🪷 Mahābhārata · Ādi-Parva · Chapter 88
The Book of the Beginning · Parva 1 · 26 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 26 Shlokas
MBh 1.88.1
[वस]
पृच्छामि तवां वसु मना रौशदश्विर; यद्य अस्ति लॊकॊ दिवि मह्यं नरेन्द्र
यद्य अन्तरिक्षे परथितॊ महात्मन; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये
MBh 1.88.2
[य]
यद अन्तरिक्षं पृथिवी दिशश च; यत तेजसा तपते भानुमांश च
लॊकास तावन्तॊ दिवि संस्थिता वै; ते नान्तवन्तः परतिपालयन्ति
MBh 1.88.3
[वस]
तांस ते ददामि पत मा परपातं; ये मे लॊकास तव ते वै भवन्तु
करीणीष्वैनांस तृणकेनापि राजन; परतिग्रहस ते यदि सम्यक परदुष्टः
MBh 1.88.4
[य]
न मिथ्याहं विक्रयं वै समरामि; वृथा गृहीतं शिशुकाच छङ्कमानः
कुर्यां न चैवाकृत पूर्वम अन्यैर; विवित्समानः किम उ तत्र साधु
MBh 1.88.5
[वस]
तांस तवं लॊकान परतिपद्यस्व राजन; मया दत्तान यदि नेष्टः करयस ते
अहं न तान वै परतिगन्ता नरेन्द्र; सर्वे लॊकास तव ते वै भवन्तु
MBh 1.88.6
[षिबि]
पृच्छामि तवां शिबिर औशीनरॊ ऽहं; ममापि लॊका यदि सन्तीह तात
यद्य अन्तरिक्षे यदि वा दिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये
MBh 1.88.7
[य]
न तवं वाचा हृदयेनापि विद्वन; परीप्समानान नावमंस्था नरेन्द्र
तेनानन्ता दिवि लॊकाः शरितास ते; विद्युद्रूपाः सवनवन्तॊ महान्तः
MBh 1.88.8
[ष]
तांस तवं लॊकान परतिपद्यस्व राजन; मया दत्तान यदि नेष्टः करयस ते
न चाहं तान परतिपत्स्येह दत्त्वा; यत्र गत्वा तवम उपास्से ह लॊकान
MBh 1.88.9
[य]
यथा तवम इन्द्र परतिमप्रभावस; ते चाप्य अनन्ता नरदेव लॊकाः
तथाद्य लॊके न रमे ऽनयदत्ते; तस्माच छिबे नाभिनन्दामि दायम
MBh 1.88.10
[आ]
न चेद एकैकशॊ राजँल लॊकान नः परतिनन्दसि
सर्वे परदाय भवते गन्तारॊ नरकं वयम
MBh 1.88.11
[य]
यद अर्हाय ददध्वं तत सन्तः सत्यानृशंस्यतः
अहं तु नाभिधृष्णॊमि यत्कृतं न मया पुरा
MBh 1.88.12
[आ]
कस्यैते परतिदृश्यन्ते रथाः पञ्च हिरण्मयाः
उच्चैः सन्तः परकाशन्ते जवलन्तॊ ऽगनिशिखा इव
MBh 1.88.13
[य]
युष्मान एते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः
उच्चैः सन्तः परकाशन्ते जवलन्तॊ ऽगनिशिखा इव
MBh 1.88.14
[आ]
आतिष्ठस्व रथं राजन विक्रमस्व विहायसा
वयम अप्य अनुयास्यामॊ यदा कालॊ भविष्यति
MBh 1.88.15
[य]
सर्वैर इदानीं गन्तव्यं सहस्वर्गजितॊ वयम
एष नॊ विरजाः पन्था दृश्यते देव सद्मनः
MBh 1.88.16
[व]
ते ऽधिरुह्य रथान सर्वे परयाता नृपसत्तमाः
आक्रमन्तॊ दिवं भाभिर धर्मेणावृत्य रॊदसी
MBh 1.88.17
[आ]
अहं मन्ये पूर्वम एकॊ ऽसमि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा
कस्माद एवं शिबिर औशीनरॊ ऽयम; एकॊ ऽतयगात सर्ववेगेन वाहान
MBh 1.88.18
[य]
अददाद देव यानाय यावद वित्तम अविन्दत
उशीनरस्य पुत्रॊ ऽयं तस्माच छरेष्ठॊ हि नः शिबिः
MBh 1.88.19
दानं तपः सत्यम अथापि धर्मॊ हरीः; शरीः कषमा सौम्य तथा तितिक्षा
राजन्न एतान्य अप्रतिमस्य राज्ञः; शिबेः सथितान्य अनृशंसस्य बुद्ध्या
एवंवृत्तॊ हरीनिषेधश च यस्मात; तस्माच छिबिर अत्यगाद वै रथेन
MBh 1.88.20
[व]
अथाष्टकः पुनर एवान्वपृच्छन; मातामहं कौतुकाद इन्द्रकल्पम
पृच्छामि तवां नृपते बरूहि सत्यं; कुतश च कस्यासि सुतश च कस्य
कृतं तवया यद धि न तस्य कर्ता; लॊके तवदन्यः कषत्रियॊ बराह्मणॊ वा
MBh 1.88.21
[य]
ययातिर अस्मि नहुषस्य पुत्रः; पूरॊः पिता सार्वभौमस तव इहासम
गुह्यम अर्थं मामकेभ्यॊ बरवीमि; मातामहॊ ऽहं भवतां परकाशः
MBh 1.88.22
सर्वाम इमां पृथिवीं निर्जिगाय; परस्थे बद्ध्वा हय अददं बराह्मणेभ्यः
मेध्यान अश्वान एकशफान सुरूपांस; तदा देवाः पुण्यभाजॊ भवन्ति
MBh 1.88.23
अदाम अहं पृथिवीं बराह्मणेभ्यः; पूर्णाम इमाम अखिलां वाहनस्य
गॊभिः सुवर्णेन धनैश च मुख्यैस; तत्रासन गाः शतम अर्बुदानि
MBh 1.88.24
सत्येन मे दयौश च वसुंधरा च; तथैवाग्निर जवलते मानुषेषु
न मे पृथा वयाहृतम एव वाक्यं; सत्यं हि सन्तः परतिपूजयन्ति
सर्वे च देवा मुनयश च लॊकाः; सत्येन पूज्या इति मे मनॊगतम
MBh 1.88.25
यॊ नः सवर्गजितः सर्वान यथावृत्तं निवेदयेत
अनसूयुर दविजाग्रेभ्यः स लभेन नः सलॊकताम
MBh 1.88.26
[व]
एवं राजा स महात्मा हय अतीव; सवैर दौहित्रैस तारितॊ ऽमित्रसाहः
तयक्त्वा महीं परमॊदारकर्मा; सवर्गं गतः कर्मभिर वयाप्य पृथ्वीम
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 87
- Next chapter · Ādi-Parva Ch 89 →
🪷 जय व्यास भगवान् 🪷