🪷 Mahābhārata · Droṇa-Parva · Chapter 142
The Book of Droṇa · Parva 7 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 44 Shlokas
MBh 7.142.1
संजय उवाच
सहदेवमथायान्तं द्रोणप्रेप्सुं विशां पते
कर्णो वैकर्तनो युद्धे वारयामास भारत
MBh 7.142.2
सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः
पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः
MBh 7.142.3
तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम्
सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत्
MBh 7.142.4
ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान्
कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत्
MBh 7.142.5
तस्य कर्णो हयान्हत्वा शरैः संनतपर्वभिः
सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम्
MBh 7.142.6
विरथः सहदेवस्तु खड्गं चर्म समाददे
तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव
MBh 7.142.7
ततो गुर्वीं महाघोरां हेमचित्रां महागदाम्
प्रेषयामास समरे वैकर्तनरथं प्रति
MBh 7.142.8
तामापतन्तीं सहसा सहदेवप्रवेरिताम्
व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत्
MBh 7.142.9
गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः
शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः
MBh 7.142.10
ससंभ्रमस्ततस्तूर्णमवप्लुत्य रथोत्तमात्
सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम्
रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति
MBh 7.142.11
तमापतन्तं सहसा कालचक्रमिवोद्यतम्
शरैरनेकसाहस्रैरच्छिनत्सूतनन्दनः
MBh 7.142.12
तस्मिंस्तु वितथे चक्रे कृते तेन महात्मना
वार्यमाणश्च विशिखैः सहदेवो रणं जहौ
MBh 7.142.13
तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ
अब्रवीत्प्रहसन्वाक्यं सहदेवं विशां पते
MBh 7.142.14
मा युध्यस्व रणे वीर विशिष्टै रथिभिः सह
सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः
MBh 7.142.15
अथैनं धनुषोऽग्रेण तुदन्भूयोऽब्रवीद्वचः
एषोऽर्जुनो रणे यत्तो युध्यते कुरुभिः सह
तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे
MBh 7.142.16
एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः
प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रहसन्निव
MBh 7.142.17
वधप्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा
कुन्त्याः स्मृत्वा वचो राजन्सत्यसंधो महारथः
MBh 7.142.18
सहदेवस्ततो राजन्विमनाः शरपीडितः
कर्णवाक्शल्यतप्तश्च जीवितान्निरविद्यत
MBh 7.142.19
आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः
जनमेजयस्य समरे त्वरायुक्तो महारथः
MBh 7.142.20
विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम्
मद्रराजः शरौघेण छादयामास धन्विनम्
MBh 7.142.21
तयोः समभवद्युद्धं समरे दृढधन्विनोः
यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा
MBh 7.142.22
मद्रराजो महाराज विराटं वाहिनीपतिम्
आजघ्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम्
MBh 7.142.23
प्रतिविव्याध तं राजा नवभिर्निशितैः शरैः
पुनश्चैव त्रिसप्तत्या भूयश्चैव शतेन ह
MBh 7.142.24
तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः
सूतं ध्वजं च समरे रथोपस्थादपातयत्
MBh 7.142.25
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः
तस्थौ विस्फारयंश्चापं विमुञ्चंश्च शिताञ्शरान्
MBh 7.142.26
शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम्
रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः
MBh 7.142.27
शतानीकमथायान्तं मद्रराजो महामृधे
विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम्
MBh 7.142.28
तस्मिंस्तु निहते वीरे विराटो रथसत्तमः
आरुरोह रथं तूर्णं तमेव ध्वजमालिनम्
MBh 7.142.29
ततो विस्फार्य नयने क्रोधाद्द्विगुणविक्रमः
मद्रराजरथं तूर्णं छादयामास पत्रिभिः
MBh 7.142.30
ततो मद्राधिपः क्रुद्धः शतेन नतपर्वणाम्
आजघानोरसि दृढं विराटं वाहिनीपतिम्
MBh 7.142.31
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्
कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ
सारथिस्तमपोवाह समरे शरविक्षतम्
MBh 7.142.32
ततः सा महती सेना प्राद्रवन्निशि भारत
वध्यमाना शरशतैः शल्येनाहवशोभिना
MBh 7.142.33
तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनंजयौ
प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः
MBh 7.142.34
तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलम्बुसः
अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम्
MBh 7.142.35
तुरंगममुखैर्युक्तं पिशाचैर्घोरदर्शनैः
लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम्
कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत्
MBh 7.142.36
रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता
ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता
MBh 7.142.37
स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः
रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट्
किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि
MBh 7.142.38
अतितीव्रमभूद्युद्धं नरराक्षसयोर्मृधे
द्रष्टॄणां प्रीतिजननं सर्वेषां भरतर्षभ
MBh 7.142.39
तमर्जुनः शतेनैव पत्रिणामभ्यताडयत्
नवभिश्च शितैर्बाणैश्चिच्छेद ध्वजमुच्छ्रितम्
MBh 7.142.40
सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम्
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान्
विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत्
MBh 7.142.41
अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ
पार्थोऽर्दयद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात्
MBh 7.142.42
तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ
किरञ्शरगणान्राजन्नरवारणवाजिषु
MBh 7.142.43
वध्यमाना महाराज पाण्डवेन यशस्विना
सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः
MBh 7.142.44
तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना
संप्राद्रवद्बलं सर्वं पुत्राणां ते विशां पते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 141
- Next chapter · Droṇa-Parva Ch 143 →
Sources and Connected Readings
Continue from these 44 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.142local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷