🪷 Mahābhārata · Droṇa-Parva · Chapter 141

The Book of Droṇa · Parva 7 · 61 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 61 Shlokas

MBh 7.141.1
संजय उवाच भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम् आपतन्तमपासेधत्प्रपानादिव कुञ्जरम्
MBh 7.141.2
अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः विव्याध हृदये तूर्णं प्रास्रवत्तस्य शोणितम्
MBh 7.141.3
तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् दशभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे
MBh 7.141.4
तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके
MBh 7.141.5
तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः
MBh 7.141.6
तावन्योन्यं शरै राजन्प्रच्छाद्य समरे स्थितौ मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत्
MBh 7.141.7
ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः
MBh 7.141.8
अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्
MBh 7.141.9
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत
MBh 7.141.10
स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशां पते धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव
MBh 7.141.11
छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः प्रजहार महावेगां शक्तिं तस्य महोरसि
MBh 7.141.12
स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया
MBh 7.141.13
तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः अभ्यधावत वेगेन शैनेयं प्रति संयुगे अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः
MBh 7.141.14
तमापतन्तं संरब्धं शैनेयस्य रथं प्रति घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः
MBh 7.141.15
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि एष त्वाद्य हनिष्यामि महिषं स्कन्दराडिव युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे
MBh 7.141.16
इत्युक्त्वा रोषताम्राक्षो राक्षसः परवीरहा द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी
MBh 7.141.17
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः रथिनामृषभं द्रौणिं धाराभिरिव तोयदः
MBh 7.141.18
शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः शातयामास समरे तरसा द्रौणिरुत्स्मयन्
MBh 7.141.19
ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिंदम
MBh 7.141.20
स शरैराचितस्तेन राक्षसो रणमूर्धनि व्यकाशत महाराज श्वाविच्छललितो यथा
MBh 7.141.21
ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान् शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिस्वनैः
MBh 7.141.22
क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः वराहकर्णैर्नालीकैस्तीक्ष्णैश्चापि विकर्णिभिः
MBh 7.141.23
तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम् पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः
MBh 7.141.24
सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः व्यधमत्स महातेजा महाभ्राणीव मारुतः
MBh 7.141.25
ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत् घोररूपो महाराज योधानां हर्षवर्धनः
MBh 7.141.26
ततोऽस्त्रसंघर्षकृतैर्विस्फुलिङ्गैः समन्ततः बभौ निशामुखे व्योम खद्योतैरिव संवृतम्
MBh 7.141.27
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत्
MBh 7.141.28
ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे विगाढे रजनीमध्ये शक्रप्रह्रादयोरिव
MBh 7.141.29
ततो घटोत्कचो बाणैर्दशभिर्द्रौणिमाहवे जघानोरसि संक्रुद्धः कालज्वलनसंनिभैः
MBh 7.141.30
स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः स मोहमनुसंप्राप्तो ध्वजयष्टिं समाश्रितः
MBh 7.141.31
ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप हतं स्म मेनिरे सर्वे तावकास्तं विशां पते
MBh 7.141.32
तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे पाञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे
MBh 7.141.33
प्रतिलभ्य ततः संज्ञामश्वत्थामा महाबलः धनुः प्रपीड्य वामेन करेणामित्रकर्शनः
MBh 7.141.34
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम्
MBh 7.141.35
स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः विवेश वसुधामुग्रः सुपुङ्खः पृथिवीपते
MBh 7.141.36
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् राक्षसेन्द्रः सुबलवान्द्रौणिना रणमानिना
MBh 7.141.37
दृष्ट्वा विमूढं हैडिम्बं सारथिस्तं रणाजिरात् द्रौणेः सकाशात्संभ्रान्तस्त्वपनिन्ये त्वरान्वितः
MBh 7.141.38
तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम् ननाद सुमहानादं द्रोणपुत्रो महाबलः
MBh 7.141.39
पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत वपुषा प्रतिजज्वाल मध्याह्न इव भास्करः
MBh 7.141.40
भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः
MBh 7.141.41
तं भीमसेनो नवभिः शरैर्विव्याध मारिष दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत
MBh 7.141.42
तौ सायकैरवच्छन्नावदृश्येतां रणाजिरे मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ
MBh 7.141.43
अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः पञ्चभिर्भरतश्रेष्ठ तिष्ठ तिष्ठेति चाब्रवीत्
MBh 7.141.44
तस्य भीमो धनुश्छित्त्वा ध्वजं च नवभिः शरैः विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम्
MBh 7.141.45
ततो दुर्योधनः क्रुद्धो भीमसेनस्य मारिष चिक्षेप स शरान्राजन्पश्यतां सर्वधन्विनाम्
MBh 7.141.46
तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान् कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्
MBh 7.141.47
दुर्योधनस्तु संक्रुद्धो भीमसेनस्य मारिष क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत
MBh 7.141.48
अथान्यद्धनुरादाय भीमसेनो महाबलः विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः
MBh 7.141.49
तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत् द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा
MBh 7.141.50
आत्तमात्तं महाराज भीमस्य धनुराच्छिनत् तव पुत्रो महाराज जितकाशी मदोत्कटः
MBh 7.141.51
स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम्
MBh 7.141.52
अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः पश्यतः सर्वलोकस्य भीमस्य च महात्मनः
MBh 7.141.53
ततो भीमो महाराज गदां गुर्वीं महाप्रभाम् चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति
MBh 7.141.54
ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे सारथिं च गदा गुर्वी ममर्द भरतर्षभ
MBh 7.141.55
पुत्रस्तु तव राजेन्द्र रथाद्धेमपरिष्कृतात् आप्लुतः सहसा यानं नन्दकस्य महात्मनः
MBh 7.141.56
ततो भीमो हतं मत्वा तव पुत्रं महारथम् सिंहनादं महच्चक्रे तर्जयन्निव कौरवान्
MBh 7.141.57
तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम् ततो विचुक्रुशुः सर्वे हा हेति च समन्ततः
MBh 7.141.58
तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम् भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः
MBh 7.141.59
ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम् अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः
MBh 7.141.60
पाञ्चालाः केकया मत्स्याः सृञ्जयाश्च विशां पते सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युयुत्सया
MBh 7.141.61
तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह घोरे तमसि मग्नानां निघ्नतामितरेतरम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 61 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.141local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷