🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 70
The Book of the Forest · Parva 3 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 39 Shlokas
MBh 3.70.1
बृहदश्व उवाच
स नदीः पर्वतांश्चैव वनानि च सरांसि च
अचिरेणातिचक्राम खेचरः खे चरन्निव
MBh 3.70.2
तथा प्रयाते तु रथे तदा भाङ्गस्वरिर्नृपः
उत्तरीयमथापश्यद्भ्रष्टं परपुरंजयः
MBh 3.70.3
ततः स त्वरमाणस्तु पटे निपतिते तदा
ग्रहीष्यामीति तं राजा नलमाह महामनाः
MBh 3.70.4
निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान्
वार्ष्णेयो यावदेतं मे पटमानयतामिति
MBh 3.70.5
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव
योजनं समतिक्रान्तो न स शक्यस्त्वया पुनः
MBh 3.70.6
एवमुक्ते नलेनाथ तदा भाङ्गस्वरिर्नृपः
आससाद वने राजन्फलवन्तं बिभीतकम्
MBh 3.70.7
तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत
ममापि सूत पश्य त्वं संख्याने परमं बलम्
MBh 3.70.8
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन
नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित्
MBh 3.70.9
वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक
पतितानि च यान्यत्र तत्रैकमधिकं शतम्
एकपत्राधिकं पत्रं फलमेकं च बाहुक
MBh 3.70.10
पञ्च कोट्योऽथ पत्राणां द्वयोरपि च शाखयोः
प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः
आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च
MBh 3.70.11
ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत्
परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन
MBh 3.70.12
अथ ते गणिते राजन्विद्यते न परोक्षता
प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम्
MBh 3.70.13
अहं हि नाभिजानामि भवेदेवं न वेति च
संख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप
मुहूर्तमिव वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम्
MBh 3.70.14
तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम्
बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः
MBh 3.70.15
प्रतीक्षस्व मुहूर्तं त्वमथ वा त्वरते भवान्
एष याति शिवः पन्था याहि वार्ष्णेयसारथिः
MBh 3.70.16
अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन
त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि बाहुक
MBh 3.70.17
त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद
शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि
MBh 3.70.18
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक
विदर्भान्यदि यात्वाद्य सूर्यं दर्शयितासि मे
MBh 3.70.19
अथाब्रवीद्बाहुकस्तं संख्यायेमं बिभीतकम्
ततो विदर्भान्यास्यामि कुरुष्वेदं वचो मम
MBh 3.70.20
अकाम इव तं राजा गणयस्वेत्युवाच ह
सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम्
MBh 3.70.21
ततः स विस्मयाविष्टो राजानमिदमब्रवीत्
गणयित्वा यथोक्तानि तावन्त्येव फलानि च
MBh 3.70.22
अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम्
श्रोतुमिच्छामि तां विद्यां यथैतज्ज्ञायते नृप
MBh 3.70.23
तमुवाच ततो राजा त्वरितो गमने तदा
विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम्
MBh 3.70.24
बाहुकस्तमुवाचाथ देहि विद्यामिमां मम
मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ
MBh 3.70.25
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात्
हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वचः
MBh 3.70.26
यथेष्टं त्वं गृहाणेदमक्षाणां हृदयं परम्
निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक
एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै
MBh 3.70.27
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः
कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन्
MBh 3.70.28
कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः
स तेन कर्शितो राजा दीर्घकालमनात्मवान्
MBh 3.70.29
ततो विषविमुक्तात्मा स्वरूपमकरोत्कलिः
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः
MBh 3.70.30
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः
कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम्
MBh 3.70.31
इन्द्रसेनस्य जननी कुपिता माशपत्पुरा
यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः
MBh 3.70.32
अवसं त्वयि राजेन्द्र सुदुःखमपराजित
विषेण नागराजस्य दह्यमानो दिवानिशम्
MBh 3.70.33
ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः
मत्प्रसूतं भयं तेषां न कदाचिद्भविष्यति
MBh 3.70.34
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः
ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम्
कलिस्त्वन्येन नादृश्यत्कथयन्नैषधेन वै
MBh 3.70.35
ततो गतज्वरो राजा नैषधः परवीरहा
संप्रनष्टे कलौ राजन्संख्यायाथ फलान्युत
MBh 3.70.36
मुदा परमया युक्तस्तेजसा च परेण ह
रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः
बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात्
MBh 3.70.37
हयोत्तमानुत्पततो द्विजानिव पुनः पुनः
नलः संचोदयामास प्रहृष्टेनान्तरात्मना
MBh 3.70.38
विदर्भाभिमुखो राजा प्रययौ स महामनाः
नले तु समतिक्रान्ते कलिरप्यगमद्गृहान्
MBh 3.70.39
ततो गतज्वरो राजा नलोऽभूत्पृथिवीपते
विमुक्तः कलिना राजन्रूपमात्रवियोजितः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 69
- Next chapter · Vana-Parva (Āraṇyaka) Ch 71 →
Sources and Connected Readings
Continue from these 39 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.70local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷