🪷 Mahābhārata · Droṇa-Parva · Chapter 103
The Book of Droṇa · Parva 7 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 49 Shlokas
MBh 7.103.1
संजय उवाच
तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा
दिधारयिषुराचार्यः शरवर्षैरवाकिरत्
MBh 7.103.2
पिबन्निव शरौघांस्तान्द्रोणचापवरातिगान्
सोऽभ्यवर्तत सोदर्यान्मायया मोहयन्बलम्
MBh 7.103.3
तं मृधे वेगमास्थाय परं परमधन्विनः
चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन्
MBh 7.103.4
स तथा संवृतो भीमः प्रहसन्निव भारत
उदयच्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन्
अवासृजच्च वेगेन तेषु तान्प्रमथद्बली
MBh 7.103.5
सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना
घोषेण महता राजन्पूरयित्वेव मेदिनीम्
ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान्
MBh 7.103.6
तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम्
प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान्
MBh 7.103.7
तं च शब्दमसंसह्यं तस्याः संलक्ष्य मारिष
प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा
MBh 7.103.8
स तान्विद्राव्य कौन्तेयः संख्येऽमित्रान्दुरासदः
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम्
MBh 7.103.9
तथा तं विप्रकुर्वाणं रथयूथपयूथपम्
भारद्वाजो महाराज भीमसेनं समभ्ययात्
MBh 7.103.10
द्रोणस्तु समरे भीमं वारयित्वा शरोर्मिभिः
अकरोत्सहसा नादं पाण्डूनां भयमादधत्
MBh 7.103.11
तद्युद्धमासीत्सुमहद्घोरं देवासुरोपमम्
द्रोणस्य च महाराज भीमस्य च महात्मनः
MBh 7.103.12
यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः
वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः
MBh 7.103.13
ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः
निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात्
MBh 7.103.14
यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया
तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत्
MBh 7.103.15
स वध्यमानः समरे रथं द्रोणस्य मारिष
ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः
MBh 7.103.16
द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे
रथमन्यं समास्थाय व्यूहद्वारमुपाययौ
MBh 7.103.17
तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत्
भीमसेनस्य कौरव्य तदद्भुतमिवाभवत्
MBh 7.103.18
ततः स्वरथमास्थाय भीमसेनो महाबलः
अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम्
MBh 7.103.19
स मृद्नन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः
अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव
MBh 7.103.20
भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम्
प्रमथ्य बहुधा राजन्भीमसेनः समभ्ययात्
MBh 7.103.21
संत्रासयन्ननीकानि तलशब्देन मारिष
अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान्
MBh 7.103.22
भोजानीकमतिक्रम्य काम्बोजानां च वाहिनीम्
तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान्
MBh 7.103.23
सात्यकिं चापि संप्रेक्ष्य युध्यमानं नरर्षभम्
रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा
MBh 7.103.24
भीमसेनो महाराज द्रष्टुकामो धनंजयम्
अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः
MBh 7.103.25
सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम्
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी
MBh 7.103.26
अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान्
तं तु तस्य महानादं पार्थः शुश्राव नर्दतः
MBh 7.103.27
ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव
MBh 7.103.28
वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः
पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम्
MBh 7.103.29
भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः
अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः
MBh 7.103.30
विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत्
धनंजयस्य च रणे जयमाशास्तवान्विभुः
MBh 7.103.31
तथा तु नर्दमाने वै भीमसेने रणोत्कटे
स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः
MBh 7.103.32
हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः
दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा
MBh 7.103.33
न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव
दिष्ट्या जीवति संग्रामे सव्यसाची धनंजयः
MBh 7.103.34
दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः
दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनंजयौ
MBh 7.103.35
येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः
स हन्ता द्विषतां संख्ये दिष्ट्या जीवति फल्गुनः
MBh 7.103.36
यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः
स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः
MBh 7.103.37
निवातकवचा येन देवैरपि सुदुर्जयाः
निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति
MBh 7.103.38
कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान्
योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति
MBh 7.103.39
कालकेयसहस्राणि चतुर्दश महारणे
योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति
MBh 7.103.40
गन्धर्वराजं बलिनं दुर्योधनकृतेन वै
जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति
MBh 7.103.41
किरीटमाली बलवाञ्श्वेताश्वः कृष्णसारथिः
मम प्रियश्च सततं दिष्ट्या जीवति फल्गुनः
MBh 7.103.42
पुत्रशोकाभिसंतप्तश्चिकीर्षुः कर्म दुष्करम्
जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः
कच्चित्स सैन्धवं संख्ये हनिष्यति धनंजयः
MBh 7.103.43
कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम्
अनस्तमित आदित्ये समेष्याम्यहमर्जुनम्
MBh 7.103.44
कच्चित्सैन्धवको राजा दुर्योधनहिते रतः
नन्दयिष्यत्यमित्राणि फल्गुनेन निपातितः
MBh 7.103.45
कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम्
दृष्ट्वा सैन्धवकं संख्ये शममस्मासु धास्यति
MBh 7.103.46
दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे
कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति
MBh 7.103.47
दृष्ट्वा चान्यान्बहून्योधान्पातितान्धरणीतले
कच्चिद्दुर्योधनो मन्दः पश्चात्तापं करिष्यति
MBh 7.103.48
कच्चिद्भीष्मेण नो वैरमेकेनैव प्रशाम्यति
शेषस्य रक्षणार्थं च संधास्यति सुयोधनः
MBh 7.103.49
एवं बहुविधं तस्य चिन्तयानस्य पार्थिव
कृपयाभिपरीतस्य घोरं युद्धमवर्तत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 102
- Next chapter · Droṇa-Parva Ch 104 →
Sources and Connected Readings
Continue from these 49 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.103local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷