🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 69

The Book of the Forest · Parva 3 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 34 Shlokas

MBh 3.69.1
बृहदश्व उवाच श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत
MBh 3.69.2
विदर्भान्यातुमिच्छामि दमदन्त्याः स्वयंवरम् एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक
MBh 3.69.3
एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः
MBh 3.69.4
दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिता अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान्
MBh 3.69.5
नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना
MBh 3.69.6
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा
MBh 3.69.7
न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः यदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम् ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम्
MBh 3.69.8
इति निश्चित्य मनसा बाहुको दीनमानसः कृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम्
MBh 3.69.9
प्रतिजानामि ते सत्यं गमिष्यसि नराधिप एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप
MBh 3.69.10
ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः अश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया
MBh 3.69.11
स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान्
MBh 3.69.12
तेजोबलसमायुक्तान्कुलशीलसमन्वितान् वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः
MBh 3.69.13
दृष्ट्वा तानब्रवीद्राजा किंचित्कोपसमन्वितः किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम्
MBh 3.69.14
कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम महानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः
MBh 3.69.15
बाहुक उवाच एते हया गमिष्यन्ति विदर्भान्नात्र संशयः अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते
MBh 3.69.16
ऋतुपर्ण उवाच त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय
MBh 3.69.17
बृहदश्व उवाच ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् योजयामास कुशलो जवयुक्तान्रथे नरः
MBh 3.69.18
ततो युक्तं रथं राजा समारोहत्त्वरान्वितः अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः
MBh 3.69.19
ततो नरवरः श्रीमान्नलो राजा विशां पते सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान्
MBh 3.69.20
रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम्
MBh 3.69.21
ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः समुत्पेतुरिवाकाशं रथिनं मोहयन्निव
MBh 3.69.22
तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः अयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ
MBh 3.69.23
रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत् वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम्
MBh 3.69.24
किं नु स्यान्मातलिरयं देवराजस्य सारथिः तथा हि लक्षणं वीरे बाहुके दृश्यते महत्
MBh 3.69.25
शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित् मानुषं समनुप्राप्तो वपुः परमशोभनम्
MBh 3.69.26
उताहोस्विद्भवेद्राजा नलः परपुरंजयः सोऽयं नृपतिरायात इत्येवं समचिन्तयत्
MBh 3.69.27
अथ वा यां नलो वेद विद्यां तामेव बाहुकः तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च
MBh 3.69.28
अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति
MBh 3.69.29
प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणैः
MBh 3.69.30
भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः
MBh 3.69.31
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः
MBh 3.69.32
एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत् हृदयेन महाराज पुण्यश्लोकस्य सारथिः
MBh 3.69.33
ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम् चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः
MBh 3.69.34
बलं वीर्यं तथोत्साहं हयसंग्रहणं च तत् परं यत्नं च संप्रेक्ष्य परां मुदमवाप ह

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 34 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.69local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷