🪷 Mahābhārata · Droṇa-Parva · Chapter 153

The Book of Droṇa · Parva 7 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 40 Shlokas

MBh 7.153.1
संजय उवाच संप्रेक्ष्य समरे भीमं रक्षसा ग्रस्तमन्तिकात् वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा
MBh 7.153.2
पश्य भीमं महाबाहो रक्षसा ग्रस्तमन्तिकात् पश्यतां सर्वसैन्यानां तव चैव महाद्युते
MBh 7.153.3
स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम् जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि
MBh 7.153.4
स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान् युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः
MBh 7.153.5
अलायुधस्य योधांस्तु राक्षसान्भीमदर्शनान् वेगेनापततः शूरान्प्रगृहीतशरासनान्
MBh 7.153.6
आत्तायुधः सुसंक्रुद्धो युयुधानो महारथः नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः
MBh 7.153.7
सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान् परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपञ्शरान्
MBh 7.153.8
कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान् धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान्
MBh 7.153.9
तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे
MBh 7.153.10
ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः नकुलः सहदेवश्च सात्यकिश्च महारथः ते कर्णं योधयामासुः पाञ्चाला द्रोणमेव च
MBh 7.153.11
अलायुधस्तु संक्रुद्धो घटोत्कचमरिंदमम् परिघेणातिकायेन ताडयामास मूर्धनि
MBh 7.153.12
स तु तेन प्रहारेण भैमसेनिर्महाबलः ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भयत वीर्यवान्
MBh 7.153.13
ततो दीप्ताग्निसंकाशां शतघण्टामलंकृताम् चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम्
MBh 7.153.14
सा हयान्सारथिं चैव रथं चास्य महास्वना चूर्णयामास वेगेन विसृष्टा भीमकर्मणा
MBh 7.153.15
स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम्
MBh 7.153.16
स समास्थाय मायां तु ववर्ष रुधिरं बहु विद्युद्विभ्राजितं चासीत्तिमिराभ्राकुलं नभः
MBh 7.153.17
ततो वज्रनिपाताश्च साशनिस्तनयित्नवः महांश्चटचटाशब्दस्तत्रासीद्धि महाहवे
MBh 7.153.18
तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु ऊर्ध्वमुत्पत्य हैडिम्बस्तां मायां माययावधीत्
MBh 7.153.19
सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे
MBh 7.153.20
अश्मवर्षं स तद्घोरं शरवर्षेण वीर्यवान् दिशो विध्वंसयामास तदद्भुतमिवाभवत्
MBh 7.153.21
ततो नानाप्रहरणैरन्योन्यमभिवर्षताम् आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः
MBh 7.153.22
पिनाकैः करवालैश्च तोमरप्रासकम्पनैः नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वधैः
MBh 7.153.23
अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः
MBh 7.153.24
शमीपीलुकरीरैश्च शम्याकैश्चैव भारत इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः
MBh 7.153.25
पलाशैररिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः
MBh 7.153.26
विविधैः पर्वताग्रैश्च नानाधातुभिराचितैः तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव
MBh 7.153.27
युद्धं तदभवद्घोरं भैम्यलायुधयोर्नृप हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा
MBh 7.153.28
तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा प्रगृह्य निशितौ खड्गावन्योन्यमभिजघ्नतुः
MBh 7.153.29
तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ
MBh 7.153.30
तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप रुधिरं च महाकायावभिवृष्टाविवाचलौ
MBh 7.153.31
अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम् बलेनाक्षिप्य हैडिम्बश्चकर्तास्य शिरो महत्
MBh 7.153.32
सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम् तदा सुतुमुलं नादं ननाद सुमहाबलः
MBh 7.153.33
हतं दृष्ट्वा महाकायं बकज्ञातिमरिंदमम् पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे
MBh 7.153.34
ततो भेरीसहस्राणि शङ्खानामयुतानि च अवादयन्पाण्डवेयास्तस्मिन्रक्षसि पातिते
MBh 7.153.35
अतीव सा निशा तेषां बभूव विजयावहा विद्योतमाना विबभौ समन्ताद्दीपमालिनी
MBh 7.153.36
अलायुधस्य तु शिरो भैमसेनिर्महाबलः दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम्
MBh 7.153.37
अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम् बभूव परमोद्विग्नः सह सैन्येन भारत
MBh 7.153.38
तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम्
MBh 7.153.39
ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः जीवितं चिरकालाय भ्रातॄणां चाप्यमन्यत
MBh 7.153.40
स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 40 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.153local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷