🪷 Mahābhārata · Droṇa-Parva · Chapter 152
The Book of Droṇa · Parva 7 · 47 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 47 Shlokas
MBh 7.152.1
संजय उवाच
तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे
हर्षमाहारयां चक्रुः कुरवः सर्व एव ते
MBh 7.152.2
तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः
अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम्
MBh 7.152.3
पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा
अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन्
MBh 7.152.4
तस्मिंस्त्वमानुषे युद्धे वर्तमाने भयावहे
कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने
MBh 7.152.5
उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः
तथैव तावका राजन्घूर्णमानास्ततस्ततः
MBh 7.152.6
चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः
तत्कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे
MBh 7.152.7
सर्वमाविग्नमभवद्धाहाभूतमचेतनम्
तव सैन्यं महाराज निराशं कर्णजीविते
MBh 7.152.8
दुर्योधनस्तु संप्रेक्ष्य कर्णमार्तिं परां गतम्
अलायुधं राक्षसेन्द्रमाहूयेदमथाब्रवीत्
MBh 7.152.9
एष वैकर्तनः कर्णो हैडिम्बेन समागतः
कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे
MBh 7.152.10
पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना
नानाशस्त्रैरभिहतान्पादपानिव दन्तिना
MBh 7.152.11
तवैष भागः समरे राजमध्ये मया कृतः
तवैवानुमते वीर तं विक्रम्य निबर्हय
MBh 7.152.12
पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः
मायाबलमुपाश्रित्य कर्शयत्यरिकर्शनः
MBh 7.152.13
एवमुक्तः स राज्ञा तु राक्षसस्तीव्रविक्रमः
तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत्
MBh 7.152.14
ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो
प्रत्यमित्रमुपायान्तं मर्दयामास मार्गणैः
MBh 7.152.15
तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः
मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने
MBh 7.152.16
रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः
अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा
MBh 7.152.17
तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम्
अलायुधेन समरे सिंहेनेव गवां पतिम्
MBh 7.152.18
रथेनादित्यवपुषा भीमः प्रहरतां वरः
किरञ्शरौघान्प्रययावलायुधरथं प्रति
MBh 7.152.19
तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो
घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत्
MBh 7.152.20
तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो
सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत्
MBh 7.152.21
तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः
अभ्यवर्षत कौन्तेयं पुनः पुनररिंदमः
MBh 7.152.22
तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन्
नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः
MBh 7.152.23
स ताड्यमानो बलिभिर्भीमसेनो महाबलः
पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः
MBh 7.152.24
ते वध्यमाना भीमेन राक्षसाः खरयोनयः
विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश
MBh 7.152.25
तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम्
अभिदुद्राव वेगेन शरैश्चैनमवाकिरत्
MBh 7.152.26
तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः
अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे
चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत्
MBh 7.152.27
स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः
गदां चिक्षेप वेगेन वज्रपातोपमां तदा
MBh 7.152.28
तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः
गदया ताडयामास सा गदा भीममाव्रजत्
MBh 7.152.29
स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत्
तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः
MBh 7.152.30
ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः
शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान्
MBh 7.152.31
पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः
न शान्तिं लेभिरे तत्र रक्षसैर्भृशपीडिताः
MBh 7.152.32
तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे
अब्रवीत्पुरुषश्रेष्ठो धनंजयमिदं वचः
MBh 7.152.33
पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम्
पदवीमस्य गच्छ त्वं मा विचारय पाण्डव
MBh 7.152.34
धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ
सहिता द्रौपदेयाश्च कर्णं यान्तु महारथाः
MBh 7.152.35
नकुलः सहदेवश्च युयुधानश्च वीर्यवान्
इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव
MBh 7.152.36
त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम्
वारयस्व नरव्याघ्र महद्धि भयमागतम्
MBh 7.152.37
एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः
जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे
MBh 7.152.38
अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः
धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान्
MBh 7.152.39
हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः
जघान मिषतः संख्ये भीमसेनस्य भारत
MBh 7.152.40
सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः
तस्मै गुर्वीं गदां घोरां स विनद्योत्ससर्ज ह
MBh 7.152.41
ततस्तां भीमनिर्घोषामापतन्तीं महागदाम्
गदया राक्षसो घोरो निजघान ननाद च
MBh 7.152.42
तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम्
भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत्
MBh 7.152.43
तयोः समभवद्युद्धं तुमुलं नररक्षसोः
गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम्
MBh 7.152.44
गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम्
मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः
MBh 7.152.45
रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः
यथासन्नमुपादाय निजघ्नतुरमर्षणौ
MBh 7.152.46
तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम्
मत्ताविव महानागावकृष्येतां पुनः पुनः
MBh 7.152.47
तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः
स भीमसेनरक्षार्थं हैडिम्बं प्रत्यचोदयत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 151
- Next chapter · Droṇa-Parva Ch 153 →
Sources and Connected Readings
Continue from these 47 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.152local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷