🪷 Mahābhārata · Droṇa-Parva · Chapter 154
The Book of Droṇa · Parva 7 · 63 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 63 Shlokas
MBh 7.154.1
संजय उवाच
निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः
ननाद विविधान्नादान्वाहिन्याः प्रमुखे स्थितः
MBh 7.154.2
तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम्
तावकानां महाराज भयमासीत्सुदारुणम्
MBh 7.154.3
अलायुधविषक्तं तु भैमसेनिं महाबलम्
दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत्
MBh 7.154.4
दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ
दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः
MBh 7.154.5
ततः परमनाराचैर्युधामन्यूत्तमौजसौ
सात्यकिं च रथोदारं कम्पयामास मार्गणैः
MBh 7.154.6
तेषामभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम्
मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप
MBh 7.154.7
तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह
मेघानामिव घर्मान्ते बभूव तुमुलो निशि
MBh 7.154.8
ज्यानेमिघोषस्तनयित्नुमान्वै; धनुस्तडिन्मण्डलकेतुशृङ्गः
शरौघवर्षाकुलवृष्टिमांश्च; संग्राममेघः स बभूव राजन्
MBh 7.154.9
तदुद्धतं शैल इवाप्रकम्प्यो; वर्षं महच्छैलसमानसारः
विध्वंसयामास रणे नरेन्द्र; वैकर्तनः शत्रुगणावमर्दी
MBh 7.154.10
ततोऽतुलैर्वज्रनिपातकल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः
शत्रून्व्यपोहत्समरे महात्मा; वैकर्तनः पुत्रहिते रतस्ते
MBh 7.154.11
संछिन्नभिन्नध्वजिनश्च केचि;त्केचिच्छरैरर्दितभिन्नदेहाः
केचिद्विसूता विहयाश्च केचि;द्वैकर्तनेनाशु कृता बभूवुः
MBh 7.154.12
अविन्दमानास्त्वथ शर्म संख्ये; यौधिष्ठिरं ते बलमन्वपद्यन्
तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च; घटोत्कचो रोषमतीव चक्रे
MBh 7.154.13
आस्थाय तं काञ्चनरत्नचित्रं; रथोत्तमं सिंह इवोन्ननाद
वैकर्तनं कर्णमुपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः
MBh 7.154.14
तौ कर्णिनाराचशिलीमुखैश्च; नालीकदण्डैश्च सवत्सदन्तैः
वराहकर्णैः सविषाणशृङ्गैः; क्षुरप्रवर्षैश्च विनेदतुः खम्
MBh 7.154.15
तद्बाणधारावृतमन्तरिक्षं; तिर्यग्गताभिः समरे रराज
सुवर्णपुङ्खज्वलितप्रभाभि;र्विचित्रपुष्पाभिरिव स्रजाभिः
MBh 7.154.16
समं हि तावप्रतिमप्रभावा;वन्योन्यमाजघ्नतुरुत्तमास्त्रैः
तयोर्हि वीरोत्तमयोर्न कश्चि;द्ददर्श तस्मिन्समरे विशेषम्
MBh 7.154.17
अतीव तच्चित्रमतीव रूपं; बभूव युद्धं रविभीमसून्वोः
समाकुलं शस्त्रनिपातघोरं; दिवीव राह्वंशुमतोः प्रतप्तम्
MBh 7.154.18
घटोत्कचो यदा कर्णं न विशेषयते नृप
तदा प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः
MBh 7.154.19
तेनास्त्रेण हयान्पूर्वं हत्वा कर्णस्य राक्षसः
सारथिं चैव हैडिम्बः क्षिप्रमन्तरधीयत
MBh 7.154.20
धृतराष्ट्र उवाच
तथा ह्यन्तर्हिते तस्मिन्कूटयोधिनि राक्षसे
मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व संजय
MBh 7.154.21
संजय उवाच
अन्तर्हितं राक्षसं तं विदित्वा; संप्राक्रोशन्कुरवः सर्व एव
कथं नायं राक्षसः कूटयोधी; हन्यात्कर्णं समरेऽदृश्यमानः
MBh 7.154.22
ततः कर्णो लघुचित्रास्त्रयोधी; सर्वा दिशो व्यावृणोद्बाणजालैः
न वै किंचिद्व्यापतत्तत्र भूतं; तमोभूते सायकैरन्तरिक्षे
MBh 7.154.23
न चाददानो न च संदधानो; न चेषुधी स्पृशमानः कराग्रैः
अदृश्यद्वै लाघवात्सूतपुत्रः; सर्वं बाणैश्छादयानोऽन्तरिक्षम्
MBh 7.154.24
ततो मायां विहितामन्तरिक्षे; घोरां भीमां दारुणां राक्षसेन
संपश्यामो लोहिताभ्रप्रकाशां; देदीप्यन्तीमग्निशिखामिवोग्राम्
MBh 7.154.25
ततस्तस्या विद्युतः प्रादुरास;न्नुल्काश्चापि ज्वलिताः कौरवेन्द्र
घोषश्चान्यः प्रादुरासीत्सुघोरः; सहस्रशो नदतां दुन्दुभीनाम्
MBh 7.154.26
ततः शराः प्रापतन्रुक्मपुङ्खाः; शक्त्यः प्रासा मुसलान्यायुधानि
परश्वधास्तैलधौताश्च खड्गाः; प्रदीप्ताग्राः पट्टिशास्तोमराश्च
MBh 7.154.27
मयूखिनः परिघा लोहबद्धा; गदाश्चित्राः शितधाराश्च शूलाः
गुर्व्यो गदा हेमपट्टावनद्धाः; शतघ्न्यश्च प्रादुरासन्समन्तात्
MBh 7.154.28
महाशिलाश्चापतंस्तत्र तत्र; सहस्रशः साशनयः सवज्राः
चक्राणि चानेकशतक्षुराणि; प्रादुर्बभूवुर्ज्वलनप्रभाणि
MBh 7.154.29
तां शक्तिपाषाणपरश्वधानां; प्रासासिवज्राशनिमुद्गराणाम्
वृष्टिं विशालां ज्वलितां पतन्तीं; कर्णः शरौघैर्न शशाक हन्तुम्
MBh 7.154.30
शराहतानां पततां हयानां; वज्राहतानां पततां गजानाम्
शिलाहतानां च महारथानां; महान्निनादः पततां बभूव
MBh 7.154.31
सुभीमनानाविधशस्त्रपातै;र्घटोत्कचेनाभिहतं समन्तात्
दौर्योधनं तद्बलमार्तरूप;मावर्तमानं ददृशे भ्रमन्तम्
MBh 7.154.32
हाहाकृतं संपरिवर्तमानं; संलीयमानं च विषण्णरूपम्
ते त्वार्यभावात्पुरुषप्रवीराः; पराङ्मुखा न बभूवुस्तदानीम्
MBh 7.154.33
तां राक्षसीं घोरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम्
दृष्ट्वा बलौघांश्च निपात्यमाना;न्महद्भयं तव पुत्रान्विवेश
MBh 7.154.34
शिवाश्च वैश्वानरदीप्तजिह्वाः; सुभीमनादाः शतशो नदन्त्यः
रक्षोगणान्नर्दतश्चाभिवीक्ष्य; नरेन्द्रयोधा व्यथिता बभूवुः
MBh 7.154.35
ते दीप्तजिह्वाननतीक्ष्णदंष्ट्रा; विभीषणाः शैलनिकाशकायाः
नभोगताः शक्तिविषक्तहस्ता; मेघा व्यमुञ्चन्निव वृष्टिमार्गम्
MBh 7.154.36
तैराहतास्ते शरशक्तिशूलै;र्गदाभिरुग्रैः परिघैश्च दीप्तैः
वज्रैः पिनाकैरशनिप्रहारै;श्चक्रैः शतघ्न्युन्मथिताश्च पेतुः
MBh 7.154.37
हुडा भुशुण्ड्योऽश्मगुडाः शतघ्न्यः; स्थूणाश्च कार्ष्णायसपट्टनद्धाः
अवाकिरंस्तव पुत्रस्य सैन्यं; तथा रौद्रं कश्मलं प्रादुरासीत्
MBh 7.154.38
निष्कीर्णान्त्रा विहतैरुत्तमाङ्गैः; संभग्नाङ्गाः शेरते तत्र शूराः
भिन्ना हयाः कुञ्जराश्चावभग्नाः; संचूर्णिताश्चैव रथाः शिलाभिः
MBh 7.154.39
एवं महच्छस्त्रवर्षं सृजन्त;स्ते यातुधाना भुवि घोररूपाः
मायाः सृष्टास्तत्र घटोत्कचेन; नामुञ्चन्वै याचमानं न भीतम्
MBh 7.154.40
तस्मिन्घोरे कुरुवीरावमर्दे; कालोत्सृष्टे क्षत्रियाणामभावे
ते वै भग्नाः सहसा व्यद्रवन्त; प्राक्रोशन्तः कौरवाः सर्व एव
MBh 7.154.41
पलायध्वं कुरवो नैतदस्ति; सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे
तथा तेषां मज्जतां भारतानां; न स्म द्वीपस्तत्र कश्चिद्बभूव
MBh 7.154.42
तस्मिन्संक्रन्दे तुमुले वर्तमाने; सैन्ये भग्ने लीयमाने कुरूणाम्
अनीकानां प्रविभागेऽप्रकाशे; न ज्ञायन्ते कुरवो नेतरे वा
MBh 7.154.43
निर्मर्यादे विद्रवे घोररूपे; सर्वा दिशः प्रेक्षमाणाः स्म शून्याः
तां शस्त्रवृष्टिमुरसा गाहमानं; कर्णं चैकं तत्र राजन्नपश्यम्
MBh 7.154.44
ततो बाणैरावृणोदन्तरिक्षं; दिव्यां मायां योधयन्राक्षसस्य
ह्रीमान्कुर्वन्दुष्करमार्यकर्म; नैवामुह्यत्संयुगे सूतपुत्रः
MBh 7.154.45
ततो भीताः समुदैक्षन्त कर्णं; राजन्सर्वे सैन्धवा बाह्लिकाश्च
असंमोहं पूजयन्तोऽस्य संख्ये; संपश्यन्तो विजयं राक्षसस्य
MBh 7.154.46
तेनोत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश्चतुरोऽश्वाञ्जघान
ते जानुभिर्जगतीमन्वपद्य;न्गतासवो निर्दशनाक्षिजिह्वाः
MBh 7.154.47
ततो हताश्वादवरुह्य वाहा;दन्तर्मनाः कुरुषु प्राद्रवत्सु
दिव्ये चास्त्रे मायया वध्यमाने; नैवामुह्यच्चिन्तयन्प्राप्तकालम्
MBh 7.154.48
ततोऽब्रुवन्कुरवः सर्व एव; कर्णं दृष्ट्वा घोररूपां च मायाम्
शक्त्या रक्षो जहि कर्णाद्य तूर्णं; नश्यन्त्येते कुरवो धार्तराष्ट्राः
MBh 7.154.49
करिष्यतः किं च नो भीमपार्थौ; तपन्तमेनं जहि रक्षो निशीथे
यो नः संग्रामाद्घोररूपाद्विमुच्ये;त्स नः पार्थान्समरे योधयेत
MBh 7.154.50
तस्मादेनं राक्षसं घोररूपं; जहि शक्त्या दत्तया वासवेन
मा कौरवाः सर्व एवेन्द्रकल्पा; रात्रीमुखे कर्ण नेशुः सयोधाः
MBh 7.154.51
स वध्यमानो रक्षसा वै निशीथे; दृष्ट्वा राजन्नश्यमानं बलं च
महच्च श्रुत्वा निनदं कौरवाणां; मतिं दध्रे शक्तिमोक्षाय कर्णः
MBh 7.154.52
स वै क्रुद्धः सिंह इवात्यमर्षी; नामर्षयत्प्रतिघातं रणे तम्
शक्तिं श्रेष्ठां वैजयन्तीमसह्यां; समाददे तस्य वधं चिकीर्षन्
MBh 7.154.53
यासौ राजन्निहिता वर्षपूगा;न्वधायाजौ सत्कृता फल्गुनस्य
यां वै प्रादात्सूतपुत्राय शक्रः; शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय
MBh 7.154.54
तां वै शक्तिं लेलिहानां प्रदीप्तां; पाशैर्युक्तामन्तकस्येव रात्रिम्
मृत्योः स्वसारं ज्वलितामिवोल्कां; वैकर्तनः प्राहिणोद्राक्षसाय
MBh 7.154.55
तामुत्तमां परकायापहन्त्रीं; दृष्ट्वा सौतेर्बाहुसंस्थां ज्वलन्तीम्
भीतं रक्षो विप्रदुद्राव राज;न्कृत्वात्मानं विन्ध्यपादप्रमाणम्
MBh 7.154.56
दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां; नेदुर्भूतान्यन्तरिक्षे नरेन्द्र
ववुर्वातास्तुमुलाश्चापि राज;न्सनिर्घाता चाशनिर्गां जगाम
MBh 7.154.57
सा तां मायां भस्म कृत्वा ज्वलन्ती; भित्त्वा गाढं हृदयं राक्षसस्य
ऊर्ध्वं ययौ दीप्यमाना निशायां; नक्षत्राणामन्तराण्याविशन्ती
MBh 7.154.58
युद्ध्वा चित्रैर्विविधैः शस्त्रपूगै;र्दिव्यैर्वीरो मानुषै राक्षसैश्च
नदन्नादान्विविधान्भैरवांश्च; प्राणानिष्टांस्त्याजितः शक्रशक्त्या
MBh 7.154.59
इदं चान्यच्चित्रमाश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय
तस्मिन्काले शक्तिनिर्भिन्नमर्मा; बभौ राजन्मेघशैलप्रकाशः
MBh 7.154.60
ततोऽन्तरिक्षादपतद्गतासुः; स राक्षसेन्द्रो भुवि भिन्नदेहः
अवाक्शिराः स्तब्धगात्रो विजिह्वो; घटोत्कचो महदास्थाय रूपम्
MBh 7.154.61
स तद्रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात
हतोऽप्येवं तव सैन्येकदेश;मपोथयत्कौरवान्भीषयाणः
MBh 7.154.62
ततो मिश्राः प्राणदन्सिंहनादै;र्भेर्यः शङ्खा मुरजाश्चानकाश्च
दग्धां मायां निहतं राक्षसं च; दृष्ट्वा हृष्टाः प्राणदन्कौरवेयाः
MBh 7.154.63
ततः कर्णः कुरुभिः पूज्यमानो; यथा शक्रो वृत्रवधे मरुद्भिः
अन्वारूढस्तव पुत्रं रथस्थं; हृष्टश्चापि प्राविशत्स्वं स सैन्यम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 153
- Next chapter · Droṇa-Parva Ch 155 →
Sources and Connected Readings
Continue from these 63 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.154local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷