🪷 Mahābhārata · Ādi-Parva · Chapter 83

The Book of the Beginning · Parva 1 · 13 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 13 Shlokas

MBh 1.83.1
इन्द्र उवाच सर्वाणि कर्माणि समाप्य राज;न्गृहान्परित्यज्य वनं गतोऽसि तत्त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस्तपसा ययाते
MBh 1.83.2
ययातिरुवाच नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव
MBh 1.83.3
इन्द्र उवाच यदावमंस्थाः सदृशः श्रेयसश्च; पापीयसश्चाविदितप्रभावः तस्माल्लोका अन्तवन्तस्तवेमे; क्षीणे पुण्ये पतितास्यद्य राजन्
MBh 1.83.4
ययातिरुवाच सुरर्षिगन्धर्वनरावमाना;त्क्षयं गता मे यदि शक्र लोकाः इच्छेयं वै सुरलोकाद्विहीनः; सतां मध्ये पतितुं देवराज
MBh 1.83.5
इन्द्र उवाच सतां सकाशे पतितासि राजं;श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः एवं विदित्वा तु पुनर्ययाते; न तेऽवमान्याः सदृशः श्रेयसश्च
MBh 1.83.6
वैशंपायन उवाच ततः प्रहायामरराजजुष्टा;न्पुण्याँल्लोकान्पतमानं ययातिम् संप्रेक्ष्य राजर्षिवरोऽष्टकस्त;मुवाच सद्धर्मविधानगोप्ता
MBh 1.83.7
कस्त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः पतस्युदीर्णाम्बुधरान्धकारा;त्खात्खेचराणां प्रवरो यथार्कः
MBh 1.83.8
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं; वैश्वानरार्कद्युतिमप्रमेयम् किं नु स्विदेतत्पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः
MBh 1.83.9
दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम् अभ्युद्गतास्त्वां वयमद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः
MBh 1.83.10
न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वयं स्मः तत्त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वमागाः
MBh 1.83.11
भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः
MBh 1.83.12
सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प ते संगताः स्थावरजङ्गमेशाः; प्रतिष्ठितस्त्वं सदृशेषु सत्सु
MBh 1.83.13
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 13 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.83local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷