🪷 Mahābhārata · Ādi-Parva · Chapter 89

The Book of the Beginning · Parva 1 · 55 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 55 Shlokas

MBh 1.89.1
जनमेजय उवाच भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः
MBh 1.89.2
न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः प्रजाविरहितो वापि भूतपूर्वः कदाचन
MBh 1.89.3
तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् चरितं श्रोतुमिच्छामि विस्तरेण तपोधन
MBh 1.89.4
वैशंपायन उवाच हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः
MBh 1.89.5
प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत्
MBh 1.89.6
मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः
MBh 1.89.7
सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः
MBh 1.89.8
रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः
MBh 1.89.9
ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः
MBh 1.89.10
तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः धर्मेपुः संनतेपुश्च दशमो देवविक्रमः अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः
MBh 1.89.11
मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत् मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः
MBh 1.89.12
तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् आजहार यशो दीप्तं जिगाय च वसुंधराम्
MBh 1.89.13
इलिनं तु सुतं तंसुर्जनयामास वीर्यवान् सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः
MBh 1.89.14
रथंतर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः इलिनो जनयामास दुःषन्तप्रभृतीन्नृप
MBh 1.89.15
दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय
MBh 1.89.16
दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः
MBh 1.89.17
भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत
MBh 1.89.18
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत
MBh 1.89.19
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत्
MBh 1.89.20
ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् ततः स वितथो नाम भुमन्योरभवत्सुतः
MBh 1.89.21
सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः
MBh 1.89.22
तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः
MBh 1.89.23
सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम्
MBh 1.89.24
ममज्जेव मही तस्य भूरिभारावपीडिता हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम्
MBh 1.89.25
सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः प्रवृद्धजनसस्या च सहदेवा व्यरोचत
MBh 1.89.26
ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः अजमीढं सुमीढं च पुरुमीढं च भारत
MBh 1.89.27
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत
MBh 1.89.28
ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ
MBh 1.89.29
तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः
MBh 1.89.30
जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव
MBh 1.89.31
आर्क्षे संवरणे राजन्प्रशासति वसुंधराम् संक्षयः सुमहानासीत्प्रजानामिति शुश्रुमः
MBh 1.89.32
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च
MBh 1.89.33
चालयन्वसुधां चैव बलेन चतुरङ्गिणा अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत्
MBh 1.89.34
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः राजा संवरणस्तस्मात्पलायत महाभयात्
MBh 1.89.35
सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा नदीविषयपर्यन्ते पर्वतस्य समीपतः तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः
MBh 1.89.36
तेषां निवसतां तत्र सहस्रं परिवत्सरान् अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः
MBh 1.89.37
तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा निवेद्य सर्वमृषये सत्कारेण सुवर्चसे
MBh 1.89.38
तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत
MBh 1.89.39
अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम्
MBh 1.89.40
भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः
MBh 1.89.41
ततः स पृथिवीं प्राप्य पुनरीजे महाबलः आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः
MBh 1.89.42
ततः संवरणात्सौरी सुषुवे तपती कुरुम् राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे
MBh 1.89.43
तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः
MBh 1.89.44
अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी
MBh 1.89.45
अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् अभिराजो विराजश्च शल्मलश्च महाबलः
MBh 1.89.46
उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः
MBh 1.89.47
जनमेजयादयः सप्त तथैवान्ये महाबलाः परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः
MBh 1.89.48
कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः
MBh 1.89.49
जनमेजयस्य तनया भुवि ख्याता महाबलाः धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च
MBh 1.89.50
निषधश्च महातेजास्तथा जाम्बूनदो बली कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः
MBh 1.89.51
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः
MBh 1.89.52
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ देवापिः शंतनुश्चैव बाह्लीकश्च महारथः
MBh 1.89.53
देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया शंतनुश्च महीं लेभे बाह्लीकश्च महारथः
MBh 1.89.54
भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः देवर्षिकल्पा नृपते बहवो राजसत्तमाः
MBh 1.89.55
एवंविधाश्चाप्यपरे देवकल्पा महारथाः जाता मनोरन्ववाये ऐलवंशविवर्धनाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 55 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.89local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷