🪷 Mahābhārata · Droṇa-Parva · Chapter 166
The Book of Droṇa · Parva 7 · 60 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 60 Shlokas
MBh 7.166.1
धृतराष्ट्र उवाच
अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन संजय
ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत्
MBh 7.166.2
मानुषं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान्
ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम्
MBh 7.166.3
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संजय
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्
MBh 7.166.4
येन रामादवाप्येह धनुर्वेदं महात्मना
प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुरुकाङ्क्षिणे
MBh 7.166.5
एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम्
इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथंचन
MBh 7.166.6
आचार्याणां भवन्त्येव रहस्यानि महात्मनाम्
तानि पुत्राय वा दद्युः शिष्यायानुगताय वा
MBh 7.166.7
स शिल्पं प्राप्य तत्सर्वं सविशेषं च संजय
शूरः शारद्वतीपुत्रः संख्ये द्रोणादनन्तरः
MBh 7.166.8
रामस्यानुमतः शास्त्रे पुरंदरसमो युधि
कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ
MBh 7.166.9
महीधरसमो धृत्या तेजसाग्निसमो युवा
समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः
MBh 7.166.10
स रथी प्रथमो लोके दृढधन्वा जितक्लमः
शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः
MBh 7.166.11
अस्यता येन संग्रामे धरण्यभिनिपीडिता
यो न व्यथति संग्रामे वीरः सत्यपराक्रमः
MBh 7.166.12
वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः
महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा
MBh 7.166.13
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्
MBh 7.166.14
धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना
यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत्
MBh 7.166.15
तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्
MBh 7.166.16
संजय उवाच
छद्मना निहतं श्रुत्वा पितरं पापकर्मणा
बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ
MBh 7.166.17
तस्य क्रुद्धस्य राजेन्द्र वपुर्दिव्यमदृश्यत
अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये
MBh 7.166.18
अश्रुपूर्णे ततो नेत्रे अपमृज्य पुनः पुनः
उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः
MBh 7.166.19
पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः
धर्मध्वजवता पापं कृतं तद्विदितं मम
अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे श्रुतम्
MBh 7.166.20
युद्धेष्वपि प्रवृत्तानां ध्रुवौ जयपराजयौ
द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते
MBh 7.166.21
न्यायवृत्तो वधो यस्तु संग्रामे युध्यतो भवेत्
न स दुःखाय भवति तथा दृष्टो हि स द्विजः
MBh 7.166.22
गतः स वीरलोकाय पिता मम न संशयः
न शोच्यः पुरुषव्याघ्रस्तथा स निधनं गतः
MBh 7.166.23
यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान्
पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति
MBh 7.166.24
कामात्क्रोधादवज्ञानाद्दर्पाद्बाल्येन वा पुनः
वैधर्मिकानि कुर्वन्ति तथा परिभवेन च
MBh 7.166.25
तदिदं पार्षतेनेह महदाधर्मिकं कृतम्
अवज्ञाय च मां नूनं नृशंसेन दुरात्मना
MBh 7.166.26
तस्यानुबन्धं स द्रष्टा धृष्टद्युम्नः सुदारुणम्
अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः
MBh 7.166.27
यो ह्यसौ छद्मनाचार्यं शस्त्रं संन्यासयत्तदा
तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम्
MBh 7.166.28
सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे
धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम्
MBh 7.166.29
कर्मणा येन तेनेह मृदुना दारुणेन वा
पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव
MBh 7.166.30
यदर्थं पुरुषव्याघ्र पुत्रमिच्छन्ति मानवाः
प्रेत्य चेह च संप्राप्तं त्राणाय महतो भयात्
MBh 7.166.31
पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा
मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति
MBh 7.166.32
धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम्
यन्मां द्रोणः सुतं प्राप्य केशग्रहणमाप्तवान्
MBh 7.166.33
स तथाहं करिष्यामि यथा भरतसत्तम
परलोकगतस्यापि गमिष्याम्यनृणः पितुः
MBh 7.166.34
आर्येण तु न वक्तव्या कदाचित्स्तुतिरात्मनः
पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम्
MBh 7.166.35
अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः
मृद्नतः सर्वसैन्यानि युगान्तमिव कुर्वतः
MBh 7.166.36
न हि देवा न गन्धर्वा नासुरा न च राक्षसाः
अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ
MBh 7.166.37
मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वास्त्रवित्तमः
अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान्
प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः
MBh 7.166.38
कृशाश्वतनया ह्यद्य मत्प्रयुक्ता महामृधे
दर्शयन्तोऽऽत्मनो वीर्यं प्रमथिष्यन्ति पाण्डवान्
MBh 7.166.39
अद्य सर्वा दिशो राजन्धाराभिरिव संकुलाः
आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह
MBh 7.166.40
किरन्हि शरजालानि सर्वतो भैरवस्वरम्
शत्रून्निपातयिष्यामि महावात इव द्रुमान्
MBh 7.166.41
न च जानाति बीभत्सुस्तदस्त्रं न जनार्दनः
न भीमसेनो न यमौ न च राजा युधिष्ठिरः
MBh 7.166.42
न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः
यदिदं मयि कौरव्य सकल्यं सनिवर्तनम्
MBh 7.166.43
नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम्
उपहारः पुरा दत्तो ब्रह्मरूप उपस्थिते
MBh 7.166.44
तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ
वव्रे पिता मे परममस्त्रं नारायणं ततः
MBh 7.166.45
अथैनमब्रवीद्राजन्भगवान्देवसत्तमः
भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित्
MBh 7.166.46
न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथंचन
न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते
MBh 7.166.47
न चैतच्छक्यते ज्ञातुं को न वध्येदिति प्रभो
अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत्
MBh 7.166.48
वधः संख्ये द्रवश्चैव शस्त्राणां च विसर्जनम्
प्रयाचनं च शत्रूणां गमनं शरणस्य च
MBh 7.166.49
एते प्रशमने योगा महास्त्रस्य परंतप
सर्वथा पीडितो हि स्यादवध्यान्पीडयन्रणे
MBh 7.166.50
तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः
त्वं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्यनेकशः
अनेनास्त्रेण संग्रामे तेजसा च ज्वलिष्यसि
MBh 7.166.51
एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः
एतन्नारायणादस्त्रं तत्प्राप्तं मम बन्धुना
MBh 7.166.52
तेनाहं पाण्डवांश्चैव पाञ्चालान्मत्स्यकेकयान्
विद्रावयिष्यामि रणे शचीपतिरिवासुरान्
MBh 7.166.53
यथा यथाहमिच्छेयं तथा भूत्वा शरा मम
निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत
MBh 7.166.54
यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः
अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान्
परश्वधांश्च विविधान्प्रसक्ष्येऽहमसंशयम्
MBh 7.166.55
सोऽहं नारायणास्त्रेण महता शत्रुतापन
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान्
MBh 7.166.56
मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः
पाञ्चालापसदश्चाद्य न मे जीवन्विमोक्ष्यते
MBh 7.166.57
तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी
ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः
MBh 7.166.58
भेरीश्चाभ्यहनन्हृष्टा डिण्डिमांश्च सहस्रशः
तथा ननाद वसुधा खुरनेमिप्रपीडिता
स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत्
MBh 7.166.59
तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम्
समेत्य रथिनां श्रेष्ठाः सहिताः संन्यमन्त्रयन्
MBh 7.166.60
तथोक्त्वा द्रोणपुत्रोऽपि तदोपस्पृश्य भारत
प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 165
- Next chapter · Droṇa-Parva Ch 167 →
Sources and Connected Readings
Continue from these 60 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.166local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷