🪷 Mahābhārata · Droṇa-Parva · Chapter 102
The Book of Droṇa · Parva 7 · 105 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 105 Shlokas
MBh 7.102.1
संजय उवाच
व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः
सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः
MBh 7.102.2
वर्तमाने तथा रौद्रे संग्रामे लोमहर्षणे
प्रक्षये जगतस्तीव्रे युगान्त इव भारत
MBh 7.102.3
द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः
पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु
MBh 7.102.4
नापश्यच्छरणं किंचिद्धर्मराजो युधिष्ठिरः
चिन्तयामास राजेन्द्र कथमेतद्भविष्यति
MBh 7.102.5
तत्रावेक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया
युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम्
MBh 7.102.6
सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम्
गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः
MBh 7.102.7
अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम्
चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः
नाध्यगच्छत्तदा शान्तिं तावपश्यन्नरर्षभौ
MBh 7.102.8
लोकोपक्रोशभीरुत्वाद्धर्मराजो महायशाः
अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति
MBh 7.102.9
पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे
शैनेयः सात्यकिः सत्यो मित्राणामभयंकरः
MBh 7.102.10
तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै
सात्यकिश्च हि मे ज्ञेयः पाण्डवश्च धनंजयः
MBh 7.102.11
सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम्
सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम्
MBh 7.102.12
करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि
युयुधानमनन्विष्य लोको मां गर्हयिष्यति
MBh 7.102.13
भ्रातुरन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः
परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम्
MBh 7.102.14
लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम्
पदवीं प्रेषयिष्यामि माधवस्य महात्मनः
MBh 7.102.15
यथैव च मम प्रीतिरर्जुने शत्रुसूदने
तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे
MBh 7.102.16
अतिभारे नियुक्तश्च मया शैनेयनन्दनः
स तु मित्रोपरोधेन गौरवाच्च महाबलः
प्रविष्टो भारतीं सेनां मकरः सागरं यथा
MBh 7.102.17
असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम्
मिथः संयुध्यमानानां वृष्णिवीरेण धीमता
MBh 7.102.18
प्राप्तकालं सुबलवन्निश्चित्य बहुधा हि मे
तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः
गमनं रोचते मह्यं यत्र यातौ महारथौ
MBh 7.102.19
न चाप्यसह्यं भीमस्य विद्यते भुवि किंचन
शक्तो ह्येष रणे यत्तान्पृथिव्यां सर्वधन्विनः
स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा
MBh 7.102.20
यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः
वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः
MBh 7.102.21
इतो गते भीमसेने सात्वतं प्रति पाण्डवे
सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ
MBh 7.102.22
कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ
रक्षितौ वासुदेवेन स्वयं चास्त्रविशारदौ
MBh 7.102.23
अवश्यं तु मया कार्यमात्मनः शोकनाशनम्
तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम्
ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति
MBh 7.102.24
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः
यन्तारमब्रवीद्राजन्भीमं प्रति नयस्व माम्
MBh 7.102.25
धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः
रथं हेमपरिष्कारं भीमान्तिकमुपानयत्
MBh 7.102.26
भीमसेनमनुप्राप्य प्राप्तकालमनुस्मरन्
कश्मलं प्राविशद्राजा बहु तत्र समादिशन्
MBh 7.102.27
यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत्
तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते
MBh 7.102.28
ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम्
नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम्
MBh 7.102.29
पुरा हि दुःखदीर्णानां भवान्गतिरभूद्धि नः
उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते
MBh 7.102.30
न ह्यसाध्यमकार्यं वा विद्यते मम मानद
आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः
MBh 7.102.31
तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन्
भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः
MBh 7.102.32
यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते
प्रेरितो वासुदेवेन संरब्धेन यशस्विना
नूनमद्य हतः शेते तव भ्राता धनंजयः
MBh 7.102.33
तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः
यस्य सत्त्ववतो वीर्यमुपजीवन्ति पाण्डवाः
MBh 7.102.34
यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः
स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम्
MBh 7.102.35
तस्य वै गमनं विद्मो भीम नावर्तनं पुनः
श्यामो युवा गुडाकेशो दर्शनीयो महाभुजः
MBh 7.102.36
व्यूढोरस्को महास्कन्धो मत्तद्विरदविक्रमः
चकोरनेत्रस्ताम्राक्षो द्विषतामघवर्धनः
MBh 7.102.37
तदिदं मम भद्रं ते शोकस्थानमरिंदम
अर्जुनार्थं महाबाहो सात्वतस्य च कारणात्
MBh 7.102.38
वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः
तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम्
MBh 7.102.39
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम्
स तं महारथं पश्चादनुयातस्तवानुजम्
तमपश्यन्महाबाहुमहं विन्दामि कश्मलम्
MBh 7.102.40
तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः
यस्य वीर्यवतो वीर्यमुपजीवन्ति पाण्डवाः
MBh 7.102.41
स तत्र गच्छ कौन्तेय यत्र यातो धनंजयः
सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे
वचनं मम धर्मज्ञ ज्येष्ठो भ्राता भवामि ते
MBh 7.102.42
न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा
चिकीर्षुर्मत्प्रियं पार्थ प्रयातः सव्यसाचिनः
पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः
MBh 7.102.43
भीमसेन उवाच
ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः
तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम्
MBh 7.102.44
आज्ञां तु शिरसा बिभ्रदेष गच्छामि मा शुचः
समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम्
MBh 7.102.45
संजय उवाच
एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम्
धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनः पुनः
धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः
MBh 7.102.46
विदितं ते महाबाहो यथा द्रोणो महारथः
ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते
MBh 7.102.47
न च मे गमने कृत्यं तादृक्पार्षत विद्यते
यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः
MBh 7.102.48
एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं स्म नोत्सहे
प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः
धर्मराजस्य वचने स्थातव्यमविशङ्कया
MBh 7.102.49
सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम्
एतद्धि सर्वकार्याणां परमं कृत्यमाहवे
MBh 7.102.50
तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम्
ईप्सितेन महाबाहो गच्छ पार्थाविचारयन्
MBh 7.102.51
नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथंचन
निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे
MBh 7.102.52
ततो निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः
अभिवाद्य गुरुं ज्येष्ठं प्रययौ यत्र फल्गुनः
MBh 7.102.53
परिष्वक्तस्तु कौन्तेयो धर्मराजेन भारत
आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः
MBh 7.102.54
भीमसेनो महाबाहुः कवची शुभकुण्डली
साङ्गदः सतनुत्राणः सशरी रथिनां वरः
MBh 7.102.55
तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत्
विबभौ पर्वतश्लिष्टः सविद्युदिव तोयदः
MBh 7.102.56
पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः
कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः
MBh 7.102.57
प्रयाते भीमसेने तु तव सैन्यं युयुत्सया
पाञ्चजन्यरवो घोरः पुनरासीद्विशां पते
MBh 7.102.58
तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत्
पुनर्भीमं महाबाहुर्धर्मपुत्रोऽभ्यभाषत
MBh 7.102.59
एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम्
पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट्
MBh 7.102.60
नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि
कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः
MBh 7.102.61
नूनमार्या महत्कुन्ती पापमद्य निदर्शनम्
द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः
MBh 7.102.62
स भीमस्त्वरया युक्तो याहि यत्र धनंजयः
मुह्यन्तीव हि मे सर्वा धनंजयदिदृक्षया
दिशः सप्रदिशः पार्थ सात्वतस्य च कारणात्
MBh 7.102.63
गच्छ गच्छेति च पुनर्भीमसेनमभाषत
भृशं स प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियंकरः
आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माय चासकृत्
MBh 7.102.64
विनद्य सिंहनादं च ज्यां विकर्षन्पुनः पुनः
दर्शयन्घोरमात्मानममित्रान्सहसाभ्ययात्
MBh 7.102.65
तमूहुर्जवना दान्ता विकुर्वाणा हयोत्तमाः
विशोकेनाभिसंयत्ता मनोमारुतरंहसः
MBh 7.102.66
आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना
सोऽवकर्षन्विकर्षंश्च सेनाग्रं समलोडयत्
MBh 7.102.67
तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः
पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः
MBh 7.102.68
तं ससेना महाराज सोदर्याः पर्यवारयन्
दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः
MBh 7.102.69
दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा
विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः
MBh 7.102.70
वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः
अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः
MBh 7.102.71
विविधै रथिनां श्रेष्ठाः सह सैन्यैः सहानुगैः
संयत्ताः समरे शूरा भीमसेनमुपाद्रवन्
MBh 7.102.72
तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी
अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव
MBh 7.102.73
ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन्
वारयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम्
MBh 7.102.74
स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत्
अग्रतश्च गजानीकं शरवर्षैरवाकिरत्
MBh 7.102.75
सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः
दिशः सर्वाः समभ्यस्य व्यधमत्पवनात्मजः
MBh 7.102.76
त्रासिताः शरभस्येव गर्जितेन वने मृगाः
प्राद्रवन्द्विरदाः सर्वे नदन्तो भैरवान्रवान्
MBh 7.102.77
पुनश्चातीत्य वेगेन द्रोणानीकमुपाद्रवत्
तमवारयदाचार्यो वेलेवोद्वृत्तमर्णवम्
MBh 7.102.78
ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव
ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः
MBh 7.102.79
स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा
भीमः करिष्यते पूजामित्युवाच वृकोदरम्
MBh 7.102.80
भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम्
मामनिर्जित्य समरे शत्रुमध्ये महाबल
MBh 7.102.81
यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम
अनीकं न तु शक्यं भोः प्रवेष्टुमिह वै त्वया
MBh 7.102.82
अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः
क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन्
MBh 7.102.83
तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम्
प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम्
MBh 7.102.84
येन वै परमां पूजां कुर्वता मानितो ह्यसि
नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि ते रिपुः
MBh 7.102.85
पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रा हि ते वयम्
इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः
MBh 7.102.86
अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते
यदि शत्रुं त्वमात्मानं मन्यसे तत्तथास्त्विह
एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम्
MBh 7.102.87
अथोद्भ्राम्य गदां भीमः कालदण्डमिवान्तकः
द्रोणायावसृजद्राजन्स रथादवपुप्लुवे
MBh 7.102.88
साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा
प्रामृद्नाच्च बहून्योधान्वायुर्वृक्षानिवौजसा
MBh 7.102.89
तं पुनः परिवव्रुस्ते तव पुत्रा रथोत्तमम्
अन्यं च रथमास्थाय द्रोणः प्रहरतां वरः
MBh 7.102.90
ततः क्रुद्धो महाराज भीमसेनः पराक्रमी
अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत्
MBh 7.102.91
ते वध्यमानाः समरे तव पुत्रा महारथाः
भीमं भीमबलं युद्धेऽयोधयंस्तु जयैषिणः
MBh 7.102.92
ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत्
सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम्
MBh 7.102.93
आपतन्तीं महाशक्तिं तव पुत्रप्रचोदिताम्
द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत्
MBh 7.102.94
अथान्यैर्निशितैर्बाणैः संक्रुद्धः कुण्डभेदिनम्
सुषेणं दीर्घनेत्रं च त्रिभिस्त्रीनवधीद्बली
MBh 7.102.95
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्
पुत्राणां तव वीराणां युध्यतामवधीत्पुनः
MBh 7.102.96
अभयं रौद्रकर्माणं दुर्विमोचनमेव च
त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव
MBh 7.102.97
वध्यमाना महाराज पुत्रास्तव बलीयसा
भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन्
MBh 7.102.98
विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम्
प्रहसन्निव कौन्तेयः शरैर्निन्ये यमक्षयम्
MBh 7.102.99
ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ
विव्याध समरे तूर्णं स पपात ममार च
MBh 7.102.100
सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः
दिशः सर्वाः समभ्यस्य व्यधमत्पाण्डुनन्दनः
MBh 7.102.101
ततो वै रथघोषेण गर्जितेन मृगा इव
वध्यमानाश्च समरे पुत्रास्तव विशां पते
प्राद्रवन्सरथाः सर्वे भीमसेनभयार्दिताः
MBh 7.102.102
अनुयाय तु कौन्तेयः पुत्राणां ते महद्बलम्
विव्याध समरे राजन्कौरवेयान्समन्ततः
MBh 7.102.103
वध्यमाना महाराज भीमसेनेन तावकाः
त्यक्त्वा भीमं रणे यान्ति चोदयन्तो हयोत्तमान्
MBh 7.102.104
तांस्तु निर्जित्य समरे भीमसेनो महाबलः
सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः
MBh 7.102.105
तलशब्दं च सुमहत्कृत्वा भीमो महाबलः
व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 101
- Next chapter · Droṇa-Parva Ch 103 →
Sources and Connected Readings
Continue from these 105 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.102local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷