🪷 Mahābhārata · Ādi-Parva · Chapter 82
The Book of the Beginning · Parva 1 · 13 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 13 Shlokas
MBh 1.82.1
[व]
सवर्गतः स तु राजेन्द्रॊ निवसन देव सद्मनि
पूजितस तरिदशैः साध्यैर मरुद्भिर वसुभिस तथा
MBh 1.82.2
देवलॊकाद बरह्मलॊकं संचरन पुण्यकृद वशी
अवसत पृथिवीपालॊ दीर्घकालम इति शरुतिः
MBh 1.82.3
स कदा चिन नृपश्रेष्ठॊ ययातिः शक्रम आगमत
कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः
MBh 1.82.4
[षक्र]
यदा स पूरुस तव रूपेण राजञ; जरां गृहीत्वा परचचार भूमौ
तदा राज्यं संप्रदायैव तस्मै; तवया किम उक्तः कथयेह सत्यम
MBh 1.82.5
[य]
गङ्गायमुनयॊर मध्ये कृत्स्नॊ ऽयं विषयस तव
मध्ये पृथिव्यास तवं राजा भरातरॊ ऽनत्याधिपास तव
MBh 1.82.6
अक्रॊधनः करॊधनेभ्यॊ विशिष्टस; तथा तितिक्षुर अतितिक्षॊर विशिष्टः
अमानुषेभ्यॊ मानुषाश च परधाना; विद्वांस तथैवाविदुषः परधानः
MBh 1.82.7
आक्रुश्यमानॊ नाक्रॊशेन मन्युर एव तितिक्षतः
आक्रॊष्टारं निर्दहति सुकृतं चास्य विन्दति
MBh 1.82.8
नारुं तुदः सयान न नृशंसवादी; न हीनतः परम अभ्याददीत
ययास्य वाचा पर उद्विजेत; न तां वदेद रुशतीं पापलॊक्यम
MBh 1.82.9
अरुं तुदं पुरुषं रूक्षवाचं; वाक कण्टकैर वितुदन्तं मनुष्यान
विद्याद अलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम
MBh 1.82.10
सद्भिः पुरस्ताद अभिपूजितः सयात; सद्भिस तथा पृष्ठतॊ रक्षितः सयात
सदासताम अतिवादांस तितिक्षेत; सतां वृत्तं चाददीतार्य वृत्तः
MBh 1.82.11
वाक सायका वदनान निष्पतन्ति; यैर आहतः शॊचति रार्त्य अहानि
परस्य वा मर्मसु ये पतन्ति; तान पण्डितॊ नावसृजेत परेषु
MBh 1.82.12
न हीदृशं संवननं तरिषु लॊकेषु विद्यते
यथा मैत्री च भूतेषु दानं च मधुरा च वाक
MBh 1.82.13
तस्मात सान्त्वं सदा वाच्यं न वाच्यं परुषं कव चित
पूज्यान संपूजयेद दद्यान न च याचेत कदा चन
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 81
- Next chapter · Ādi-Parva Ch 83 →
🪷 जय व्यास भगवान् 🪷