🪷 Mahābhārata · Droṇa-Parva · Chapter 101

The Book of Droṇa · Parva 7 · 74 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 74 Shlokas

MBh 7.101.1
संजय उवाच अपराह्णे महाराज संग्रामः समपद्यत पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः
MBh 7.101.2
शोणाश्वं रथमास्थाय नरवीरः समाहितः समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम्
MBh 7.101.3
तव प्रियहिते युक्तो महेष्वासो महाबलः चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसंभवः
MBh 7.101.4
वरान्वरान्हि योधानां विचिन्वन्निव भारत अक्रीडत रणे राजन्भारद्वाजः प्रतापवान्
MBh 7.101.5
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः
MBh 7.101.6
विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं छादयन्भृशम् महामेघो यथा वर्षं विमुञ्चन्गन्धमादने
MBh 7.101.7
तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान् प्रेषयामास संक्रुद्धः सायकान्दश सप्त च
MBh 7.101.8
तांस्तु द्रोणधनुर्मुक्तान्घोरानाशीविषोपमान् एकैकं दशभिर्बाणैर्युधि चिच्छेद हृष्टवत्
MBh 7.101.9
तस्य तल्लाघवं दृष्ट्वा प्रहसन्द्विजसत्तमः प्रेषयामास विशिखानष्टौ संनतपर्वणः
MBh 7.101.10
तान्दृष्ट्वा पततः शीघ्रं द्रोणचापच्युताञ्शरान् अवारयच्छरैरेव तावद्भिर्निशितैर्दृढैः
MBh 7.101.11
ततोऽभवन्महाराज तव सैन्यस्य विस्मयः बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम्
MBh 7.101.12
ततो द्रोणो महाराज केकयं वै विशेषयन् प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं महातपाः
MBh 7.101.13
तदस्य राजन्कैकेयः प्रत्यवारयदच्युतः ब्राह्मेणैव महाबाहुराहवे समुदीरितम्
MBh 7.101.14
प्रतिहन्य तदस्त्रं तु भारद्वाजस्य संयुगे विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः
MBh 7.101.15
तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समर्पयत् स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम्
MBh 7.101.16
कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम तथाभ्यगान्महीं बाणो भित्त्वा कैकेयमाहवे
MBh 7.101.17
सोऽतिविद्धो महाराज द्रोणेनास्त्रविदा भृशम् क्रोधेन महताविष्टो व्यावृत्य नयने शुभे
MBh 7.101.18
द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः सारथिं चास्य भल्लेन बाह्वोरुरसि चार्पयत्
MBh 7.101.19
द्रोणस्तु बहुधा विद्धो बृहत्क्षत्रेण मारिष असृजद्विशिखांस्तीक्ष्णान्केकयस्य रथं प्रति
MBh 7.101.20
व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम् व्यसृजत्सायकं तीक्ष्णं केकयं प्रति भारत
MBh 7.101.21
स गाढविद्धस्तेनाशु महाराज स्तनान्तरे रथात्पुरुषशार्दूलः संभिन्नहृदयोऽपतत्
MBh 7.101.22
बृहत्क्षत्रे हते राजन्केकयानां महारथे शैशुपालिः सुसंक्रुद्धो यन्तारमिदमब्रवीत्
MBh 7.101.23
सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम्
MBh 7.101.24
तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः
MBh 7.101.25
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः सहसा प्रापतद्द्रोणं पतंग इव पावकम्
MBh 7.101.26
सोऽभ्यविध्यत्ततो द्रोणं षष्ट्या साश्वरथध्वजम् पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव
MBh 7.101.27
तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन ह चिच्छेद राज्ञो बलिनो यतमानस्य संयुगे
MBh 7.101.28
अथान्यद्धनुरादाय शैशुपालिर्महारथः विव्याध सायकैर्द्रोणं पुनः सुनिशितैर्दृढैः
MBh 7.101.29
तस्य द्रोणो हयान्हत्वा सारथिं च महाबलः अथैनं पञ्चविंशत्या सायकानां समार्पयत्
MBh 7.101.30
विरथो विधनुष्कश्च चेदिराजोऽपि संयुगे गदां चिक्षेप संक्रुद्धो भारद्वाजरथं प्रति
MBh 7.101.31
तामापतन्तीं सहसा घोररूपां भयावहाम् अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् शरैरनेकसाहस्रैर्भारद्वाजो न्यपातयत्
MBh 7.101.32
सा पपात गदा भूमौ भारद्वाजेन सादिता रक्तमाल्याम्बरधरा तारेव नभसस्तलात्
MBh 7.101.33
गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः तोमरं व्यसृजत्तूर्णं शक्तिं च कनकोज्ज्वलाम्
MBh 7.101.34
तोमरं तु त्रिभिर्बाणैर्द्रोणश्छित्त्वा महामृधे शक्तिं चिच्छेद सहसा कृतहस्तो महाबलः
MBh 7.101.35
ततोऽस्य विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः प्रेषयामास समरे भारद्वाजः प्रतापवान्
MBh 7.101.36
स तस्य कवचं भित्त्वा हृदयं चामितौजसः अभ्यगाद्धरणीं बाणो हंसः पद्मसरो यथा
MBh 7.101.37
पतंगं हि ग्रसेच्चाषो यथा राजन्बुभुक्षितः तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महामृधे
MBh 7.101.38
निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत् अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित्
MBh 7.101.39
तमपि प्रहसन्द्रोणः शरैर्निन्ये यमक्षयम् महाव्याघ्रो महारण्ये मृगशावं यथा बली
MBh 7.101.40
तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत जरासंधसुतो वीरः स्वयं द्रोणमुपाद्रवत्
MBh 7.101.41
स तु द्रोणं महाराज छादयन्सायकैः शितैः अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा
MBh 7.101.42
तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः
MBh 7.101.43
छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम् जारासंधिमथो जघ्ने मिषतां सर्वधन्विनाम्
MBh 7.101.44
यो यः स्म लीयते द्रोणं तं तं द्रोणोऽन्तकोपमः आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः
MBh 7.101.45
ततो द्रोणो महेष्वासो नाम विश्राव्य संयुगे शरैरनेकसाहस्रैः पाण्डवेयान्व्यमोहयत्
MBh 7.101.46
ततो द्रोणाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः नरान्नागान्हयांश्चैव निजघ्नुः सर्वतो रणे
MBh 7.101.47
ते वध्यमाना द्रोणेन शक्रेणेव महासुराः समकम्पन्त पाञ्चाला गावः शीतार्दिता इव
MBh 7.101.48
ततो निष्टानको घोरः पाण्डवानामजायत द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ
MBh 7.101.49
मोहिताः शरवर्षेण भारद्वाजस्य संयुगे ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः
MBh 7.101.50
चेदयश्च महाराज सृञ्जयाः सोमकास्तथा अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया
MBh 7.101.51
हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् निनीषन्तो रणे द्रोणं यमस्य सदनं प्रति
MBh 7.101.52
यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः यमाय प्रेषयामास चेदिमुख्यान्विशेषतः
MBh 7.101.53
तेषु प्रक्षीयमाणेषु चेदिमुख्येषु भारत पाञ्चालाः समकम्पन्त द्रोणसायकपीडिताः
MBh 7.101.54
प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नरथं प्रति दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष
MBh 7.101.55
ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत् तथा हि युधि विक्रान्तो दहति क्षत्रियर्षभान्
MBh 7.101.56
धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत्
MBh 7.101.57
द्रोणास्त्रमग्निसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः बहवो दुस्तरं घोरं यत्रादह्यन्त भारत
MBh 7.101.58
यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः
MBh 7.101.59
तेषां तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः
MBh 7.101.60
स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम्
MBh 7.101.61
तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम् आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत्
MBh 7.101.62
स हत्वा क्षत्रधर्माणं जगाम धरणीतलम् स भिन्नहृदयो वाहादपतन्मेदिनीतले
MBh 7.101.63
ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते अथ द्रोणं समारोहच्चेकितानो महारथः
MBh 7.101.64
स द्रोणं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान्
MBh 7.101.65
तस्याचार्यः षोडशभिरविध्यद्दक्षिणं भुजम् ध्वजं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः
MBh 7.101.66
तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः समरे शरसंवीता भारद्वाजेन मारिष
MBh 7.101.67
चेकितानरथं दृष्ट्वा विद्रुतं हतसारथिम् पाञ्चालान्पाण्डवांश्चैव महद्भयमथाविशत्
MBh 7.101.68
तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान् समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष
MBh 7.101.69
आकर्णपलितः श्यामो वयसाशीतिकात्परः रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत्
MBh 7.101.70
अथ द्रोणं महाराज विचरन्तमभीतवत् वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम्
MBh 7.101.71
ततोऽब्रवीन्महाराज द्रुपदो बुद्धिमान्नृप लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव
MBh 7.101.72
कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः
MBh 7.101.73
शतशः शेरते भूमौ निकृत्ता गोवृषा इव रुधिरेण परीताङ्गाः श्वसृगालादनीकृताः
MBh 7.101.74
एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 74 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.101local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷