🪷 Mahābhārata · Ādi-Parva · Chapter 85

The Book of the Beginning · Parva 1 · 27 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 27 Shlokas

MBh 1.85.1
अष्टक उवाच यदावसो नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधामन्वपद्यः
MBh 1.85.2
ययातिरुवाच ज्ञातिः सुहृत्स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर्हि तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसंघाः
MBh 1.85.3
अष्टक उवाच कथं तस्मिन्क्षीणपुण्या भवन्ति; संमुह्यते मेऽत्र मनोऽतिमात्रम् किंविशिष्टाः कस्य धामोपयान्ति; तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे
MBh 1.85.4
ययातिरुवाच इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति
MBh 1.85.5
तस्मादेतद्वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म आख्यातं ते पार्थिव सर्वमेत;द्भूयश्चेदानीं वद किं ते वदामि
MBh 1.85.6
अष्टक उवाच यदा तु तान्वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतंगाः कथं भवन्ति कथमाभवन्ति; न भौममन्यं नरकं शृणोमि
MBh 1.85.7
ययातिरुवाच ऊर्ध्वं देहात्कर्मणो जृम्भमाणा;द्व्यक्तं पृथिव्यामनुसंचरन्ति इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगाननेकान्
MBh 1.85.8
षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि तान्वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः
MBh 1.85.9
अष्टक उवाच यदेनसस्ते पततस्तुदन्ति; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः कथं भवन्ति कथमाभवन्ति; कथंभूता गर्भभूता भवन्ति
MBh 1.85.10
ययातिरुवाच अस्रं रेतः पुष्पफलानुपृक्त;मन्वेति तद्वै पुरुषेण सृष्टम् स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र
MBh 1.85.11
वनस्पतींश्चौषधीश्चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम् चतुष्पदं द्विपदं चापि सर्व;मेवंभूता गर्भभूता भवन्ति
MBh 1.85.12
अष्टक उवाच अन्यद्वपुर्विदधातीह गर्भ; उताहोस्वित्स्वेन कामेन याति आपद्यमानो नरयोनिमेता;माचक्ष्व मे संशयात्प्रब्रवीमि
MBh 1.85.13
शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन संज्ञाम् एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे
MBh 1.85.14
ययातिरुवाच वायुः समुत्कर्षति गर्भयोनि;मृतौ रेतः पुष्परसानुपृक्तम् स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम्
MBh 1.85.15
स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च
MBh 1.85.16
घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम् इत्यष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे
MBh 1.85.17
अष्टक उवाच यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा अभावभूतः स विनाशमेत्य; केनात्मानं चेतयते पुरस्तात्
MBh 1.85.18
ययातिरुवाच हित्वा सोऽसून्सुप्तवन्निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह
MBh 1.85.19
पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति कीटाः पतंगाश्च भवन्ति पापा; न मे विवक्षास्ति महानुभाव
MBh 1.85.20
चतुष्पदा द्विपदाः षट्पदाश्च; तथाभूता गर्भभूता भवन्ति आख्यातमेतन्निखिलेन सर्वं; भूयस्तु किं पृच्छसि राजसिंह
MBh 1.85.21
अष्टक उवाच किं स्वित्कृत्वा लभते तात लोका;न्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा तन्मे पृष्टः शंस सर्वं यथाव;च्छुभाँल्लोकान्येन गच्छेत्क्रमेण
MBh 1.85.22
ययातिरुवाच तपश्च दानं च शमो दमश्च; ह्रीरार्जवं सर्वभूतानुकम्पा नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः
MBh 1.85.23
अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् तस्यान्तवन्तश्च भवन्ति लोका; न चास्य तद्ब्रह्म फलं ददाति
MBh 1.85.24
चत्वारि कर्माण्यभयंकराणि; भयं प्रयच्छन्त्ययथाकृतानि मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः
MBh 1.85.25
न मान्यमानो मुदमाददीत; न संतापं प्राप्नुयाच्चावमानात् सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते
MBh 1.85.26
इति दद्यादिति यजेदित्यधीयीत मे व्रतम् इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः
MBh 1.85.27
येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम् तन्निःश्रेयस्तैजसं रूपमेत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 27 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.85local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷