🪷 Mahābhārata · Droṇa-Parva · Chapter 150

The Book of Droṇa · Parva 7 · 106 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 106 Shlokas

MBh 7.150.1
धृतराष्ट्र उवाच यत्र वैकर्तनः कर्णो राक्षसश्च घटोत्कचः निशीथे समसज्जेतां तद्युद्धमभवत्कथम्
MBh 7.150.2
कीदृशं चाभवद्युद्धं तस्य घोरस्य रक्षसः रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च
MBh 7.150.3
किंप्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम् पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि संजय
MBh 7.150.4
संजय उवाच लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः
MBh 7.150.5
आकर्णाद्दारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः
MBh 7.150.6
नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयंकरः महाकायो महाबाहुर्महाशीर्षो महाबलः
MBh 7.150.7
विकचः परुषस्पर्शो विकटोद्बद्धपिण्डिकः स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान्
MBh 7.150.8
तथैव हस्ताभरणी महामायोऽङ्गदी तथा उरसा धारयन्निष्कमग्निमालां यथाचलः
MBh 7.150.9
तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम् तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत
MBh 7.150.10
कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् धारयन्विपुलं कांस्यं कवचं च महाप्रभम्
MBh 7.150.11
किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम्
MBh 7.150.12
सर्वायुधवरोपेतमास्थितो ध्वजमालिनम् अष्टचक्रसमायुक्तं मेघगम्भीरनिस्वनम्
MBh 7.150.13
तत्र मातङ्गसंकाशा लोहिताक्षा विभीषणाः कामवर्णजवा युक्ता बलवन्तोऽवहन्हयाः
MBh 7.150.14
राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः रश्मिभिः सूर्यरश्म्याभैः संजग्राह हयान्रणे स तेन सहितस्तस्थावरुणेन यथा रविः
MBh 7.150.15
संसक्त इव चाभ्रेण यथाद्रिर्महता महान् दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः
MBh 7.150.16
वासवाशनिनिर्घोषं दृढज्यमभिविक्षिपन् व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम्
MBh 7.150.17
रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात्
MBh 7.150.18
तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः
MBh 7.150.19
तेन वित्रास्यमानानि तव सैन्यानि भारत समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः
MBh 7.150.20
तमापतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम् उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत्
MBh 7.150.21
ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम्
MBh 7.150.22
स संनिपातस्तुमुलस्तयोरासीद्विशां पते कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव
MBh 7.150.23
तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः
MBh 7.150.24
ततः पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी
MBh 7.150.25
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः
MBh 7.150.26
संछिन्दन्तौ हि गात्राणि संदधानौ च सायकान् धक्ष्यमाणौ शरव्रातैर्नोदीक्षितुमशक्नुताम्
MBh 7.150.27
तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ व्यभ्राजेतां यथा वारिप्रस्रुतौ गैरिकाचलौ
MBh 7.150.28
तौ शराग्रविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम् नाकम्पयेतामन्योन्यं यतमानौ महाद्युती
MBh 7.150.29
तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत् प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे
MBh 7.150.30
तस्य संदधतस्तीक्ष्णाञ्शरांश्चासक्तमस्यतः धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन् घटोत्कचं यदा कर्णो विशेषयति नो नृप
MBh 7.150.31
ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः कर्णेन विहितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः प्रादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः
MBh 7.150.32
शूलमुद्गरधारिण्या शैलपादपहस्तया रक्षसां घोररूपाणां महत्या सेनया वृतः
MBh 7.150.33
तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम्
MBh 7.150.34
घटोत्कचप्रमुक्तेन सिंहनादेन भीषिताः प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम्
MBh 7.150.35
ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः
MBh 7.150.36
आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा
MBh 7.150.37
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः
MBh 7.150.38
तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम्
MBh 7.150.39
मायायां तु प्रहीणायाममर्षात्स घटोत्कचः विससर्ज शरान्घोरान्सूतपुत्रं त आविशन्
MBh 7.150.40
ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे विविशुर्धरणीं बाणाः संक्रुद्धा इव पन्नगाः
MBh 7.150.41
सूतपुत्रस्तु संक्रुद्धो लघुहस्तः प्रतापवान् घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः
MBh 7.150.42
घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम्
MBh 7.150.43
क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया
MBh 7.150.44
प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः अभाग्यस्येव संकल्पस्तन्मोघमपतद्भुवि
MBh 7.150.45
घटोत्कचस्तु संक्रुद्धो दृष्ट्वा चक्रं निपातितम् कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम्
MBh 7.150.46
सूतपुत्रस्त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः घटोत्कचरथं तूर्णं छादयामास पत्रिभिः
MBh 7.150.47
घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा क्षिप्ता भ्राम्य शरैः सापि कर्णेनाभ्याहतापतत्
MBh 7.150.48
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात्
MBh 7.150.49
ततो मायाविनं कर्णो भीमसेनसुतं दिवि मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः
MBh 7.150.50
तस्य सर्वान्हयान्हत्वा संछिद्य शतधा रथम् अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान्
MBh 7.150.51
न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा
MBh 7.150.52
न हयान्न रथं तस्य न ध्वजं न घटोत्कचम् दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम्
MBh 7.150.53
स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन् मायायुद्धेन मायावी सूतपुत्रमयोधयत्
MBh 7.150.54
सोऽयोधयत्तदा कर्णं मायया लाघवेन च अलक्ष्यमाणोऽथ दिवि शरजालेषु संपतन्
MBh 7.150.55
भैमसेनिर्महामायो मायया कुरुसत्तम प्रचकार महामायां मोहयन्निव भारत
MBh 7.150.56
स स्म कृत्वा विरूपाणि वदनान्यशुभाननः अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया
MBh 7.150.57
पुनश्चापि महाकायः संछिन्नः शतधा रणे गतसत्त्वो निरुत्साहः पतितः खाद्व्यदृश्यत हतं तं मन्यमानाः स्म प्राणदन्कुरुपुंगवाः
MBh 7.150.58
अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत पुनश्चापि महाकायः शतशीर्षः शतोदरः
MBh 7.150.59
व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः सागरोर्मिरिवोद्धूतस्तिर्यगूर्ध्वमवर्तत
MBh 7.150.60
वसुधां दारयित्वा च पुनरप्सु न्यमज्जत अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः
MBh 7.150.61
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते क्षितिं द्यां च दिशश्चैव माययावृत्य दंशितः
MBh 7.150.62
गत्वा कर्णरथाभ्याशं विचलत्कुण्डलाननः प्राह वाक्यमसंभ्रान्तः सूतपुत्रं विशां पते
MBh 7.150.63
तिष्ठेदानीं न मे जीवन्सूतपुत्र गमिष्यसि युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे
MBh 7.150.64
इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् उत्पपातान्तरिक्षं च जहास च सुविस्वरम् कर्णमभ्याहनच्चैव गजेन्द्रमिव केसरी
MBh 7.150.65
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः रथिनामृषभं कर्णं धाराभिरिव तोयदः शरवृष्टिं च तां कर्णो दूरप्राप्तामशातयत्
MBh 7.150.66
दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः
MBh 7.150.67
सोऽभवद्गिरिरित्युच्चः शिखरैस्तरुसंकटैः शूलप्रासासिमुसलजलप्रस्रवणो महान्
MBh 7.150.68
तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम् प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे
MBh 7.150.69
स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदीरयत् ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत
MBh 7.150.70
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत्
MBh 7.150.71
अथ संधाय वायव्यमस्त्रमस्त्रविदां वरः व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषा
MBh 7.150.72
स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः जघानास्त्रं महाराज घटोत्कचसमीरितम्
MBh 7.150.73
ततः प्रहस्य समरे भैमसेनिर्महाबलः प्रादुश्चक्रे महामायां कर्णं प्रति महारथम्
MBh 7.150.74
स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम् घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम्
MBh 7.150.75
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा
MBh 7.150.76
नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम्
MBh 7.150.77
घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः ननाद भैरवं नादं भीषयन्सर्वपार्थिवान्
MBh 7.150.78
भूयश्चाञ्जलिकेनाथ समार्गणगणं महत् कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः
MBh 7.150.79
अथान्यद्धनुरादाय दृढं भारसहं महत् व्यकर्षत बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम्
MBh 7.150.80
ततः कर्णो महाराज प्रेषयामास सायकान् सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्राक्षसान्प्रति
MBh 7.150.81
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम्
MBh 7.150.82
विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः ददाह भगवान्वह्निर्भूतानीव युगक्षये
MBh 7.150.83
स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः
MBh 7.150.84
तेषु राजसहस्रेषु पाण्डवेयेषु मारिष नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव
MBh 7.150.85
ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात् भीमवीर्यबलोपेतात्क्रुद्धाद्वैवस्वतादिव
MBh 7.150.86
तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत महोल्काभ्यां यथा राजन्सार्चिषः स्नेहबिन्दवः
MBh 7.150.87
तलं तलेन संहत्य संदश्य दशनच्छदम् रथमास्थाय च पुनर्मायया निर्मितं पुनः
MBh 7.150.88
युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मा वह
MBh 7.150.89
स ययौ घोररूपेण रथेन रथिनां वरः द्वैरथं सूतपुत्रेण पुनरेव विशां पते
MBh 7.150.90
स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम्
MBh 7.150.91
तामवप्लुत्य जग्राह कर्णो न्यस्य रथे धनुः चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे
MBh 7.150.92
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः
MBh 7.150.93
कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा यदवप्लुत्य जग्राह देवसृष्टां महाशनिम्
MBh 7.150.94
एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः ततो मुमोच नाराचान्सूतपुत्रः परंतपः
MBh 7.150.95
अशक्यं कर्तुमन्येन सर्वभूतेषु मानद यदकार्षीत्तदा कर्णः संग्रामे भीमदर्शने
MBh 7.150.96
स हन्यमानो नाराचैर्धाराभिरिव पर्वतः गन्धर्वनगराकारः पुनरन्तरधीयत
MBh 7.150.97
एवं स वै महामायो मायया लाघवेन च अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः
MBh 7.150.98
निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा असंभ्रान्तस्ततः कर्णस्तद्रक्षः प्रत्ययुध्यत
MBh 7.150.99
ततः क्रुद्धो महाराज भैमसेनिर्महाबलः चकार बहुधात्मानं भीषयाणो नराधिपान्
MBh 7.150.100
ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः
MBh 7.150.101
स कीर्यमाणो निशितैः कर्णचापच्युतैः शरैः नगराद्रिवनप्रख्यस्तत्रैवान्तरधीयत
MBh 7.150.102
राक्षसाश्च पिशाचाश्च यातुधानाः शलावृकाः ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन् अथैनं वाग्भिरुग्राभिस्त्रासयां चक्रिरे तदा
MBh 7.150.103
उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः तेषामनेकैरेकैकं कर्णो विव्याध चाशुगैः
MBh 7.150.104
प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् आजघान हयानस्य शरैः संनतपर्वभिः
MBh 7.150.105
ते भग्ना विकृताङ्गाश्च छिन्नपृष्ठाश्च सायकैः वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः
MBh 7.150.106
स भग्नमायो हैडिम्बः कर्णं वैकर्तनं ततः एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 106 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.150local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷