🪷 Mahābhārata · Ādi-Parva · Chapter 90
The Book of the Beginning · Parva 1 · 96 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 96 Shlokas
MBh 1.90.1
जनमेजय उवाच
श्रुतस्त्वत्तो मया विप्र पूर्वेषां संभवो महान्
उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः
MBh 1.90.2
किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति
प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे
MBh 1.90.3
एतामेव कथां दिव्यामा प्रजापतितो मनोः
तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत्
MBh 1.90.4
सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम्
विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम्
MBh 1.90.5
गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम्
न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम्
MBh 1.90.6
वैशंपायन उवाच
शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम्
प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम्
MBh 1.90.7
दक्षस्यादितिः
अदितेर्विवस्वान्
विवस्वतो मनुः
मनोरिला
इलायाः पुरूरवाः
पुरूरवस आयुः
आयुषो नहुषः
नहुषस्य ययातिः
MBh 1.90.8
ययातेर्द्वे भार्ये बभूवतुः
उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम
अत्रानुवंशो भवति
MBh 1.90.9
यदुं च तुर्वसुं चैव देवयानी व्यजायत
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी
MBh 1.90.10
तत्र यदोर्यादवाः
पूरोः पौरवाः
MBh 1.90.11
पूरोर्भार्या कौसल्या नाम
तस्यामस्य जज्ञे जनमेजयो नाम
यस्त्रीनश्वमेधानाजहार
विश्वजिता चेष्ट्वा वनं प्रविवेश
MBh 1.90.12
जनमेजयः खल्वनन्तां नामोपयेमे माधवीम्
तस्यामस्य जज्ञे प्राचिन्वान्
यः प्राचीं दिशं जिगाय यावत्सूर्योदयात्
ततस्तस्य प्राचिन्वत्वम्
MBh 1.90.13
प्राचिन्वान्खल्वश्मकीमुपयेमे
तस्यामस्य जज्ञे संयातिः
MBh 1.90.14
संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे
तस्यामस्य जज्ञे अहंपातिः
MBh 1.90.15
अहंपातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम
तस्यामस्य जज्ञे सार्वभौमः
MBh 1.90.16
सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम
तस्यामस्य जज्ञे जयत्सेनः
MBh 1.90.17
जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम
तस्यामस्य जज्ञे अराचीनः
MBh 1.90.18
अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम
तस्यामस्य जज्ञे महाभौमः
MBh 1.90.19
महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम
तस्यामस्य जज्ञे अयुतनायी
यः पुरुषमेधानामयुतमानयत्
तदस्यायुतनायित्वम्
MBh 1.90.20
अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम
तस्यामस्य जज्ञे अक्रोधनः
MBh 1.90.21
अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे
तस्यामस्य जज्ञे देवातिथिः
MBh 1.90.22
देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम
तस्यामस्य जज्ञे ऋचः
MBh 1.90.23
ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम
तस्यां पुत्रमजनयदृक्षम्
MBh 1.90.24
ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम
तस्यां पुत्रं मतिनारं नामोत्पादयामास
MBh 1.90.25
मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार
MBh 1.90.26
निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास
तस्यां पुत्रमजनयत्तंसुं नाम
MBh 1.90.27
अत्रानुवंशो भवति
MBh 1.90.28
तंसुं सरस्वती पुत्रं मतिनारादजीजनत्
इलिनं जनयामास कालिन्द्यां तंसुरात्मजम्
MBh 1.90.29
इलिनस्तु रथंतर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत्
MBh 1.90.30
दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे
तस्यामस्य जज्ञे भरतः
तत्र श्लोकौ भवतः
MBh 1.90.31
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः
भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम्
MBh 1.90.32
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला
MBh 1.90.33
ततोऽस्य भरतत्वम्
MBh 1.90.34
भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम
तस्यामस्य जज्ञे भुमन्युः
MBh 1.90.35
भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम
तस्यामस्य जज्ञे सुहोत्रः
MBh 1.90.36
सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम
तस्यामस्य जज्ञे हस्ती
य इदं हास्तिनपुरं मापयामास
एतदस्य हास्तिनपुरत्वम्
MBh 1.90.37
हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम
तस्यामस्य जज्ञे विकुण्ठनः
MBh 1.90.38
विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम
तस्यामस्य जज्ञेऽजमीढः
MBh 1.90.39
अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति
पृथक्पृथग्वंशकरा नृपतयः
तत्र वंशकरः संवरणः
MBh 1.90.40
संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे
तस्यामस्य जज्ञे कुरुः
MBh 1.90.41
कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम
तस्यामस्य जज्ञे विडूरथः
MBh 1.90.42
विडूरथस्तु मागधीमुपयेमे संप्रियां नाम
तस्यामस्य जज्ञेऽरुग्वान्नाम
MBh 1.90.43
अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम
तस्यामस्य जज्ञे परिक्षित्
MBh 1.90.44
परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम
तस्यामस्य जज्ञे भीमसेनः
MBh 1.90.45
भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम
तस्यामस्य जज्ञे पर्यश्रवाः
यमाहुः प्रतीपं नाम
MBh 1.90.46
प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम
तस्यां पुत्रानुत्पादयामास देवापिं शंतनुं बाह्लीकं चेति
MBh 1.90.47
देवापिः खलु बाल एवारण्यं प्रविवेश
शंतनुस्तु महीपालोऽभवत्
अत्रानुवंशो भवति
MBh 1.90.48
यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते
पुनर्युवा च भवति तस्मात्तं शंतनुं विदुः
MBh 1.90.49
तदस्य शंतनुत्वम्
MBh 1.90.50
शंतनुः खलु गङ्गां भागीरथीमुपयेमे
तस्यामस्य जज्ञे देवव्रतः
यमाहुर्भीष्म इति
MBh 1.90.51
भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम्
यामाहुर्गन्धकालीति
MBh 1.90.52
तस्यां कानीनो गर्भः पराशराद्द्वैपायनः
तस्यामेव शंतनोर्द्वौ पुत्रौ बभूवतुः
चित्राङ्गदो विचित्रवीर्यश्च
MBh 1.90.53
तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः
विचित्रवीर्यस्तु राजा समभवत्
MBh 1.90.54
विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे
MBh 1.90.55
विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः
MBh 1.90.56
ततः सत्यवती चिन्तयामास
दौःषन्तो वंश उच्छिद्यते इति
MBh 1.90.57
सा द्वैपायनमृषिं चिन्तयामास
MBh 1.90.58
स तस्याः पुरतः स्थितः किं करवाणीति
MBh 1.90.59
सा तमुवाच
भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः
साध्वपत्यं तस्योत्पादयेति
MBh 1.90.60
स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति
MBh 1.90.61
तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य
MBh 1.90.62
तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति
MBh 1.90.63
पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने
MBh 1.90.64
अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम्
तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान
MBh 1.90.65
स बाणविद्ध उवाच पाण्डुम्
चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति
MBh 1.90.66
स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये
MBh 1.90.67
वाक्यं चोवाच
स्वचापल्यादिदं प्राप्तवानहम्
शृणोमि च नानपत्यस्य लोका सन्तीति
MBh 1.90.68
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच
MBh 1.90.69
सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति
MBh 1.90.70
स तां हृष्टरूपः पाण्डुरुवाच
इयं ते सपत्न्यनपत्या
साध्वस्यामपत्यमुत्पाद्यतामिति
MBh 1.90.71
स एवमस्त्वित्युक्तः कुन्त्या
MBh 1.90.72
ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ
MBh 1.90.73
माद्रीं खल्वलंकृतां दृष्ट्वा पाण्डुर्भावं चक्रे
MBh 1.90.74
स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः
MBh 1.90.75
तत्रैनं चितास्थं माद्री समन्वारुरोह
MBh 1.90.76
उवाच कुन्तीम्
यमयोरार्ययाप्रमत्तया भवितव्यमिति
MBh 1.90.77
ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः
MBh 1.90.78
तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन
MBh 1.90.79
ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः
MBh 1.90.80
तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः
MBh 1.90.81
तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः
MBh 1.90.82
पुत्रांश्चोत्पादयामासुः
प्रतिविन्ध्यं युधिष्ठिरः
सुतसोमं वृकोदरः
श्रुतकीर्तिमर्जुनः
शतानीकं नकुलः
श्रुतकर्माणं सहदेव इति
MBh 1.90.83
युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे
तस्यां पुत्रं जनयामास यौधेयं नाम
MBh 1.90.84
भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम्
तस्यां पुत्रं सर्वगं नामोत्पादयामास
MBh 1.90.85
अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत्
तस्यां पुत्रमभिमन्युं नाम जनयामास
MBh 1.90.86
नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत्
तस्यां पुत्रं निरमित्रं नामाजनयत्
MBh 1.90.87
सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे
तस्यां पुत्रमजनयत्सुहोत्रं नाम
MBh 1.90.88
भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास
MBh 1.90.89
इत्येते एकादश पाण्डवानां पुत्राः
MBh 1.90.90
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे
तस्यामस्य परासुर्गर्भोऽजायत
MBh 1.90.91
तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य
षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति
MBh 1.90.92
संजीवयित्वा चैनमुवाच
परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति
MBh 1.90.93
परिक्षित्तु खलु माद्रवतीं नामोपयेमे
तस्यामस्य जनमेजयः
MBh 1.90.94
जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च
MBh 1.90.95
शतानीकस्तु खलु वैदेहीमुपयेमे
तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः
MBh 1.90.96
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः
पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 89
- Next chapter · Ādi-Parva Ch 91 →
Sources and Connected Readings
Continue from these 96 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.90local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷