🪷 Mahābhārata · Droṇa-Parva · Chapter 165

The Book of Droṇa · Parva 7 · 125 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 125 Shlokas

MBh 7.165.1
संजय उवाच क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तु पशून्यथा
MBh 7.165.2
हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत छत्राणां चापविद्धानां चामराणां च संयुगे
MBh 7.165.3
भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः सादिभिश्च हतैः शूरैः संकीर्णा वसुधाभवत्
MBh 7.165.4
बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे
MBh 7.165.5
वर्तमाने तथा युद्धे घोरे देवासुरोपमे अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः
MBh 7.165.6
एष वै पार्षतो वीरो भारद्वाजेन संगतः घटते च यथाशक्ति भारद्वाजस्य नाशने
MBh 7.165.7
यादृशानि हि रूपाणि दृश्यन्ते नो महारणे अद्य द्रोणं रणे क्रुद्धः पातयिष्यति पार्षतः ते यूयं सहिता भूत्वा कुम्भयोनिं परीप्सत
MBh 7.165.8
युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः
MBh 7.165.9
तान्समापततः सर्वान्भारद्वाजो महारथः अभ्यद्रवत वेगेन मर्तव्यमिति निश्चितः
MBh 7.165.10
प्रयाते सत्यसंधे तु समकम्पत मेदिनी ववुर्वाताः सनिर्घातास्त्रासयन्तो वरूथिनीम्
MBh 7.165.11
पपात महती चोल्का आदित्यान्निर्गतेव ह दीपयन्तीव तापेन शंसन्तीव महद्भयम्
MBh 7.165.12
जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन्
MBh 7.165.13
हतौजा इव चाप्यासीद्भारद्वाजो महारथः ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे
MBh 7.165.14
ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे
MBh 7.165.15
हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः दशायुतानि तीक्ष्णाग्रैरवधीद्विशिखैः शितैः
MBh 7.165.16
सोऽतिष्ठदाहवे यत्तो विधूम इव पावकः क्षत्रियाणामभावाय ब्राह्ममात्मानमास्थितः
MBh 7.165.17
पाञ्चाल्यं विरथं भीमो हतसर्वायुधं वशी अविषण्णं महात्मानं त्वरमाणः समभ्ययात्
MBh 7.165.18
ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः अब्रवीदभिसंप्रेक्ष्य द्रोणमस्यन्तमन्तिकात्
MBh 7.165.19
न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान् त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः
MBh 7.165.20
स तथोक्तो महाबाहुः सर्वभारसहं नवम् अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम्
MBh 7.165.21
संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे विवारयिषुराचार्यं शरवर्षैरवाकिरत्
MBh 7.165.22
तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः
MBh 7.165.23
स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः
MBh 7.165.24
स वसातीञ्शिबींश्चैव बाह्लीकान्कौरवानपि रक्षिष्यमाणान्संग्रामे द्रोणं व्यधमदच्युतः
MBh 7.165.25
धृष्टद्युम्नस्तदा राजन्गभस्तिभिरिवांशुमान् बभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः
MBh 7.165.26
तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात्
MBh 7.165.27
ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत्
MBh 7.165.28
यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः स्वकर्मभिरसंतुष्टा न स्म क्षत्रं क्षयं व्रजेत्
MBh 7.165.29
अहिंसा सर्वभूतेषु धर्मं ज्यायस्तरं विदुः तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः
MBh 7.165.30
श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान् अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया
MBh 7.165.31
एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यथा स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम्
MBh 7.165.32
स चाद्य पतितः शेते पृष्टेनावेदितस्तव धर्मराजेन तद्वाक्यं नातिशङ्कितुमर्हसि
MBh 7.165.33
एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत कर्ण कर्ण महेष्वास कृप दुर्योधनेति च
MBh 7.165.34
संग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः पाण्डवेभ्यः शिवं वोऽस्तु शस्त्रमभ्युत्सृजाम्यहम्
MBh 7.165.35
इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च उत्सृज्य च रणे शस्त्रं रथोपस्थे निवेश्य च अभयं सर्वभूतानां प्रददौ योगयुक्तवान्
MBh 7.165.36
तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः समुत्थितः खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात्
MBh 7.165.37
हाहाकृतानि भूतानि मानुषाणीतराणि च द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम्
MBh 7.165.38
हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन् द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साम्यमास्थितः
MBh 7.165.39
तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः दिवमाक्रामदाचार्यः सद्भिः सह दुराक्रमम्
MBh 7.165.40
द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथा गते एकाग्रमिव चासीद्धि ज्योतिर्भिः पूरितं नभः समपद्यत चार्काभे भारद्वाजनिशाकरे
MBh 7.165.41
निमेषमात्रेण च तज्ज्योतिरन्तरधीयत आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम् ब्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते
MBh 7.165.42
वयमेव तदाद्राक्ष्म पञ्च मानुषयोनयः योगयुक्तं महात्मानं गच्छन्तं परमां गतिम्
MBh 7.165.43
अहं धनंजयः पार्थः कृपः शारद्वतो द्विजः वासुदेवश्च वार्ष्णेयो धर्मराजश्च पाण्डवः
MBh 7.165.44
अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः महिमानं महाराज योगयुक्तस्य गच्छतः
MBh 7.165.45
गतिं परमिकां प्राप्तमजानन्तो नृयोनयः नापश्यन्गच्छमानं हि तं सार्धमृषिपुंगवैः आचार्यं योगमास्थाय ब्रह्मलोकमरिंदमम्
MBh 7.165.46
वितुन्नाङ्गं शरशतैर्न्यस्तायुधमसृक्क्षरम् धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत्
MBh 7.165.47
तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः किंचिदब्रुवतः कायाद्विचकर्तासिना शिरः
MBh 7.165.48
हर्षेण महता युक्तो भारद्वाजे निपातिते सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे
MBh 7.165.49
आकर्णपलितः श्यामो वयसाशीतिपञ्चकः त्वत्कृते व्यचरत्संख्ये स तु षोडशवर्षवत्
MBh 7.165.50
उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनंजयः जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज
MBh 7.165.51
न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाद्रवत्
MBh 7.165.52
क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम्
MBh 7.165.53
शोणितेन परिक्लिन्नो रथाद्भूमिमरिंदमः लोहिताङ्ग इवादित्यो दुर्दर्शः समपद्यत एवं तं निहतं संख्ये ददृशे सैनिको जनः
MBh 7.165.54
धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरो महत् तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत्
MBh 7.165.55
ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः पलायनकृतोत्साहा दुद्रुवुः सर्वतोदिशम्
MBh 7.165.56
द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत् अहमेव तदाद्राक्षं द्रोणस्य निधनं नृप
MBh 7.165.57
ऋषेः प्रसादात्कृष्णस्य सत्यवत्याः सुतस्य च विधूमामिव संयान्तीमुल्कां प्रज्वलितामिव अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम्
MBh 7.165.58
हते द्रोणे निरुत्साहान्कुरून्पाण्डवसृञ्जयाः अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत
MBh 7.165.59
निहता हयभूयिष्ठाः संग्रामे निशितैः शरैः तावका निहते द्रोणे गतासव इवाभवन्
MBh 7.165.60
पराजयमथावाप्य परत्र च महद्भयम् उभयेनैव ते हीना नाविन्दन्धृतिमात्मनः
MBh 7.165.61
अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः नाध्यगच्छंस्तदा राजन्कबन्धायुतसंकुले
MBh 7.165.62
पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः बाणशब्दरवांश्चक्रुः सिंहनादांश्च पुष्कलान्
MBh 7.165.63
भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः वरूथिन्यामनृत्येतां परिष्वज्य परस्परम्
MBh 7.165.64
अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम् भूयोऽहं त्वां विजयिनं परिष्वक्ष्यामि पार्षत सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे
MBh 7.165.65
एतावदुक्त्वा भीमस्तु हर्षेण महता युतः बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः
MBh 7.165.66
तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः
MBh 7.165.67
पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन्विशां पते अरिक्षयं च संग्रामे तेन ते सुखमाप्नुवन्
MBh 7.165.68
ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः
MBh 7.165.69
विचेतसो हतोत्साहाः कश्मलाभिहतौजसः आर्तस्वरेण महता पुत्रं ते पर्यवारयन्
MBh 7.165.70
रजस्वला वेपमाना वीक्षमाणा दिशो दश अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते
MBh 7.165.71
स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव अशक्नुवन्नवस्थातुमपायात्तनयस्तव
MBh 7.165.72
क्षुत्पिपासापरिश्रान्तास्ते योधास्तव भारत आदित्येन च संतप्ता भृशं विमनसोऽभवन्
MBh 7.165.73
भास्करस्येव पतनं समुद्रस्येव शोषणम् विपर्यासं यथा मेरोर्वासवस्येव निर्जयम्
MBh 7.165.74
अमर्षणीयं तद्दृष्ट्वा भारद्वाजस्य पातनम् त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भयात्
MBh 7.165.75
गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह हतं रुक्मरथं दृष्ट्वा प्राद्रवत्सहितो रथैः
MBh 7.165.76
वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम् परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात्
MBh 7.165.77
रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम् मद्राणामीश्वरः शल्यो वीक्षमाणोऽपयाद्भयात्
MBh 7.165.78
हतप्रवीरैर्भूयिष्ठं द्विपैर्बहुपदातिभिः वृतः शारद्वतोऽगच्छत्कष्टं कष्टमिति ब्रुवन्
MBh 7.165.79
भोजानीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः
MBh 7.165.80
पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम्
MBh 7.165.81
दर्शनीयो युवा चैव शौर्ये च कृतलक्षणः दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः
MBh 7.165.82
गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः दुर्योधनो महाराज प्रायात्तत्र महारथः
MBh 7.165.83
गजान्रथान्समारुह्य परस्यापि हयाञ्जनाः प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः
MBh 7.165.84
नेदमस्तीति पुरुषा हतोत्साहा हतौजसः उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो
MBh 7.165.85
अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे
MBh 7.165.86
धुर्यान्प्रमुच्य तु रथाद्धतसूतान्स्वलंकृतान् अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन्
MBh 7.165.87
द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात्
MBh 7.165.88
हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः कथंचित्संकटान्मुक्तो मत्तद्विरदविक्रमः
MBh 7.165.89
द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम् दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम्
MBh 7.165.90
किमियं द्रवते सेना त्रस्तरूपेव भारत द्रवमाणां च राजेन्द्र नावस्थापयसे रणे
MBh 7.165.91
त्वं चापि न यथापूर्वं प्रकृतिस्थो नराधिप कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिवाः
MBh 7.165.92
अन्येष्वपि च युद्धेषु नैव सेनाद्रवत्तदा कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत
MBh 7.165.93
कस्मिन्निदं हते राजन्रथसिंहे बलं तव एतामवस्थां संप्राप्तं तन्ममाचक्ष्व कौरव
MBh 7.165.94
तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् घोरमप्रियमाख्यातुं नाशकत्पार्थिवर्षभः
MBh 7.165.95
भिन्ना नौरिव ते पुत्रो निमग्नः शोकसागरे बाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम्
MBh 7.165.96
ततः शारद्वतं राजा सव्रीडमिदमब्रवीत् शंसेह सर्वं भद्रं ते यथा सैन्यमिदं द्रुतम्
MBh 7.165.97
अथ शारद्वतो राजन्नार्तिं गच्छन्पुनः पुनः शशंस द्रोणपुत्राय यथा द्रोणो निपातितः
MBh 7.165.98
कृप उवाच वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम् प्रावर्तयाम संग्रामं पाञ्चालैरेव केवलैः
MBh 7.165.99
ततः प्रवृत्ते संग्रामे विमिश्राः कुरुसोमकाः अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन्
MBh 7.165.100
ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः अहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः
MBh 7.165.101
पाण्डवाः केकया मत्स्याः पाञ्चालाश्च विशेषतः संख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः
MBh 7.165.102
सहस्रं रथसिंहानां द्विसाहस्रं च दन्तिनाम् द्रोणो ब्रह्मास्त्रनिर्दग्धं प्रेषयामास मृत्यवे
MBh 7.165.103
आकर्णपलितः श्यामो वयसाशीतिपञ्चकः रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत्
MBh 7.165.104
क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु अमर्षवशमापन्नाः पाञ्चाला विमुखाभवन्
MBh 7.165.105
तेषु किंचित्प्रभग्नेषु विमुखेषु सपत्नजित् दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः
MBh 7.165.106
स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान् मध्यंगत इवादित्यो दुष्प्रेक्ष्यस्ते पिताभवत्
MBh 7.165.107
ते दह्यमाना द्रोणेन सूर्येणेव विराजता दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः
MBh 7.165.108
तान्दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत्
MBh 7.165.109
नैष जातु परैः शक्यो जेतुं शस्त्रभृतां वरः अपि वृत्रहणा संख्ये रथयूथपयूथपः
MBh 7.165.110
ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः
MBh 7.165.111
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः
MBh 7.165.112
एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनंजयः अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः
MBh 7.165.113
भीमसेनस्तु सव्रीडमब्रवीत्पितरं तव अश्वत्थामा हत इति तच्चाबुध्यत ते पिता
MBh 7.165.114
स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत हतं वाप्यहतं वाजौ त्वां पिता पुत्रवत्सलः
MBh 7.165.115
तदतथ्यभये मग्नो जये सक्तो युधिष्ठिरः अश्वत्थामानमाहेदं हतः कुञ्जर इत्युत भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः
MBh 7.165.116
उपसृत्य तदा द्रोणमुच्चैरिदमभाषत यस्यार्थे शस्त्रमाधत्से यमवेक्ष्य च जीवसि पुत्रस्ते दयितो नित्यं सोऽश्वत्थामा निपातितः
MBh 7.165.117
तच्छ्रुत्वा विमनास्तत्र आचार्यो महदप्रियम् नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा
MBh 7.165.118
तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत्
MBh 7.165.119
तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्राय उपाविशत्
MBh 7.165.120
ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः
MBh 7.165.121
न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन् तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत्
MBh 7.165.122
उद्यम्य बाहू त्वरितो ब्रुवाणश्च पुनः पुनः जीवन्तमानयाचार्यं मा वधीरिति धर्मवित्
MBh 7.165.123
तथापि वार्यमाणेन कौरवैरर्जुनेन च हत एव नृशंसेन पिता तव नरर्षभ
MBh 7.165.124
सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः वयं चापि निरुत्साहा हते पितरि तेऽनघ
MBh 7.165.125
संजय उवाच तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे क्रोधमाहारयत्तीव्रं पदाहत इवोरगः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 125 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.165local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷