🪷 Mahābhārata · Droṇa-Parva · Chapter 163
The Book of Droṇa · Parva 7 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 49 Shlokas
MBh 7.163.1
संजय उवाच
ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत्
रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम्
MBh 7.163.2
तस्यापतत एवाशु भल्लेनामित्रकर्शनः
माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत्
MBh 7.163.3
नैनं दुःशासनः सूतं नापि कश्चन सैनिकः
हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान्
MBh 7.163.4
यदा त्वसंगृहीतत्वात्प्रयान्त्यश्वा यथासुखम्
ततो दुःशासनः सूतं बुद्धवान्गतचेतसम्
MBh 7.163.5
स हयान्संनिगृह्याजौ स्वयं हयविशारदः
युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्ठु च
MBh 7.163.6
तदस्यापूजयन्कर्म स्वे परे चैव संयुगे
हतसूतरथेनाजौ व्यचरद्यदभीतवत्
MBh 7.163.7
सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत्
पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः
MBh 7.163.8
स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम्
धनुषा कर्म कुर्वंस्तु रश्मीन्स पुनरुत्सृजत्
MBh 7.163.9
छिद्रेषु तेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत्
परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत्
MBh 7.163.10
वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितैः
आकर्णपूर्णैरभ्यघ्नन्बाह्वोरुरसि चानदत्
MBh 7.163.11
संन्यवर्तत तं कर्णः संघट्टित इवोरगः
तदभूत्तुमुलं युद्धं भीमराधेययोस्तदा
MBh 7.163.12
तौ वृषाविव संक्रुद्धौ विवृत्तनयनावुभौ
वेगेन महतान्योन्यं संरब्धावभिपेततुः
MBh 7.163.13
अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः
अभिन्नशरपातत्वाद्गदायुद्धमवर्तत
MBh 7.163.14
गदया भीमसेनस्तु कर्णस्य रथकूबरम्
बिभेदाशु तदा राजंस्तदद्भुतमिवाभवत्
MBh 7.163.15
ततो भीमस्य राधेयो गदामादाय वीर्यवान्
अवासृजद्रथे तां तु बिभेद गदया गदाम्
MBh 7.163.16
ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम्
तां शरैर्दशभिः कर्णः सुपुङ्खैः सुसमाहितैः
प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत्
MBh 7.163.17
तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः
पपात सारथिश्चास्य मुमोह गदया हतः
MBh 7.163.18
स कर्णे सायकानष्टौ व्यसृजत्क्रोधमूर्छितः
ध्वजे शरासने चैव शरावापे च भारत
MBh 7.163.19
ततः पुनस्तु राधेयो हयानस्य रथेषुभिः
ऋष्यवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी
MBh 7.163.20
स विपन्नरथो भीमो नकुलस्याप्लुतो रथम्
हरिर्यथा गिरेः शृङ्गं समाक्रामदरिंदमः
MBh 7.163.21
तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ
आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि
MBh 7.163.22
लघुसंधानयोगाभ्यां रथयोश्च रणेन च
मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च
MBh 7.163.23
उपारमन्त ते सर्वे योधास्माकं परे तथा
अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः
MBh 7.163.24
विचित्रान्पृतनामध्ये रथमार्गानुदीर्यतः
अन्योन्यमपसव्यं च कर्तुं वीरौ तदैषतुः
पराक्रमं तयोर्योधा ददृशुस्तं सुविस्मिताः
MBh 7.163.25
तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत्
आमिषार्थं महाराज गगने श्येनयोरिव
MBh 7.163.26
यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया
तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः
MBh 7.163.27
यदा द्रोणो न शक्नोति पाण्डवस्य विशेषणे
ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः
MBh 7.163.28
ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम्
मुक्तं मुक्तं द्रोणचापात्तज्जघान धनंजयः
MBh 7.163.29
अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः
ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत्
MBh 7.163.30
यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया
तस्यास्त्रस्य विघातार्थं तत्तत्स कुरुतेऽर्जुनः
MBh 7.163.31
स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि
अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत्
MBh 7.163.32
मेने चात्मानमधिकं पृथिव्यामपि भारत
तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः
MBh 7.163.33
वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम्
यतमानोऽर्जुनं प्रीत्या प्रत्यवारयदुत्स्मयन्
MBh 7.163.34
ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः
ऋषयः सिद्धसंघाश्च व्यतिष्ठन्त दिदृक्षया
MBh 7.163.35
तदप्सरोभिराकीर्णं यक्षराक्षससंकुलम्
श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा
MBh 7.163.36
तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः
द्रोणस्य स्तवसंयुक्ताः पार्थस्य च महात्मनः
विसृज्यमानेष्वस्त्रेषु ज्वालयत्सु दिशो दश
MBh 7.163.37
नैवेदं मानुषं युद्धं नासुरं न च राक्षसम्
न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम्
विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम्
MBh 7.163.38
अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः
नानयोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित्
MBh 7.163.39
यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते
MBh 7.163.40
ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे
शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे
MBh 7.163.41
नेमौ शक्यौ महेष्वासौ रणे क्षेपयितुं परैः
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत्
MBh 7.163.42
इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ
अन्तर्हितानि भूतानि प्रकाशानि च संघशः
MBh 7.163.43
ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः
संतापयन्रणे पार्थं भूतान्यन्तर्हितानि च
MBh 7.163.44
ततश्चचाल पृथिवी सपर्वतवनद्रुमा
ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः
MBh 7.163.45
ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः
सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना
MBh 7.163.46
ततः पार्थोऽप्यसंभ्रान्तस्तदस्त्रं प्रतिजघ्निवान्
ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत्
MBh 7.163.47
यदा न गम्यते पारं तयोरन्यतरस्य वा
ततः संकुलयुद्धेन तद्युद्धं व्यकुलीकृतम्
MBh 7.163.48
नाज्ञायत ततः किंचित्पुनरेव विशां पते
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मृधे
MBh 7.163.49
शरजालैः समाकीर्णे मेघजालैरिवाम्बरे
न स्म संपतते कश्चिदन्तरिक्षचरस्तदा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 162
- Next chapter · Droṇa-Parva Ch 164 →
Sources and Connected Readings
Continue from these 49 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.163local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷