🪷 Mahābhārata · Droṇa-Parva · Chapter 104
The Book of Droṇa · Parva 7 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 33 Shlokas
MBh 7.104.1
धृतराष्ट्र उवाच
तथा तु नर्दमानं तं भीमसेनं महाबलम्
मेघस्तनितनिर्घोषं के वीराः पर्यवारयन्
MBh 7.104.2
न हि पश्याम्यहं तं वै त्रिषु लोकेषु संजय
क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे
MBh 7.104.3
गदामुद्यच्छमानस्य कालस्येव महामृधे
न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे
MBh 7.104.4
रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च
कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः
MBh 7.104.5
क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः
MBh 7.104.6
भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम्
प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः
MBh 7.104.7
काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन्
MBh 7.104.8
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः
के शूराः पर्यवर्तन्त तन्ममाचक्ष्व संजय
MBh 7.104.9
संजय उवाच
तथा तु नर्दमानं तं भीमसेनं महारथम्
तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली
MBh 7.104.10
व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः
कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली
MBh 7.104.11
प्रावेपन्निव गात्राणि कर्णभीमसमागमे
रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम्
MBh 7.104.12
भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे
खं च भूमिं च संबद्धां मेनिरे क्षत्रियर्षभाः
MBh 7.104.13
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः
समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ
MBh 7.104.14
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः
वाहनानि महाराज बभूवुर्विमनांसि च
MBh 7.104.15
प्रादुरासन्निमित्तानि घोराणि च बहूनि च
तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे
MBh 7.104.16
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत्
विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः
MBh 7.104.17
प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे
सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः
MBh 7.104.18
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत्
असंप्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः
चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम्
MBh 7.104.19
तं कर्णश्छादयामास शरव्रातैरनेकशः
संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः
MBh 7.104.20
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः
विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः
MBh 7.104.21
अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः
विव्याध समरे भीमं भीमकर्मा महारथः
MBh 7.104.22
तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः
निचखानोरसि तदा सूतपुत्रस्य वेगितः
MBh 7.104.23
तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा
महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ
MBh 7.104.24
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः
धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः
MBh 7.104.25
किंचिद्विचलितः कर्णः सुप्रहाराभिपीडितः
ससायकं धनुः कृत्वा भीमं विव्याध मारिष
चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः
MBh 7.104.26
स छाद्यमानः सहसा कर्णेन दृढधन्विना
धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः
MBh 7.104.27
सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम्
वाहांश्च चतुरः संख्ये व्यसूंश्चक्रे महारथः
MBh 7.104.28
हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते
स्यन्दनं वृषसेनस्य समारोहन्महारथः
MBh 7.104.29
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान्
ननाद सुमहानादं पर्जन्यनिनदोपमम्
MBh 7.104.30
तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः
कर्णं च निर्जितं मत्वा भीमसेनेन भारत
MBh 7.104.31
समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा
शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन्
गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत्
MBh 7.104.32
तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः
अश्रूयत महाराज सर्वसैन्येषु भारत
MBh 7.104.33
ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौ
मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 103
- Next chapter · Droṇa-Parva Ch 105 →
Sources and Connected Readings
Continue from these 33 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.104local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷