपसव्यं कृतः संख्ये भ्रातृव्येनात्यमर्षिणा सोऽमर्षितस्तमप्याजौ प्रतिचक्रेऽपसव्यतः
MBh 7.162.50
ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम् न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित्
MBh 7.162.51
सर्वतो विनिवार्यैनं शरजालेन पीडयन् विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन्
MBh 7.162.52
तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 52 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.162local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷