🪷 Mahābhārata · Droṇa-Parva · Chapter 164

The Book of Droṇa · Parva 7 · 159 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 159 Shlokas

MBh 7.164.1
संजय उवाच तस्मिंस्तथा वर्तमाने नराश्वगजसंक्षये दुःशासनो महाराज धृष्टद्युम्नमयोधयत्
MBh 7.164.2
स तु रुक्मरथासक्तो दुःशासनशरार्दितः अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत्
MBh 7.164.3
क्षणेन स रथस्तस्य सध्वजः सहसारथिः नादृश्यत महाराज पार्षतस्य शरैश्चितः
MBh 7.164.4
दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः
MBh 7.164.5
स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः किरञ्शरसहस्राणि द्रोणमेवाभ्ययाद्रणे
MBh 7.164.6
प्रत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम् सोदर्याणां त्रयश्चैव त एनं पर्यवारयन्
MBh 7.164.7
तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम्
MBh 7.164.8
संप्रहारमकुर्वंस्ते सर्वे सप्त महारथाः अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः
MBh 7.164.9
शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः आर्यं युद्धमकुर्वन्त परस्परजिगीषवः
MBh 7.164.10
शुक्लाभिजनकर्माणो मतिमन्तो जनाधिपाः धर्मयुद्धमयुध्यन्त प्रेक्षन्तो गतिमुत्तमाम्
MBh 7.164.11
न तत्रासीदधर्मिष्ठमशस्त्रं युद्धमेव च नात्र कर्णी न नालीको न लिप्तो न च वस्तकः
MBh 7.164.12
न सूची कपिशो नात्र न गवास्थिर्गजास्थिकः इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः
MBh 7.164.13
ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन् सुयुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च
MBh 7.164.14
तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह
MBh 7.164.15
धृष्टद्युम्नस्तु तान्हित्वा तव राजन्रथर्षभान् यमाभ्यां वारितान्दृष्ट्वा शीघ्रास्त्रो द्रोणमभ्ययात्
MBh 7.164.16
निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः समसज्जन्त चत्वारो वाताः पर्वतयोरिव
MBh 7.164.17
द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुंगवौ समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत
MBh 7.164.18
दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम् यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत्
MBh 7.164.19
दुर्योधनो महाराज किरञ्शोणितभोजनान् तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत
MBh 7.164.20
तौ परस्परमासाद्य समीपे कुरुमाधवौ हसमानौ नृशार्दूलावभीतौ समगच्छताम्
MBh 7.164.21
बाल्ये वृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ अन्योन्यं प्रेक्षमाणौ च हसमानौ पुनः पुनः
MBh 7.164.22
अथ दुर्योधनो राजा सात्यकिं प्रत्यभाषत प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः
MBh 7.164.23
धिक्क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम् धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम्
MBh 7.164.24
यत्त्वं मामभिसंधत्से त्वां चाहं शिनिपुंगव त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव
MBh 7.164.25
स्मरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ तानि सर्वाणि जीर्णानि सांप्रतं नौ रणाजिरे किमन्यत्क्रोधलोभाभ्यां युध्यामि त्वाद्य सात्वत
MBh 7.164.26
तं तथावादिनं राजन्सात्यकिः प्रत्यभाषत प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित्
MBh 7.164.27
नेयं सभा राजपुत्र न चाचार्यनिवेशनम् यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः
MBh 7.164.28
दुर्योधन उवाच क्व सा क्रीडा गतास्माकं बाल्ये वै शिनिपुंगव क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः
MBh 7.164.29
किं नु नो विद्यते कृत्यं धनेन धनलिप्सया यत्र युध्यामहे सर्वे धनलोभात्समागताः
MBh 7.164.30
संजय उवाच तं तथावादिनं तत्र राजानं माधवोऽब्रवीत् एवंवृत्तं सदा क्षत्रं यद्धन्तीह गुरूनपि
MBh 7.164.31
यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः त्वत्कृते सुकृताँल्लोकान्गच्छेयं भरतर्षभ
MBh 7.164.32
या ते शक्तिर्बलं चैव तत्क्षिप्रं मयि दर्शय नेच्छाम्येतदहं द्रष्टुं मित्राणां व्यसनं महत्
MBh 7.164.33
इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः अभ्ययात्तूर्णमव्यग्रो निरपेक्षो विशां पते
MBh 7.164.34
तमायान्तमभिप्रेक्ष्य प्रत्यगृह्णात्तवात्मजः शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव
MBh 7.164.35
ततः प्रववृते युद्धं कुरुमाधवसिंहयोः अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः
MBh 7.164.36
ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम् दुर्योधनः प्रत्यविध्यद्दशभिर्निशितैः शरैः
MBh 7.164.37
तं सात्यकिः प्रत्यविध्यत्तथैव दशभिः शरैः पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह
MBh 7.164.38
तस्य संदधतश्चेषून्संहितेषुं च कार्मुकम् अच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाभ्यवीवृषत्
MBh 7.164.39
स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरम् दुर्योधनो महाराज दाशार्हशरपीडितः
MBh 7.164.40
समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् विसृजन्निषुजालानि युयुधानरथं प्रति
MBh 7.164.41
तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति प्रततं व्यसृजद्राजंस्तत्संकुलमवर्तत
MBh 7.164.42
तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च समन्ततः अग्नेरिव महाकक्षे शब्दः समभवन्महान्
MBh 7.164.43
तत्राभ्यधिकमालक्ष्य माधवं रथसत्तमम् क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव
MBh 7.164.44
न तु तं मर्षयामास भीमसेनो महाबलः अभ्ययात्त्वरितः कर्णं विसृजन्सायकान्बहून्
MBh 7.164.45
तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः
MBh 7.164.46
भीमसेनस्तु संक्रुद्धो गदामादाय पाण्डवः ध्वजं धनुश्च सूतं च संममर्दाहवे रिपोः
MBh 7.164.47
अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे
MBh 7.164.48
संकुले वर्तमाने तु राजा धर्मसुतोऽब्रवीत् पाञ्चालानां नरव्याघ्रान्मत्स्यानां च नरर्षभान्
MBh 7.164.49
ये नः प्राणाः शिरो ये नो ये नो योधा महाबलाः त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः
MBh 7.164.50
किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः
MBh 7.164.51
क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः जयन्तो वध्यमाना वा गतिमिष्टां गमिष्यथ
MBh 7.164.52
जित्वा च बहुभिर्यज्ञैर्यक्ष्यध्वं भूरिदक्षिणैः हता वा देवसाद्भूत्वा लोकान्प्राप्स्यथ पुष्कलान्
MBh 7.164.53
ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः चतुर्धा वहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः
MBh 7.164.54
पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्बहुभिः शरैः भीमसेनपुरोगाश्च एकतः पर्यवारयन्
MBh 7.164.55
आसंस्तु पाण्डुपुत्राणां त्रयोऽजिह्मा महारथाः यमौ च भीमसेनश्च प्राक्रोशन्त धनंजयम्
MBh 7.164.56
अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम्
MBh 7.164.57
कौरवेयांस्ततः पार्थः सहसा समुपाद्रवत् पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान्
MBh 7.164.58
पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत् यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा
MBh 7.164.59
द्रोणास्त्रेण महाराज वध्यमानाः परे युधि नात्रसन्त रणे द्रोणात्सत्त्ववन्तो महारथाः
MBh 7.164.60
वध्यमाना महाराज पाञ्चालाः सृञ्जयास्तथा द्रोणमेवाभ्ययुर्युद्धे मोहयन्तो महारथम्
MBh 7.164.61
तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः अभवद्भैरवो नादो वध्यतां शरशक्तिभिः
MBh 7.164.62
वध्यमानेषु संग्रामे पाञ्चालेषु महात्मना उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत्
MBh 7.164.63
दृष्ट्वाश्वनरसंघानां विपुलं च क्षयं युधि पाण्डवेया महाराज नाशंसुर्विजयं तदा
MBh 7.164.64
कच्चिद्द्रोणो न नः सर्वान्क्षपयेत्परमास्त्रवित् समिद्धः शिशिरापाये दहन्कक्षमिवानलः
MBh 7.164.65
न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम् न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित्
MBh 7.164.66
त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान् मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत्
MBh 7.164.67
नैष युद्धेन संग्रामे जेतुं शक्यः कथंचन अपि वृत्रहणा युद्धे रथयूथपयूथपः
MBh 7.164.68
आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डव यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः
MBh 7.164.69
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम तं हतं संयुगे कश्चिदस्मै शंसतु मानवः
MBh 7.164.70
एतन्नारोचयद्राजन्कुन्तीपुत्रो धनंजयः अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः
MBh 7.164.71
ततो भीमो महाबाहुरनीके स्वे महागजम् जघान गदया राजन्नश्वत्थामानमित्युत
MBh 7.164.72
भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह
MBh 7.164.73
अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत् कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा
MBh 7.164.74
भीमसेनवचः श्रुत्वा द्रोणस्तत्परमप्रियम् मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि
MBh 7.164.75
शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै हतः स इति च श्रुत्वा नैव धैर्यादकम्पत
MBh 7.164.76
स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत् अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः
MBh 7.164.77
स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम्
MBh 7.164.78
तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः तथा चरन्तं संग्रामे सर्वतो व्यकिरञ्शरैः
MBh 7.164.79
ततः प्रादुष्करोद्द्रोणो ब्राह्ममस्त्रं परंतपः वधाय तेषां शूराणां पाञ्चालानाममर्षितः
MBh 7.164.80
ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसोमकान् शिरांस्यपातयच्चापि पाञ्चालानां महामृधे तथैव परिघाकारान्बाहून्कनकभूषणान्
MBh 7.164.81
ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः
MBh 7.164.82
कुञ्जराणां च पततां हयौघानां च भारत अगम्यरूपा पृथिवी मांसशोणितकर्दमा
MBh 7.164.83
हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान् अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन्
MBh 7.164.84
तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान् वसुदानस्य भल्लेन शिरः कायादपाहरत्
MBh 7.164.85
पुनः पञ्चशतान्मत्स्यान्षट्सहस्रांश्च सृञ्जयान् हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः
MBh 7.164.86
क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम् ऋषयोऽभ्यागमंस्तूर्णं हव्यवाहपुरोगमाः
MBh 7.164.87
विश्वामित्रो जमदग्निर्भारद्वाजोऽथ गौतमः वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः
MBh 7.164.88
सिकताः पृश्नयो गर्गा बालखिल्या मरीचिपाः भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः
MBh 7.164.89
त एनमब्रुवन्सर्वे द्रोणमाहवशोभिनम् अधर्मतः कृतं युद्धं समयो निधनस्य ते
MBh 7.164.90
न्यस्यायुधं रणे द्रोण समेत्यास्मानवस्थितान् नातः क्रूरतरं कर्म पुनः कर्तुं त्वमर्हसि
MBh 7.164.91
वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते
MBh 7.164.92
न्यस्यायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे
MBh 7.164.93
इति तेषां वचः श्रुत्वा भीमसेनवचश्च तत् धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाभवत्
MBh 7.164.94
स दह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम् अहतं वा हतं वेति पप्रच्छ सुतमात्मनः
MBh 7.164.95
स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम् त्रयाणामपि लोकानामैश्वर्यार्थे कथंचन
MBh 7.164.96
तस्मात्तं परिपप्रच्छ नान्यं कंचिद्विशेषतः तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे
MBh 7.164.97
ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधां पतिम् द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत्
MBh 7.164.98
यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति
MBh 7.164.99
स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं भवेत् अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः
MBh 7.164.100
तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम् श्रुत्वैव तं महाराज वधोपायं महात्मनः
MBh 7.164.101
गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः अश्वत्थामेति विख्यातो गजः शक्रगजोपमः
MBh 7.164.102
निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम् अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति
MBh 7.164.103
नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः
MBh 7.164.104
द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम् त्वयोक्तो नैष युध्येत जातु राजन्द्विजर्षभः सत्यवान्हि नृलोकेऽस्मिन्भवान्ख्यातो जनाधिप
MBh 7.164.105
तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः भावित्वाच्च महाराज वक्तुं समुपचक्रमे
MBh 7.164.106
तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत
MBh 7.164.107
तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुल उत्तरः बभूवैवं तु तेनोक्ते तस्य वाहास्पृशन्महीम्
MBh 7.164.108
युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः पुत्रव्यसनसंतप्तो निराशो जीवितेऽभवत्
MBh 7.164.109
आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम् ऋषिवाक्यं च मन्वानः श्रुत्वा च निहतं सुतम्
MBh 7.164.110
विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिंदम
MBh 7.164.111
तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत्
MBh 7.164.112
य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात्
MBh 7.164.113
स धनुर्जैत्रमादाय घोरं जलदनिस्वनम् दृढज्यमजरं दिव्यं शरांश्चाशीविषोपमान्
MBh 7.164.114
संदधे कार्मुके तस्मिञ्शरमाशीविषोपमम् द्रोणं जिघांसुः पाञ्चाल्यो महाज्वालमिवानलम्
MBh 7.164.115
तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे द्योततो भास्करस्येव घनान्ते परिवेशिनः
MBh 7.164.116
पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः अन्तकालमिव प्राप्तं मेनिरे वीक्ष्य सैनिकाः
MBh 7.164.117
तमिषुं संहितं तेन भारद्वाजः प्रतापवान् दृष्ट्वामन्यत देहस्य कालपर्यायमागतम्
MBh 7.164.118
ततः स यत्नमातिष्ठदाचार्यस्तस्य वारणे न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः
MBh 7.164.119
तस्य त्वहानि चत्वारि क्षपा चैकास्यतो गता तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः
MBh 7.164.120
स शरक्षयमासाद्य पुत्रशोकेन चार्दितः विविधानां च दिव्यानामस्त्राणामप्रसन्नताम्
MBh 7.164.121
उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचोदितः तेजसा प्रेर्यमाणश्च युयुधे सोऽतिमानुषम्
MBh 7.164.122
अथान्यत्स समादाय दिव्यमाङ्गिरसं धनुः शरांश्च ब्रह्मदण्डाभान्धृष्टद्युम्नमयोधयत्
MBh 7.164.123
ततस्तं शरवर्षेण महता समवाकिरत् व्यशातयच्च संक्रुद्धो धृष्टद्युम्नममर्षणः
MBh 7.164.124
तं शरं शतधा चास्य द्रोणश्चिच्छेद सायकैः ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत्
MBh 7.164.125
धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम् शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे
MBh 7.164.126
सोऽतिविद्धो महेष्वासः संभ्रान्त इव संयुगे भल्लेन शितधारेण चिच्छेदास्य महद्धनुः
MBh 7.164.127
यच्चास्य बाणं विकृतं धनूंषि च विशां पते सर्वं संछिद्य दुर्धर्षो गदां खड्गमथापि च
MBh 7.164.128
धृष्टद्युम्नं ततोऽविध्यन्नवभिर्निशितैः शरैः जीवितान्तकरैः क्रुद्धः क्रुद्धरूपं परंतपः
MBh 7.164.129
धृष्टद्युम्नरथस्याश्वान्स्वरथाश्वैर्महारथः अमिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन्
MBh 7.164.130
ते मिश्रा बह्वशोभन्त जवना वातरंहसः पारावतसवर्णाश्च शोणाश्च भरतर्षभ
MBh 7.164.131
यथा सविद्युतो मेघा नदन्तो जलदागमे तथा रेजुर्महाराज मिश्रिता रणमूर्धनि
MBh 7.164.132
ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च प्रणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः
MBh 7.164.133
स छिन्नधन्वा विरथो हताश्वो हतसारथिः उत्तमामापदं प्राप्य गदां वीरः परामृशत्
MBh 7.164.134
तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः निजघान शरैर्द्रोणः क्रुद्धः सत्यपराक्रमः
MBh 7.164.135
तां दृष्ट्वा तु नरव्याघ्रो द्रोणेन निहतां शरैः विमलं खड्गमादत्त शतचन्द्रं च भानुमत्
MBh 7.164.136
असंशयं तथाभूते पाञ्चाल्यः साध्वमन्यत वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः
MBh 7.164.137
ततः स्वरथनीडस्थः स्वरथस्य रथेषया अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत्
MBh 7.164.138
चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः इयेष वक्षो भेत्तुं च भारद्वाजस्य संयुगे
MBh 7.164.139
सोऽतिष्ठद्युगमध्ये वै युगसंनहनेषु च शोणानां जघनार्धेषु तत्सैन्याः समपूजयन्
MBh 7.164.140
तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत्
MBh 7.164.141
क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः तद्वदासीदभीसारो द्रोणं प्रार्थयतो रणे
MBh 7.164.142
तस्याश्वान्रथशक्त्यासौ तदा क्रुद्धः पराक्रमी सर्वानेकैकशो द्रोणः कपोताभानजीघनत्
MBh 7.164.143
ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः शोणाश्च पर्यमुच्यन्त रथबन्धाद्विशां पते
MBh 7.164.144
तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः
MBh 7.164.145
विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम्
MBh 7.164.146
तस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः यथा रूपं परं विष्णोर्हिरण्यकशिपोर्वधे
MBh 7.164.147
सोऽचरद्विविधान्मार्गान्प्रकारानेकविंशतिम् भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम्
MBh 7.164.148
परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन् संपातं समुदीर्णं च दर्शयामास पार्षतः
MBh 7.164.149
ततः शरसहस्रेण शतचन्द्रमपातयत् खड्गं चर्म च संबाधे धृष्टद्युम्नस्य स द्विजः
MBh 7.164.150
ते तु वैतस्तिका नाम शरा ह्यासन्नघातिनः निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः
MBh 7.164.151
शारद्वतस्य पार्थस्य द्रौणेर्वैकर्तनस्य च प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च ते शराः
MBh 7.164.152
अथास्येषुं समाधत्त दृढं परमसंशितम् अन्तेवासिनमाचार्यो जिघांसुः पुत्रसंमितम्
MBh 7.164.153
तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुंगवः पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत्
MBh 7.164.154
चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम् द्रोणकर्णान्तरगतं कृपस्यापि च भारत अपश्येतां महात्मानौ विष्वक्सेनधनंजयौ
MBh 7.164.155
अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति दिव्यान्यस्त्राणि सर्वेषां युधि निघ्नन्तमच्युतम् अभिपत्य ततः सेनां विष्वक्सेनधनंजयौ
MBh 7.164.156
धनंजयस्ततः कृष्णमब्रवीत्पश्य केशव आचार्यवरमुख्यानां मध्ये क्रीडन्मधूद्वहः
MBh 7.164.157
आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम्
MBh 7.164.158
यच्छिक्षयानुद्धतः सन्रणे चरति सात्यकिः महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः
MBh 7.164.159
तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः अजय्यं समरे दृष्ट्वा साधु साध्विति सात्वतम् योधाश्चोभयतः सर्वे कर्मभिः समपूजयन्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 159 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.164local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷