🪷 Mahābhārata · Droṇa-Parva · Chapter 151

The Book of Droṇa · Parva 7 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 7.151.1
संजय उवाच तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत
MBh 7.151.2
महत्या सेनया युक्तः सुयोधनमुपागमत् राक्षसानां विरूपाणां सहस्रैः परिवारितः नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन्
MBh 7.151.3
तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः किर्मीरश्च महातेजा हिडिम्बश्च सखा तथा
MBh 7.151.4
स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन् विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे
MBh 7.151.5
स मत्त इव मातङ्गः संक्रुद्ध इव चोरगः दुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः
MBh 7.151.6
विदितं ते महाराज यथा भीमेन राक्षसाः हिडिम्बबककिर्मीरा निहता मम बान्धवाः
MBh 7.151.7
परामर्शश्च कन्याया हिडिम्बायाः कृतः पुरा किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह
MBh 7.151.8
तमहं सगणं राजन्सवाजिरथकुञ्जरम् हैडिम्बं च सहामात्यं हन्तुमभ्यागतः स्वयम्
MBh 7.151.9
अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान् हत्वा संभक्षयिष्यामि सर्वैरनुचरैः सह निवारय बलं सर्वं वयं योत्स्याम पाण्डवान्
MBh 7.151.10
तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः
MBh 7.151.11
त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान् न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः
MBh 7.151.12
एवमस्त्विति राजानमुक्त्वा राक्षसपुंगवः अभ्ययात्त्वरितो भीमं सहितः पुरुषाशनैः
MBh 7.151.13
दीप्यमानेन वपुषा रथेनादित्यवर्चसा तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः
MBh 7.151.14
तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः
MBh 7.151.15
तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः शतं युक्ता महाकाया मांसशोणितभोजनाः
MBh 7.151.16
तस्यापि रथनिर्घोषो महामेघरवोपमः तस्यापि सुमहच्चापं दृढज्यं बलवत्तरम्
MBh 7.151.17
तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः
MBh 7.151.18
तस्यापि गोमायुबडाभिगुप्तो; बभूव केतुर्ज्वलनार्कतुल्यः स चापि रूपेण घटोत्कचस्य; श्रीमत्तमो व्याकुलदीपितास्यः
MBh 7.151.19
दीप्ताङ्गदो दीप्तकिरीटमाली; बद्धस्रगुष्णीषनिबद्धखड्गः गदी भुशुण्डी मुसली हली च; शरासनी वारणतुल्यवर्ष्मा
MBh 7.151.20
रथेन तेनानलवर्चसा च; विद्रावयन्पाण्डववाहिनीं ताम् रराज संख्ये परिवर्तमानो; विद्युन्माली मेघ इवान्तरिक्षे
MBh 7.151.21
ते चापि सर्वे प्रवरा नरेन्द्रा; महाबला वर्मिणश्चर्मिणश्च हर्षान्विता युयुधुस्तत्र राज;न्समन्ततः पाण्डवयोधवीराः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.151local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷