🪷 Mahābhārata · Ādi-Parva · Chapter 84

The Book of the Beginning · Parva 1 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 1.84.1
ययातिरुवाच अहं ययातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात् प्रभ्रंशितः सुरसिद्धर्षिलोका;त्परिच्युतः प्रपताम्यल्पपुण्यः
MBh 1.84.2
अहं हि पूर्वो वयसा भवद्भ्य;स्तेनाभिवादं भवतां न प्रयुञ्जे यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम्
MBh 1.84.3
अष्टक उवाच अवादीश्चेद्वयसा यः स वृद्ध; इति राजन्नाभ्यवदः कथंचित् यो वै विद्वान्वयसा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम्
MBh 1.84.4
ययातिरुवाच प्रतिकूलं कर्मणां पापमाहु;स्तद्वर्ततेऽप्रवणे पापलोक्यम् सन्तोऽसतां नानुवर्तन्ति चैत;द्यथा आत्मैषामनुकूलवादी
MBh 1.84.5
अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मि एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन्
MBh 1.84.6
नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः तत्तत्प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या
MBh 1.84.7
सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या तस्माद्दिष्टं बलवन्मन्यमानो; न संज्वरेन्नापि हृष्येत्कदाचित्
MBh 1.84.8
दुःखे न तप्येन्न सुखेन हृष्ये;त्समेन वर्तेत सदैव धीरः दिष्टं बलीय इति मन्यमानो; न संज्वरेन्नापि हृष्येत्कदाचित्
MBh 1.84.9
भये न मुह्याम्यष्टकाहं कदाचि;त्संतापो मे मानसो नास्ति कश्चित् धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा
MBh 1.84.10
संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमयोऽथाप्सु मत्स्याः तथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते
MBh 1.84.11
अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात्संतापमष्टकाहं भजेयम् किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्संतापं वर्जयाम्यप्रमत्तः
MBh 1.84.12
अष्टक उवाच ये ये लोकाः पार्थिवेन्द्र प्रधाना;स्त्वया भुक्ता यं च कालं यथा च तन्मे राजन्ब्रूहि सर्वं यथाव;त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान्
MBh 1.84.13
ययातिरुवाच राजाहमासमिह सार्वभौम;स्ततो लोकान्महतो अजयं वै तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः
MBh 1.84.14
ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम् अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः
MBh 1.84.15
ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम् तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः
MBh 1.84.16
देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम् संपूज्यमानस्त्रिदशैः समस्तै;स्तुल्यप्रभावद्युतिरीश्वराणाम्
MBh 1.84.17
तथावसं नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् सहाप्सरोभिर्विहरन्पुण्यगन्धा;न्पश्यन्नगान्पुष्पितांश्चारुरूपान्
MBh 1.84.18
तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम् दूतो देवानामब्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण
MBh 1.84.19
एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः वाचोऽश्रौषं चान्तरिक्षे सुराणा;मनुक्रोशाच्छोचतां मानवेन्द्र
MBh 1.84.20
अहो कष्टं क्षीणपुण्यो ययातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिः तानब्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेयं कथं नु
MBh 1.84.21
तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मि हविर्गन्धं देशिकं यज्ञभूमे;र्धूमापाङ्गं प्रतिगृह्य प्रतीतः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.84local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷