🪷 Mahābhārata · Droṇa-Parva · Chapter 143

The Book of Droṇa · Parva 7 · 42 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 42 Shlokas

MBh 7.143.1
संजय उवाच शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव चित्रसेनस्तव सुतो वारयामास भारत
MBh 7.143.2
नाकुलिश्चित्रसेनं तु नाराचेनार्दयद्भृशम् स च तं प्रतिविव्याध दशभिर्निशितैः शरैः
MBh 7.143.3
चित्रसेनो महाराज शतानीकं पुनर्युधि नवभिर्निशितैर्बाणैराजघान स्तनान्तरे
MBh 7.143.4
नाकुलिस्तस्य विशिखैर्वर्म संनतपर्वभिः गात्रात्संच्यावयामास तदद्भुतमिवाभवत्
MBh 7.143.5
सोऽपेतवर्मा पुत्रस्ते विरराज भृशं नृप उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः
MBh 7.143.6
ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः धनुश्चैव महाराज यतमानस्य संयुगे
MBh 7.143.7
स छिन्नधन्वा समरे विवर्मा च महारथः धनुरन्यन्महाराज जग्राहारिविदारणम्
MBh 7.143.8
ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः विव्याध समरे क्रुद्धो भरतानां महारथः
MBh 7.143.9
शतानीकोऽथ संक्रुद्धश्चित्रसेनस्य मारिष जघान चतुरो वाहान्सारथिं च नरोत्तमः
MBh 7.143.10
अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली
MBh 7.143.11
तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम्
MBh 7.143.12
स छिन्नधन्वा विरथो हताश्वो हतसारथिः आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः
MBh 7.143.13
द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम् वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा
MBh 7.143.14
यज्ञसेनस्तु समरे कर्णपुत्रं महारथम् षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ
MBh 7.143.15
वृषसेनस्तु संक्रुद्धो यज्ञसेनं रथे स्थितम् बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे
MBh 7.143.16
तावुभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे व्यभ्राजेतां महाराज श्वाविधौ शललैरिव
MBh 7.143.17
रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे
MBh 7.143.18
तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे
MBh 7.143.19
वृषसेनस्ततो राजन्नवभिर्द्रुपदं शरैः विद्ध्वा विव्याध सप्तत्या पुनश्चान्यैस्त्रिभिः शरैः
MBh 7.143.20
ततः शरसहस्राणि विमुञ्चन्विबभौ तदा कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः
MBh 7.143.21
ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम् संप्राद्रवद्रणे राजन्निशीथे भैरवे सति
MBh 7.143.22
प्रदीपैर्हि परित्यक्तैर्ज्वलद्भिस्तैः समन्ततः व्यराजत मही राजन्वीताभ्रा द्यौरिव ग्रहैः
MBh 7.143.23
तथाङ्गदैर्निपतितैर्व्यराजत वसुंधरा प्रावृट्काले महाराज विद्युद्भिरिव तोयदः
MBh 7.143.24
ततः कर्णसुतत्रस्ताः सोमका विप्रदुद्रुवुः यथेन्द्रभयवित्रस्ता दानवास्तारकामये
MBh 7.143.25
तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः व्यराजन्त महाराज प्रदीपैरवभासिताः
MBh 7.143.26
तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत मध्यंदिनमनुप्राप्तो घर्मांशुरिव भारत
MBh 7.143.27
तेषु राजसहस्रेषु तावकेषु परेषु च एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान्
MBh 7.143.28
स विजित्य रणे शूरान्सोमकानां महारथान् जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः
MBh 7.143.29
प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून् दुःशासनस्तव सुतः प्रत्युद्गच्छन्महारथः
MBh 7.143.30
तयोः समागमो राजंश्चित्ररूपो बभूव ह व्यपेतजलदे व्योम्नि बुधभार्गवयोरिव
MBh 7.143.31
प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम् दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत
MBh 7.143.32
सोऽतिविद्धो बलवता पुत्रेण तव धन्विना विरराज महाबाहुः सशृङ्ग इव पर्वतः
MBh 7.143.33
दुःशासनं तु समरे प्रतिविन्ध्यो महारथः नवभिः सायकैर्विद्ध्वा पुनर्विव्याध सप्तभिः
MBh 7.143.34
तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम् प्रतिविन्ध्यहयानुग्रैः पातयामास यच्छरैः
MBh 7.143.35
सारथिं चास्य भल्लेन ध्वजं च समपातयत् रथं च शतशो राजन्व्यधमत्तस्य धन्विनः
MBh 7.143.36
पताकाश्च स तूणीरान्रश्मीन्योक्त्राणि चाभिभो चिच्छेद तिलशः क्रुद्धः शरैः संनतपर्वभिः
MBh 7.143.37
विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः अयोधयत्तव सुतं किरञ्शरशतान्बहून्
MBh 7.143.38
क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत् अथैनं दशभिर्भल्लैश्छिन्नधन्वानमार्दयत्
MBh 7.143.39
तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः अन्ववर्तन्त वेगेन महत्या सेनया सह
MBh 7.143.40
आप्लुतः स ततो यानं सुतसोमस्य भास्वरम् धनुर्गृह्य महाराज विव्याध तनयं तव
MBh 7.143.41
ततस्तु तावकाः सर्वे परिवार्य सुतं तव अभ्यवर्तन्त संग्रामे महत्या सेनया वृताः
MBh 7.143.42
ततः प्रववृते युद्धं तव तेषां च भारत निशीथे दारुणे काले यमराष्ट्रविवर्धनम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 42 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.143local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷